SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-२/५४ विवक्षितोपाश्रयाद् वहिर्वर्तिनी वगडा सा "हुरत्था” इति शब्देनोच्यते । अथ परः प्राहपरिहारस्तावत् तपोविशेष उयते, छेदस्तु पर्यायच्छेदरूपः, ततः सूत्रे " से संतरा परिहारे वा छेए वा " इति पठितुमुचितम्, किमर्थं व्यत्यासेन पाठः ? इत्याशङ्कयाह-बन्धानुलोभ्येन सूत्रे परिहारपदात् पूर्वं छेदपदं कृतम् । किमुक्तं भवति ? - एवंविधो हि पाठः सुललितपदविन्यासतया सुश्चिलष्टो भवतीति कृत्वा सूत्रकृता प्रथमं छेदपदमुपन्यस्तम् ॥ [ भा. ३४०५ ] अहवण वारिजंतो, निक्कारणओ व तिण्ह व परेणं । छेयं चिय आवज्जे, छेयमओ पुव्वमाहंसु ॥ वृ- अथवा यदि तत्र विकटयुक्तोपाश्रये गुर्वादिना वार्यमाणः 'निष्कारणतो वा' दर्पतस्तिष्ठति, त्रयणां वाऽहोरात्राणां परतस्तिष्ठति, तदा छेदाख्यमेव प्रायश्चितमसावापद्यते, अतश्चेदपदं 'पूर्व' प्रथममुक्तवन्तो भगवन्तो भद्रबाहुखामिनः । अथ सुरा-सौवीरकपदे व्याचष्टेपिट्ठेण सुरा होती, सोवीरं पिट्ठवज्जियं जाणे । [ भा. ३४०६ ] २९० ठायंतगाण लहुगा, कास अगीयत्थ सुत्तं तु ॥ वृ-. व्रीह्यादिसम्बन्धिना पिष्टेन यद् विकटं भवति सा सुरा । यत्तु पिष्टवर्जितं द्राक्षाखर्जूरादिभिर्द्रव्यैर्निष्पाद्यते तद् मद्यं सौवीरकविकटं जानीयात् । एतद् द्विविधमपि यत्रोपनिक्षिप्तं भवति तत्रोपाश्रये तिष्ठतां चतुर्लधुकाः । कस्य पुनरेतत् प्रायश्चित्तम् ? इत्याह- अगीतार्थस्य । 'सूत्रं तु' "कप्पइ एगरायं वा दुरायं वा वत्थए" इत्यादिलक्षणं गीतार्थविषयं मन्तव्यम् ॥ इत ऊर्ध्वं "नत्थि अगीयत्थो वा०" इत्यादिकाः “कासइ इच्छा समुप्पन्ना" इतिपर्यन्ता गाथास्तदवस्था एवात्र द्रष्टव्याः । अथ कीदृशी तस्येच्छा समुत्पन्ना ? इत्याह [भा. ३४०७] अनुभूआ मज्जरसा, नवरिं मुत्तूनिमेसि मज्जनं । काहामि कोउहलं, पासुत्तेसुं समारद्धो ॥ वृ- अनुभूता मया बहवो मद्यरसाः परममीषां मद्यानां रसान् मुक्त्वा, अतः 'करिष्यामि' पूरयिष्यामि कौतूहलमिति विचिन्त्य प्रसुप्तेषु शेषसाधुषु समारब्धोऽसौ तद्भाजनमुद्घाट्य विकटपानं कर्तुम् ॥ ततश्च [भा. ३४०८] इहरा कहासु सुणिभो, इमं खु तं काविसायणं मज्जं । पीते वि जायति सती, तजुसिताणं किमु अपीते ।। वृ- 'इतरथा' अद्यदिनात् पूर्वं कथास्वेव शृणुमः, परमिदं 'तत्' कथान्तरश्रुतं कापिशायनं नाम मद्यम् । एवं तद्-मद्य जुषितं-सेवितं यैस्ते तज्जुषिताः, गृहवासे विकटपायिन इत्यर्थः, तेषां पीतेऽपि विकटे स्मृतिरुपजायते, किं पुनरपीते ? ॥ [ भा. ३४०९ ] विगयम्मि कोउहल्ले, छट्टवयविराधन त्ति पडिगमनं । वेहानस ओहाणे, गिलाणसेहेण वा दिट्ठो ॥ गतार्था ॥ भा३४३०१ उड्डाहं व करिज्जा, विष्परिणामो व हुज्ज सेहस्स । गिण्हंतेन व तेनं, खंडिय विद्धे व भिन्ने वा ॥ अझस्तं संयतं विकटपानं कुर्वाणं दृष्ट्वा लोकस्य पुरत उड्डाहं कुर्यात्, विपरिणामो वा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy