________________
४३१
उद्देशकः ३, मूलं-९०, [भा. ४११०] [भा.४११०] अंतो घरस्सेव जतं करेती, जहा नडी रंगमुवेउकामा।
लज्जापहीणा अह सा जणोघं, संपप्पते ते पकरेति हावे॥ वृ-यथा 'नटी' रङ्गनर्तकी ‘रङ्गं नाट्यस्थानमुपैतुकामा गृहस्यैव अन्तः' मध्ये 'जयं' लज्जाया अभिभवं करोति, 'अथ' अनन्तरं सा लज्जापहीणा सती 'जनौधं जनसमुदायं सम्प्राप्य 'तान् तान्भावान् अङ्गविक्षेपादीन्प्रकरोति; एवंसंयत्यपिभिक्षां गन्तुमनाः प्रतिश्रयमध्य एवावग्रहानन्तकादिभिरुपकरमैरात्मानंसुप्रावृतंकरोति, ततो भिक्षांपर्यटन्तीतरुणादिष्वलोकमानेष्वपिसुखेनैव लज्जां पराजयते ॥ अथ द्वितीयपदमाह[भा.४१११] असईय नंतगस्स उ, पणवन्नुत्तिन्निगा व न उ गिण्हे।
निग्गमनं पुन दुविहं, विधि अविही तत्थिमा अविही॥ वृ-अवग्रहानन्तकस्याभावे पञ्चपञ्चाशद्वर्षेभ्य उत्तीर्णा वा संयती प्रम्लानयोनिकतया न .. गृह्णीयादपि । इह च भिक्षाया निर्गमनं द्विविधम्-विधिना अविधिना च । तत्र तावदयमविधिः। [भा.४११२] उग्गहमादीहि विना, दुनियत्था वा वि उक्खुलणियत्था।
एक्कादवे य अविही,चउगरु आणाय अणवत्था। वृ-अवग्रहानन्तकादिभिर्विना भिक्षां निर्गच्छति, दुर्निवसिता वा उखुलनिवसिता वा भिक्षां पर्यटति, एका वा द्वे वा भिक्षायां गच्छतः, एष सर्वोऽप्यविधिरुच्यते । अत्र च चतुर्गुरुकाः, आज्ञाच भगवतां विराधिता स्यात्, 'अनवस्था च' एकामविधिना निर्गचछन्तीं दृष्ट्वा अन्याऽपि निर्गच्छतीत्येवंलक्षणा भवति ।। तथा[भा.४११३] मिच्छत्त पवडियाए, वाएण व उद्ध्यम्मि पाउरणे।
गोयरगया व गहिया, धरिसणदोसे इमें लहति॥ वृ-अवग्रहानन्तकादिभिर्विना भिक्षांगतासहसा मूर्छादिना प्रपतेत्। ततःप्रपतिताया वातेन वा प्रावरणे समुद्भूतेऽप्रावृतत्वं दृष्ट्वा लोको मिथ्यात्वं गच्छेत्, यथा-नास्त्यमीषाममुष्य दोषस्य प्रतिषेधः, कथमन्यथेयमित्थं निर्गच्छेत् ? । गोचरगता वा काचिदविधिनिर्गता केनचिद् विटेन गृहीता घर्षणदोषान् ‘अमून्' वक्ष्यमाणान् लभते । ते चोपरि दर्शयिष्यन्ते।
अथ विधिनिर्गमे गुणमाह[भा.४११४]अड्डोरुगा-दीहणियासणादी, सारक्खिया होति पदे विजाव ।
तिण्हं पि बोलेण जनोऽभिजातो, एकंबरा खिप्पमुवेति नासं॥ कृ-याऽ|रुक-दीर्घनिवसन्यादिभिसुप्रावृता निर्गता साकेनचिद्घर्षितुमारब्धाऽपि पदावपि यावत् संरक्षिता भवति, तिसृणां च संयतीनां बोलेन 'अभिजातः' शिष्टो जनो भूयान् मिलतीति शेषः । या पुनरेकाम्बरा निर्गच्छति सा 'क्षिप्रं' शीघ्रं विनाशं' संयमपरिभ्रंशमुपैति ॥ [भा.४११५] उव्वेल्लिए गुज्झमपस्सतो से, हाहक्कितस्सेव महाजनेनं ।
धिद्धि त्ति ओथुक्ति-तालियस्सा, पत्तो समं रन्नदवो व वेदो। वृ-विधिनिर्गतायाः केनचित् प्रत्यनीकेन 'उद्वेल्लिते' उत्सारितेऽपि बाह्योपकरणे यावदसौ गुह्यं न पश्यति तावद् महाजनेन हाहाकृतो धिगधिगिति भणनपूर्वकं च ओथुक्कितः-गाढं जुगुप्सितस्ताडितश्चासौ, ततस्तस्यैवंविधां विडम्बनां प्रापितस्य 'वेदः' मोहोदयोऽरण्यदव इव .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org