________________
४६०
बृहत्कल्प-छेदसूत्रम् -२-३/९४
अथ न शोष्यते ततोऽम्लीभवति । एवमम्लीभूते तस्मिन्नुदकं विराध्यते, पनकश्च सम्मूर्च्छति । अथैतद्दोषपरिहारार्थमग्नौ तापयति ततोऽग्निविराधना । अथाद्रेणप्रमार्जयतिततोदशिकान्तेषु उल्लण्डकाः-मृद्रोलकाः प्रतिबध्यन्ते । तेषु प्रतिबद्धेषु यदि प्रमार्जनं करोति ततस्त्रसविराधना, अथ न प्रमार्जयति ततः संयमविराधना । स्थान-निषदनादिषु वा केन प्रमार्जयतु?॥ [भा.४२५५] एमेव सेसगम्मि, संजमदोसा उ भिक्खणिज्जोए।
चोल-निसिज्जा उल्ले, अजीर गेलन्नमायाए॥ वृ-एवमेववर्षाकल्पादावपिशेषोपकरणे भिक्षानिर्योगेच पटलक-पात्रबन्धरुपेद्विगुणेऽगृहीते 'संयमदोषाः' षट्कायविराधनालक्षणा रजोहरणवद् वक्तव्याः । चोलपट्टे रजोहरणनिषद्यायां च द्विगुणायामगृह्यमाणायां बहिर्गतानां वर्षेणार्दीभावे साते नित्यपरिभोगेन भक्तंन जीर्यते, अजीर्यमाणे च भक्ते ग्लानत्वं भवति, ततश्च 'आत्मविराधना' परिताप-महादुःखादिका ।। किञ्च[भा.४२५६] अद्धाणनिग्गतादि, परिता वा अहव नट्ठ गहणम्मि ।
जंच समोसरणम्मिं, अगेण्हणे जंच परिभोगो।। वृ-छिन्नादच्छिन्नाद्वा अध्वनो निर्गताः आदिशब्दादशिवादिकारणविनिर्गता वा ये परीत्ताः' परिमितोपकरणाःअथवा “नट्ठ"त्ति नष्टोपकरणाहारितोपद्यय इत्यर्थः “गहणम्मि"त्तिप्रत्यनीकेन वा उपधेर्ग्रहणे कृते विविक्ता आगच्छेयुः। एतेषामागतानामतिरिक्तोपकरणाभावाद्यधुपग्रहं न करोतितत उपधिनिष्पन्नप्रायश्चित्तम् । अथ तदर्थं नूतनमुपधिं गृह्णन्ति ततोऽप्युपधिनिष्पन्नम्, यच्च प्रथमे समवसरणे उपकरणग्रहणे दोपजालं तत् प्राप्नुवन्ति । अथ गृह्णन्ति तत उपकरणं विना यत् तृणादिपरिभोगे दूषणकदम्बकं तद् आसादयन्ति।
अमुभेवार्थं व्याख्याग्रन्थेन स्पष्टयति[भा.४२५७] अद्धाणनिग्गयादीनमदेंते होति उवधिनिष्फन्न ।
जंते अनेसणऽग्गिं, सेवे देतऽप्पणा जंच ॥ वृ-अध्वनिर्गतादीनामतिरिक्ताभावे उपकरणं यदि न प्रयच्छन्ति तत उपधिनिष्पन्नं भवति, प्रायश्चित्तमिति शेषः। तच जघन्ये पञ्चकम्, मध्यमे मासलघुकम्, उत्कृष्ट चतुर्लघवः । ते च' अध्वादिनिर्गता अनेषणीयोपकरणमग्निं वा यद् आसेवन्ते तन्निष्पन्नमप्रयच्छतां प्रायश्चित्तम् । अथात्मीयमुपकरणं तेषां प्रयच्छन्ति तत आत्मनः परिहाणि, यच्चात्मना तृणादिसेवनं कुर्वन्ति तन्निष्पन्नम् ॥
के पुनः प्रथमसमवसरणे वस्त्रग्रहणे दोषाः ? इत्याह[भा.४२५८] अत्तट्ट परट्ठा वा, ओसरणे गेण्हमाणे पन्नरस ।
दाउ परिभोग छप्पति, डउरं उल्ले य गेलनं ।। वृ- अथात्मनो वा परेषां वा-अध्वनिर्गतादीनामर्थाय प्रथमसमवसरणे उपधिं गृह्णन्ति तत आघाकर्मादयः पञ्चदशोद्गमदोषा भवन्ति।आत्मोपधिमध्वनिर्गतादीनां दत्त्वा तमेवैकंप्रत्यवतारं नित्यं परिभुजानस्य षट्पदिकाः सम्मूर्च्छन्ति। तासुचान्न-पानमध्ये पतितासुभक्षितासुच "डउरं" तिजलोदरं भवति । एकप्रत्यवतारेण चाट्टैण रात्रौ प्रावृतेन सुप्तस्य भक्तं नजीर्यति, अजीर्यतिच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org