________________
४३०
बृहत्कल्प-छेदसूत्रम् - २-३/८९
बन्धनीयः । ‘इतरथा' प्रतिदिनं तेनैव पट्टेन बन्धे दीयमाने 'अरुकं' व्रणः 'कुध्यति ' पूतिभावमुपगच्छति, 'तेऽपि च ' पट्टाः प्रतिदिनं बध्यमानतया नित्यं सदैवाद्राः सन्तः कुध्यन्ति, अतो द्व्यादयः पट्टाः कर्तव्याः ॥
मू. (९०) कप्पइ निग्गंथीणं उग्गहणंतगं वा उग्गहपट्टगं वा धारित्तए वा परिहरित्तए वा ॥ वृ- अस्य व्याख्या प्राग्वत् ॥ अत्र भाष्यविस्तरः
[भा. ४१०५ ] निग्गंथीण अगिण्हणे, चउरो गुरुगा य आयरियमादी । तच्चन्निय ओगाहण, निवारणऽन्नेसि ओहसणं ।।
वृ-निर्ग्रन्थीनामवग्रहानन्तकस्य पट्टकस्य वा अग्रहणे चतुर्गुरुकाः । इदं सूत्रमाचार्य प्रवर्त्तिन्या न कथयति चत्वारो गुरवः । प्रवर्त्तिनी सयतीनां न कथयति चत्वारो गुरवः । आर्यिका न प्रतिशृण्वन्ति मासलघु । भिक्षादौ गच्छन्ती यदयवग्रहानन्तकं पट्टकं वा न गृह्णाति तत एते दोषाः तच्चन्निकस्यरुधिरस्य भिक्षां गच्छन्त्याः 'अवगाहनं' प्रसरणम् अन्येषु दिवसेष्ववग्रहानन्तक-पट्टाभ्यां निवारितमासीत् परं तद्दिवसमगृहीत्योस्तयो रुधिरमवगाढम्, ततो लोकस्तद् दृष्ट्वा उपहसनं कुर्यात् ॥ कथम् ? इति चेद् उच्यते
[भा. ४१०६]भिक्खाइ गयाए निग्गयं, रुहिरं दट्टुमसंजता वदे ।
fast! बत! खणऽयं जनो, दोसमिणं असमिक्ख दिक्खिओ ।।
वृ- भिक्षायां गतायास्तस्या रुधिरं निर्गतं दृष्ट्वा असंयता वदेयुः - 'बत !' इत्यामन्त्रणे, भो भो लोकाः ! धिगहो ! कष्टम्, केनायं स्त्रीलक्षणो जनोऽमुं दोषमसमीक्ष्य दीक्षितः । अपि च[भा. ४१०७] छक्कायाण विराधन, पडिगमनादीणि जाणि ठाणाणि ।
तब्भाव पिच्छिऊणं, बितियं असती अहव जुन्ना ।।
वृ- शोणिते परिगलति षट्कायानां विराधना भवति । सा च 'यद् द्रष्टव्यं तद् दृष्टम्' इति कृत्वा प्रतिगमना ऽन्यतीर्तिकगमनादीनि यानि स्थानानि कुर्यात् तन्निष्पन्नं प्रवर्त्तिन्याः प्रायश्चित्तम् । स. चासौ शोणितपरिगलनलक्षणो भावश्च तद्भावस्तं 'प्रेक्ष्य' विलोक्य तरुणा उपसर्गयेयुरिति वाक्यशेषः । द्वितीयपदमंत्राभिधीयते - “असइ ”त्ति नास्त्यवग्रहानन्तकम्, अथवा जीर्णा स्थविरा सा संयती अतो विद्यमानमपि न गृह्णीयादपि । अथेदमेव भावयति
[भा. ४१०८] दिट्ठ अदिट्ठव्व महं जनेनं, लज्जाए कुज्जा गमनाइगाई । लज्जाए भंगो व हवेज तीसे, लज्जाविनासे व स किं न कुज्जा ।।
बृ- 'यद् ममाद्रष्टव्यं तद् दृष्टं तावद् जनेन, अतो नाहमत्र स्थातुं शक्नोमि' इति कृत्वा लज्जया 'गमनादीनि' गृहवासाश्रयणादीनि कुर्यात्, यद्वा 'तस्याः संयत्या लज्जाया भङ्गो भवेत्, लज्जाविनाशे चसा किं नामाकृत्यं न कुर्यात् ? ॥ तथा
[भा. ४१०९] तं पासिउं भावमुदिन्नकम्मा, पेल्लेज सज्जेज्ज व सा वि तत्थ । तं लोहियं वा वि सरक्खमादी, विज्जा समालब्भऽ भिजोययंति ॥
- 'तं' रुधिरपरिगलनरूपं भावं दृष्ट्वा केचित् तरुणा उदीर्णकर्माणश्चतुर्थप्रतिसेवनार्थं प्रेरयेयुः । 'साऽपि च ' संयती तत्र 'सजेत्' सङ्गं कुर्यात् । यद्वा यद् लोहितं 'सरजस्कादयः' कापालिकप्रभृतयः 'समालभ्य' गृहीत्वा विद्याप्रयोगेण 'अभियोजयन्ति' वशीकुंर्वन्ति ॥ यत एवमतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org