SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २९ उद्देशकः १, मूलं-१०, [भा. २१८१] [भा.२१८१] पढम-बिइयातुरो वा, सइकाल तवस्सि मुच्छ संतो वा। __ रच्छामुहाइ पविसं, नितो व जनेन दीसिज्जा ।। वृ-“रच्छामुहाइ"त्ति तस्मिन् ग्रामे रथ्यामुखे आदिशब्दादन्यत्र वा तथाविधे स्थाने देवकुलं वा शून्यगृहं वा भवेत् तत्र प्रथमपरीषहातुरः प्रथमालिका) द्वितीयपरीषहातुरश्च द्रवपानार्थं प्रविशेत्, यद्वा यावन्न ‘सत्कालः' भिक्षाया देशकालो भवति तावदत्रैवोपविष्टस्तिष्ठामि, अथवा 'तपस्वी' क्षपकः सविश्रामग्रहणार्थम्, यद्वाऽत्युष्णेन कस्यापिमूर्छा समुत्पन्नातस्याअपनयनार्थम्, यदि वा भिक्षाटनेन श्रान्तोऽहमतोऽत्र विश्राम गृह्णामि एवमेभि कारणैस्तत्र प्रविशेत. स च प्रविशन् ततो निर्गच्छन् वा जनेन दृश्येत; संयत्यपि तत्रैतैरेव कारणैः प्रविशेत् साऽपि प्रविशन्ती जनेन दृष्टा स्यात् ।।अत्र चतुर्भङ्गीमाह[भा.२१८२] संजओ दिट्ठो तह संजई य दोन्नि वि तहेव संपत्ती। रच्छामुहे व होजा, सुन्नघरे देउले वा वि॥ वृ-सयतस्तत्र प्रविशन् दृष्टोन संयती संयती दृष्टा न संयतः २ संयतः संयती च द्वावपि दृष्टौ न दृष्टौ वा३-४। “तहेव संपत्ति"त्तियैः कारणैः संयतः प्रविष्टस्तैरेव संयत्या अपि तत्र सम्प्राप्तिरभूत्, एवमनन्तरोक्तचतुर्भङ्गया रथ्यामुखेवा शून्यगृहे वा देवकुलेवा दर्शनं स्यात् ।। ततः किम् ? इत्याह[भा.२१८३] वइणी पुव्वपविठ्ठा, जेणायं पविसते जई इत्थ । एमेव भवति संका, वइणिं दह्ण पविसंति॥ कृ-संयतंतत्रप्रविशन्तं दृष्ट्वा शङ्का भवेत्-नूनंव्रतिनी पूर्वप्रविष्टा वर्तते येनायंयतिरत्रप्रविशति। एवमेव व्रतिनी प्रविशन्तीं दृष्ट्वा शङ्का भवति-नूनं संयतः प्रविष्टोऽस्ति येनेयं प्रविशति ॥ [भा.२१८४] उभयं वा दुदुवारे, दटुं संगारउ त्ति मन्नंति। तेपुन जइ अन्नोन्नं, पासंता तत्थ न विसंता॥ वृ-द्विद्वारे वा देवकुले 'उभयं' संयतः संयती च प्रविशेत्, तत्रैकेन द्वारेण संयतः प्रविष्टो द्वितीयेन तु संयती, तौ च दृष्ट्वा “सङ्गारः' संङ्केतोऽत्रानयोरिति गृहस्था मन्यन्ते । “तौ च" संयतीसंयतौ यद्यन्योन्यमद्रक्ष्यतां ततस्तत्र 'नावेक्ष्यतां प्रवेशं नाकरिष्यताम्॥ इत्थं प्रवेशे चतुर्भङ्गी दर्शिता । अथ निर्गमनेऽपि तामतिदिशन्नाह[भा.२१८५] एमेव ततो निते, भंगा चत्तारि होति नायव्वा । चरिमो तुल्लो दोसु वि, अदिट्ठभावेण तो सत्त॥ वृ-'एवमेव' प्रवेशवत् 'ततः' शून्यगृहादेर्निर्गच्छतरपितयोश्चत्वारो भङ्गा भवन्ति ज्ञातव्याः। तद्यथा-संयतो निर्गच्छन् दृष्टो न संयती १ संयती निर्गच्छन्ती दृष्टा न संयतः २ संयतः संयती द्वावपि दृष्टौ ३ द्वावपिन दृष्टौ ४।अत्र च 'द्वयोरपि' प्रवेश-निर्गमयोः 'चरमः' चतुर्थो भङ्गस्तुल्यः। कुतः? इत्याह-'अष्टभावेन' द्वयोरपि संयत-संयत्योरदृष्टत्वेन, ततश्च द्वाभ्यामप्येक एव गण्यते, एवं सप्त भङ्गा भवन्ति । एतेषु दोषानाह[भा.२१८६] एक्विक्कम्मि य भंगे, दिट्ठाईया य गहणमादीया । सत्तमभंगे मासो, आउभयाई अ सविसेसा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy