________________
बृहत्कल्प-छेदसूत्रम् -२-१/१० कवचंमहाँस्तनुत्राणविशेषः, एवंविधा यथा काचिद् वडवा कस्यचिद् नृपत्यादेरङ्गणमध्ये तिष्ठति, अश्वश्च तथैव, ततस्तां दृष्टवा प्रधावितोऽपि वर्मित-कवचितां तां न प्रतिसेवितुं शक्नोति । यदा तु तस्या वडवाया अपावरणं-वर्मादिरपनयनं क्रियते तदा सुखेनैव प्रतिसेविष्यत इति । अत इयमेवापराधिनीति तैः कारणिकैः 'कार्यस्य' व्यवहारस्य 'छेदनं' परिच्छेदकारि वचो भणितमिति ।। [भा. २२८४ ] एवं खु लोइयाणं, महिला अवराहि न पुन सो पुरिसो । इह पुन दोह वि दोसो, सविसेसो संजए होइ ॥
वृ- 'एवम्' अमुना प्रकारेण 'खुः' अवधारणे लौकिकानां महिला अपराधिनी संवृत्ता न पुनरसौ पुरुषः । ' इह पुनः' अस्माकं लोकोत्तरे व्यवस्थितानां 'द्वयोरपि' संयती - संयतयोर्दोषः, अपि च ‘सविशेषः' समधिको दोषः संयते भवति ॥ कुतः ? इति चेद् उच्यते
४८
[भा. २२८५ ] पुरिसुत्तरिओ धम्मो, पुरिसे य धिई ससत्तया चेव । पेलव परज्झ इत्थी, फुंफुग-पेसीए दिट्ठतो ॥
वृ- “पुरुषोत्तरः पुरुषप्रधानो यतः पारमेश्वरो धर्म, पुरुषे च 'धृति' मानसस्वास्थ्यलक्षणा ‘ससत्त्वताच' सत्त्वसम्पन्नता भवति, अतस्तस्य प्रतिसेवमानस्य सविशेषो दोषः । स्त्री तु 'पेलवा' निसत्त्वा ‘“परज्झ’”त्ति परवशाच । अत्र च फुम्फुकेन पेश्या च दृष्टान्तः यथा फुम्फुकः - करीषाग्निचालितः सनुद्दीप्यते एवं स्त्रीवेदोऽपि, यथा च पेशी सर्वस्याप्यभिलषणीया एवमियमपि । अतो न तस्याः समधिको दोष इति । आह यदि संयतीनामन्तस्तृतीयभङ्गे विचारभूमिर्भवेत् ततः किं न वर्त्तते स्थातुम् ? उच्यते
[भा. २२८६] जइ वि य होज्ज वियारो, अंतो अजाण तइयभंगम्मि । तत्थ वि विकिंचणादीविग्गनाणं तु ते दोसा ।।
वृ- यद्यप्यार्याणामन्तः 'तृतीयभङ्गे' आपातासंलोकलक्षणे विचारो भवेत तथापि विवेचनाउद्धरितभक्त-पानादिपरिष्ठापनिका तत्प्रभृतिषु कार्येषु विनिर्गतानां साधु-साध्वीनां परस्परमिलितानामेकद्वारे क्षेत्रे 'त एव' पूर्वोक्ता दोषा भवेयुः, अतस्तत्रापि न वर्त्तते स्थातुम् ॥
उपसंहरन्नाह
[भा. २२८७] एते तिन्नि वि भंगा, पढमे सुत्तम्मि जे समक्खाया। जो पुन चरिमो भंगो, सो बिइए होइ सुत्तम्मि ।।
वृ- एका वगडा एकं द्वारम् १ एका वगडा अनेकानि द्वाराणि २ अनेका वगडा एकं द्वारम् ३ एते त्रयोऽपि भङ्गा ये समाख्यातास्ते प्रथमे वगडासूत्रे प्रत्येतव्याः । तच्च प्रागेव व्याख्यातम् । यः पुनः 'चरमो भङ्गः' सअनेकावगडा अनेकानि द्वाराणीति लक्षणः स द्वितीये वगडासूत्रे द्रष्टव्यः ॥ तच्चेदम्
मू. (११) से गामंसि वा जावरायहाणिंसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणप्पवेसाए कप्पइ निग्गंथाण य निग्गंधीण य एगयओ वत्थए ।
वृ- अथ ग्रामे वा यावद् राजधान्यां वा 'अभिनिवगडाके' निपातानामनेकार्थत्वाद् अभि इतिअनेका नि इति-नियता वगडाः - परिक्षेपाः यत्र, यद्वा 'अभि-नि' शब्दौ पृथगर्थद्योतकौ द्रष्टव्य, ततश्च पृथग्- अनेका वगडा यत्र तदभिनिवगडाकं तत्र । एवमभिनिद्वारकेऽभिनिष्क्रमण-प्रवेशके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org