________________
उद्देशकः १, मूलं-१०, [भा. २२७८]
४७ अनेकवगडे एकद्वारे च क्षेत्रे पद्मसरो वा 'विदरको वा' गर्ता व्याघातः' व्याघातकारणं भवेद् येनानेके निष्क्रमण-प्रवेशा न भवन्ति तस्मिन्नपि स एव ‘गमः' प्रकारः सर्वोऽपि ज्ञातव्यः । 'नवरं' केवलं पुनर्देवकुले ‘मीलकः' दृष्ट्यादिभिः कारणैः साधु-साध्वीनां सङ्गमो भवेत् ।।
कथम् ? इत्यत आह[भा.२२७९] अंतो वियार असई, अजाण हविज्ज तइयभंगम्मि ।
संकिट्ठगवीयारे, व होज्ज दोसा इमं नायं ॥ वृ- अनेकवगडाके एकनिष्क्रमण-प्रवेशे च ग्रामादौ स्थितेषु साधु-साध्वीजनेषु आरियाकाणामन्तः 'तृतीयभङ्गे आपातासंलोकाख्येविचारभूमेरसत्ता भवेत्ततोबहिर्निर्गच्छन्तीनां संक्लिष्टविचारभूमर्दोषा भवेयुः । संक्लिष्टविचारभूमी नाम एकद्वारतया अन्या संज्ञाभूमिर्न विद्यते अतः संयता अपि तत्रैवायान्ति, आसन्ने वा परस्परं संज्ञाभूमी, ततश्च निर्गमने प्रवेशे वा देवकुले मेलको भवेत् । इदं चात्र 'ज्ञात' दृष्टान्त उच्यते॥ [भा.२२८०] वासस्स य आगमनं, महिला कुड नंतगेव रत्तट्ठी ।
देउलकोणे व तहासंपत्ती मेलणं होजा॥ वृ-कस्याश्चिद् महेलायाः कुसुम्भरक्तवस्त्रयुगलनिवसनायाः प्रथमप्रावृषि घटं गृहीत्वा जलाहरणार्थं निर्गतायाः ‘वर्षस्य' वृष्टेरागमनम्। ततोऽसौमहेला रक्तार्थिनी' रञ्जनंरक्तंकुसुम्भराग इत्यर्थः तदर्थिनी 'मा वर्षोदकेन पतता कुसुम्भरागो विलीयताम्' इति कृत्वा 'कुटे' घटे 'नंतके' वस्त्रे द्वेअपिप्रक्षिप्य स्वयमपावृतीभूय क्वापिदेवकुले प्रविष्टा । तस्य च कोणके यावदसौप्रविशति तावत्तत्र कश्चिदगारः पूर्वप्रविष्ट आसीत्तेन सा अपावृता दृष्टा, जातश्चतस्य मोहोदयः, ततस्तेन सायुक्ता, दृष्टं च तदन्यैः पुरुषैः। एवं तथासम्पत्त्या तथाविधवर्षपतनादिसमायोगेनैकस्या एव विचारभूमेः प्रतिनिवृत्तयोः संयती-संयतयोरेकत्र देवकुलादौ वर्षावस्त्राणि परित्यक्तवतोर्मीलनं भवेदिति ॥अथ तस्यागारस्य किं संवृत्तम् ? इत्याह[भा.२२८१] गहिओ असो वराओ, बद्धो अवओडओ दवदवस्स।
संपाविओ रायकुलं, उप्पत्ती चेव कजस्स ॥ -गृहीतश्चसवराको राजपुरुषैः, बद्धश्च अवकोटकः' अधोनीतकृकाटिकः पश्चान्मुखीकृतबाहुयुगलः, “दवदवस्स"त्ति शीघ्रं सम्प्रापितश्च राजकुलमयम्, तत्र च प्रस्तुतकार्यस्योत्पत्ति कारणिकैः पृष्टा, तेन चागारेण यथावस्थितं सर्वमपि तत्पुरतो विज्ञप्तम् । ततश्च[भा.२२८२] जाणंता विय इत्थि, दोसवइं तीए नाइवग्गस्स।
पच्चयहेउंसचिवा, करति आसेन दिद्रुतं ।। वृ-'नहि महत्यपि वृष्टयाधुपद्रवे स्त्रिया निरावरणत्वं शिष्टानामनुमतम्' इति कृत्वा स्त्रियं दोषवतींजानन्तोऽपितस्याः सम्बन्धी यो ज्ञातिवर्ग-स्वजनसमुदायस्तस्य प्रत्ययहेतोः ‘सचिवाः' कारणिका अश्वेन घटान्तं कुर्वन्ति । तमेवाह[भा.२२८३] वम्मिय कवइय वलवा, अंगनमझे तहेव आसोय।
वलवाए, अवंगुननं, कज्जस्स य छेदनं भणियं ।। . वृ-वर्ण-लघुस्तनुत्राणविशेषः, तदस्याः सातमिति वर्मिता, एवं कवचिताऽपि, नवरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org