________________
30
बृहत्कल्प-छेदसूत्रम् -२-१/१०
एकैकस्मिन् भङ्गे दृष्टादयः' दृष्टे सति शङ्का भोजिकादयो दोषा भवन्ति । तत्र शङ्का नाम किं विश्रामणार्थमत् प्रविशति? उतप्रतिसेवनार्थम्? इतितत्रचतुर्गुरु।प्रतिसेवनार्थमेवेति निशङ्किते मूलम् । शेषं भोजिकानिवेदनादि सप्रायश्चित्तं प्राग्वद् द्रष्टव्यम् । तथा उभयोरपि राजपुरुषैस्तत्र प्रवेशे दृष्टे सति ग्रहणा-ऽऽकर्षणादयो दोषाः । सप्तमे भङ्गे मासलघु, तत्र चात्मोभयादिसमुत्थाः सविशेषा दोषाः। तथाहि-तत्रोभयोरप्यष्टत्वादन्योन्यदर्शने द्वयोरेकतरस्यवा चित्तभेदः सम्भवेतकेनाप्यावां प्रविशन्तौ न दृष्टाविति कृत्वा तत्रैकान्ते घटनं भवेत् । आदिशब्दाच्चतुर्थव्रतं विराधितमावाभ्यामिति मत्वा वैहायसमरणा-ऽवधावनादीनि कुर्याताम् ॥ अथ प्रवेशविषयेषु भङ्गकेषु पञ्चभिरादेशैः प्रायश्चित्तमभिधित्सुः प्रथमादेशतस्तावदाह[भा.२१८७] चरमे पढमे बिइए, तइए भंगे य होइमा सोही।
मासो लहुओ गुरुओ, चउलहु-गुरुगा य भिक्खुस्स। वृ-चरमो नाम-यत्र द्वे अपि न दृष्टे १ प्रथमः-यत्र संयत एव दृष्टः २ द्वितीयः-यत्र संयती टेष्टा ३ तृतीयः-यत्र द्वे अपि हटे ४, एतेषु भङ्गेषु यथाक्रमं भिक्षोरियं शोधिर्मन्तव्या । तद्यथा-मासो लघुकः, मासो गुरुकः, चतुर्लघुकाः, चतुर्गुरुकाः॥ [भा.२१८८] वसभेय उवज्झाए, आयरिए एगठाणपरिवुड्डी।
मासगुरुं आरब्मा, नायव्वा जाव छेदो उ ।। वृ. वृषभस्योपाध्यायस्याचार्यस्य च यथाक्रममेकैकस्थानपरिवृद्धि कर्तव्या, ततश्च मासगुरुकादारभ्य च्छेदं यावत् प्रायश्चित्तस्थानानि ज्ञातव्यानि । तद्यथा-वृषभस्य चतुर्थे भङ्गे मासगुरु, प्रथमे चतुर्लघु, द्वितीये चतुर्गुरु, तृतीये षड्लघु; एवमुपाध्यायस्य चतुर्लघुकादारब्धं षड्गुरुके तिष्ठति, आचार्यस्य चतुर्गुरुकादारब्धं छेदान्तं द्रष्टव्यम् ।। एष एक आदेशः।
अथ द्वितीय उच्यते[भा.२१८९] अहवा चरिमे लहुओ, चउगुरुगं सेसएसु भंगेसु। .
भिक्खुस्स दोहि विलहू, काल तवे दोहि वी गुरुगा॥ वृ-अथवा चरमे भङ्गे लघुको मासः, ‘शेषेषु' त्रिष्वपि भङ्गेषु प्रत्येकं चतुर्गुरुकम् । एतानि प्रायश्चित्तानिभिक्षोः 'द्वाभ्यामपि तपसाकालेनचलघुकानि, वृषभस्यकालगुरुकाणि, उपाध्यायस्य तपोगुरूणि, आचार्यस्योभयगुरूणि ॥ एष द्वितीय आदेशः। अथ तृतीय उच्यते[भा.२१९०] मासो विसेसिओ वा, तइयादेसम्मि होइ भिक्खुस्स।
गुरुगो लहुगा गुरुगा, विसेसिया सेसगाणं तु॥ वृ-'वा' इति अथवा तृतीयादेशे चतर्ध्वपि भङ्गेषु लघुमासस्तपः-कालविशेषितो भिक्षोभवति। तद्यथा-चतुर्थे भङ्गे द्वाभ्यामपि तपः-कालाभ्यां लघुकं लघुमासिकम्, प्रथमे तदेव तपसा लघुकं कालेन गुरुकम्, द्वितीये काले लघुकं तपसा गुरुकम्, तृतीये द्वाभ्यामपितपःकालाभ्यां गुरुकम्। ‘शेषाणां तु वृषभोपाध्यायाचार्याणां यथाक्रमं गुरुको मासः चत्वारो लघुकाश्चत्वारो गुरुकाः चतुर्वपिभङ्गेष्वेवमेवतपः-कालविशेषिताः प्रायश्चित्तम् । एषतृतीयआदेशः । अथ चतुर्थमाह[भा.२१९१] अहवा चउगुरुग च्चिय, विसेसिया हुँति भिक्खुमाईणं।
मासाइ जाव गुरुगा, अविसेसा हुंति सव्वेसिं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org