________________
बृहत्कल्प-छेदसूत्रम् -२-१/११ प्रतिनिवृत्तः ।एवंसद्भावे आख्याते' कथिते सति दूतममात्योभणति-एतेइहरथ्यायाअन्तर्बहिर्वा नापशकुनत्वमर्हन्ति।ततः पवेशनादूतस्य राजभवने कृता । एवमस्माकमपि पावस्थादयस्तदीयसंयत्यश्च रथ्यादौ दृश्यमाना न दोषकारिण्यो भवन्ति । अपि च[भा.२२९४] जह चेव अगारीणं, विवक्खबुद्धी जईसुपुव्वुत्ता।
तह चेव य इयरीणं, विवक्खबुद्धी सुविहिएसु॥ वृ- यथैव अगारीणाम्' अविरतिकानां पूर्वम् “आगंतुगदव्वविभूसियं" इत्यादिना यतिषु विपक्षबुद्धिरुक्ता तथैव इतरासां' पार्श्वस्थादिसंयतीनांहस्त-पादधावनादिना विभूषितविग्रहाणां सुविहितेषु स्नानादिविभूषारहितेषु विपक्षबुद्धिर्भवतीति द्रष्टव्यम् ॥
मू. (१२) नो कप्पइ निग्गंथीणं आवणगिहंसि वा रच्छामुहंसि वा सिंघाडगंसि वा चउक्कंसि वा चचरंसि वा अंतरावणंसि वा वत्थए।
वृ-अथास्य सूत्रस्य सम्बन्धमाह[भा.२२९५] एयारिसखेत्तेसुं, निग्गंथीणं तु संवसंतीणं ।
केरिसयम्मिन कप्पइ, वसिऊण उवस्सए जोगो ॥ वृ- एतादृशेषु-पृथग्वगडाकेषु पृथग्द्वारेषु च क्षेत्रेषु निर्ग्रन्थीनां संवसन्तीनां कीशे उपाश्रये वस्तुंन कल्पते? इतिअनेन सूत्रेण चिन्त्यते, एषः 'योगः' सम्बन्धः॥प्रकारान्तरेण सम्बन्धमाह[भा.२२९६] दिट्ठमुवस्सयगहणं, तत्थऽज्जाणं न कप्पइ इमेहिं।
वुत्ता सपक्खओवा, दोसा परपक्खिया इणमो॥ वृ-दृष्टमनन्तरसूत्रे उपाश्रयग्रहणम्, तत्राऽऽर्याणाममीषु प्रतिश्रयेषु वस्तुंन कल्पते इत्यनेन सूत्रेण प्रतिपाद्यते। उक्ता वा 'स्वपक्षतः' स्वपक्षमाश्रित्य संयतानां संयतीनां च परस्परं दोषाः, इदानीं तु 'परपाक्षिकाः' गृहस्थाख्यपरपक्षप्रभवा दोषा व्यावर्ण्यन्ते इति ॥ एवम् अनेकैः सम्बन्धैरायातस्यास्य सूत्रस्य व्याख्या-नो कल्पते 'निर्ग्रन्थीनां' साध्वीनामापणगृहे वा रथ्यामुखे वा शृङ्गाटके वा चतुष्के वा चत्वरे वा अन्तरापणे वा वस्तुमिति सूत्रसङ्केपार्थः ।।
अथ विस्तरार्थं प्रतिपदमभिधित्सुः प्रायश्चित्तमाह[भा.२२९७] आवणगिह रच्छाए, तिए चउक्कंतरावणे तिविहे ।
ठायंतिगाण गुरुगा, तत्थ वि आणाइणो दोसा ।। वृ- आपणगृहे रथ्यामुखे त्रिके चतुष्केऽन्तरापणे वा 'त्रिविधे' त्रिप्रकारे वक्ष्यमाणस्वरूपे उपलक्षणत्वात् चत्वरेच तिष्ठन्तीनां संयतीनांप्रत्येकंचत्वारो गुरुकाः प्रायश्चित्तम्।तत्राप्याज्ञादयो दोषा द्रष्टव्याः॥ आपणगृहादीनां व्याख्यानमाह[भा.२२९८] जं आवणमज्झम्मी, जंच गिहं आवणा य दुहओ वि ।
तं होइ आवणगिहं, रच्छामुह रच्छपासम्मि॥ वृ-यद् गृहम् ‘आपणमध्ये' समन्तादापणैः परिक्षिप्तम् अथवा मध्यभागे यद् गृहं द्वाभ्यामपि च पाश्र्वाभ्यां यस्यापणा भवन्ति तद् आपणगृहं भवति । रथ्यामुखं रथ्यायाः पार्वे भवति ।
तच त्रिविधम्[भा.२२९९] तंपुन रच्छमुहं वा, बाहिमुहं वा वि उभयतोमुहं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org