________________
बृहत्कल्प-छेदसूत्रम् -२-१/१० तत्रेयं यतना[भा.२२७४] खढओ व चिलिमिली वा, तत्तो थेरा य उच्चनीए वा।
पासे ततो न उभयं, मत्तग जयणाऽऽउल ससद्दा ।। वृ-प्रविशन्तो निर्गच्छन्तो वा यस्मिन् पार्वे परस्परं पश्यन्ति ततः कटकः वंशादिमयो घनो दीयते । अथ कटकोन प्राप्यते तदा चिलिमिली वस्त्रमयी दातव्या, स्थविराश्च ततस्तस्मिन् पार्वे तिष्ठन्ति, संयतीनां तु क्षुल्लिकाः । एवमुच्च-नीचे यतना । अथोच्च-नीचमपि न लभ्यते ततो यत्र पार्श्वतो वा मार्गतो वा प्रतिश्रयस्तत्र तिष्ठतां यतना-कायिक्यादिव्युत्सर्जनार्थं निर्गच्छन्तो यत्र परस्परं पश्येयुः 'ततः' तस्यां दिशि 'नोभयं' न संज्ञां न वा कायिकी व्युत्सृजन्ति । ताशस्य स्थण्डिलस्याप्राप्तौमात्रकेषुयतन्ते, अथवाआकुलाः सशब्दावातत्रव्रजन्ति, तदभावेसप्रतिमुखद्वारे तिष्ठन्ति ॥ तत्र चेयं यतना[भा.२२७५]पिहदारकरण अभिमुह, चिलिमिलि वेला ससद्द बहु निंति।
साहीए अन्नदिसिं, निंती न य काइयं तत्तो।। वृ-यत्रद्वाराणिपरस्परमभिमुखानि तत्रान्यस्यां दिशिपृथगद्वारं कुर्वन्ति।अथन लभ्यतेऽन्यस्यां दिशि द्वारं कर्तुं ततो द्वारे चिलिमिली नित्यबद्धा स्थापनीया कटको वा अपान्तराले दातव्यः, कायिक्याः संज्ञायाश्च वेलां परस्परं स्थापयित्वा असहशवेलायां निर्गच्छन्ति, 'सशब्दाश्च' काशितादिशब्दस्वागमनसूचकं कुर्वन्तोबहवः निर्यन्ति' निर्गच्छन्ति। यत्रैका साहिका तत्रान्यस्यां दिशियस्य द्वारंतत्र प्रतिश्रयेतिष्ठन्ति । यतश्च संयतीनांप्रतिश्रयस्ततः कायिक्यान निर्गच्छन्ति, तासां वा कायिकीभूमिं न व्रजन्ति । एवं संज्ञाभूम्यामपि द्रष्टव्यम् ।। कियद्वाऽत्र मणिष्यते?[भा.२२७६] जत्थऽप्पतरा दोसा, जत्थ य जयणं तरंति काउंजे।
तत्थ वसंति जयंता, अनुलोमं किं पिपडिलोमं॥ वृ-यत्रोपाश्रयेऽल्पतराः पूर्वोक्ता दोषा भवन्ति, यत्र च 'यतनां' यथोक्तां कर्तुं 'तरन्ति' शक्नुवन्ति, “जे" इति पादपूरणे, तत्रानुलोमं वा प्रतिलोमं वा किमप्येकसाहिकादिकं स्थानं प्रतीत्य यथोक्तनीत्यायतमाना वसन्ति, नात्र कोऽपिप्रतिनियमः किन्तुगीतार्थेनाल्पबहुत्ववेदिना भविव्यमिति भावः॥कथं पुनरल्पतरा दोषा भवन्ति? इति उच्यते[भा.२२७७] आय-समणीण नाउं, किढि कप्पट्ठी समाणयं वजे ।
बहुपाडिवेसियजनं, च खमयरं एरिसे होइ॥ वृ-आत्मनः श्रमणीनांच स्वभावं दृढधर्मत्वादिकं ज्ञात्वा तथा यतितव्यम् । “किढि कप्पट्टि" त्ति स्थविरश्रमण्यः क्षुल्लकाश्चोभयपार्श्वतः कर्तव्याः, वयसा समानां च संयती सन्दर्शनादौ दूरतोवर्जयेत् । यच्च गृहं बहुप्रतिवेशिकजनमीदशे प्रतिश्रयेऽवस्थानं 'क्षमतरम्' अतिशयेन युक्तं भवति, विजनेतु विश्वस्ततया बहशे दोषा भवेयुरिति ॥गतो द्वितीयभङ्गः ।
अथ तृतीयभङ्गमाह[भा.२२७८] पउमसर वियरगोवा, वाघातो तम्मि अभिनिवगडाए।
तम्मि विसो चेव गमो, नवरं पुन देउले मेलो॥ वृ-तृतीयभङ्गोनामअनेकवगडाकमेकनिष्क्रमणप्रवेशंच ग्रामादि, तत्रच 'अभिनिवगडाके'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org