________________
३०८
बृहत्कल्प-छेदसूत्रम् -२-२/६१
ततस्ते उड्डाहं कुर्युः । स्तेना वा ताः संयतीरपहरेयुः 'उपधिं वा' वस्त्रादिकं वा हरेयुः ॥ तदेवं व्याख्याता “काइय पडिलेह" इत्यादिका निर्युक्तिगाथा । अथागमनगृह एव दोषान्तराण्याह[भा. ३४९६ ] ओभावणा कुलघरे, ठाणं वेसित्थि खंडरक्खाणं । उद्धंसणा पवयणे, चरित्तभासुंडणा सज्जो ॥
वृ-धूतैः परिवारितासु तासु कुलगृहस्यापभ्राजना स्यात्, अन्यच्च तद् आगमनगृहं वेश्यास्त्रीणां 'खण्डरक्षाणां च ' हिण्डिकानां स्थानं वर्त्तते, तत्र स्थितानाम् 'उद्धर्षणा' प्रवचनविषया हीला चारित्रस्य च भ्रंशना 'सद्यः' शीघ्रं भवति । तथा तरुणादीन् दृष्ट्वा कस्याश्चिद् दश कामवेगा भवेयुः । ते च सप्रायश्चित्ता अमी
[भा. ३४९७] चिंताइ दट्टुमिच्छइ, दीहं नीससति तह जरे डाहे । भत्तारोयग मुच्छा, उम्मत्तो न याणती मरणं ॥
[भा. ३४९८] मासो लहुओ गुरुओ, चउरो लहुगा य होंति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥
वृ- द्वे अपि प्राग् व्याख्याते । उक्ता आगमनगृहे दोषाः, अथ विवृतगृह-वंशीमूलयोर्दोषानाह[भा. ३४९९] एए चेव य दोसा, सविसेसतरा हवंति विगडगिहे ।
वसीमूलट्ठाणे, पडिबद्धे जे भणिय दोसा ।।
वृ- ‘एत एव’ आगामनगृहोक्ता दोषाः सविशेषतरा विवृतगृहे तिष्ठन्तीनां भवन्ति । वसीमूलस्थाने तु ते दोषा द्रष्टव्याः ये द्रव्यतो भावतश्च प्रतिबद्धे प्रतिश्रयेऽप्काययन्त्रयोजनादय आत्मपरोभयसमुत्थाश्च दोषाः प्रथमोद्देशके भणिताः ॥ अथैनामेव गाथां व्याख्यानयति[भा. ३५०० ] अवाउडं जं तु चउद्दिसिं पि, तीसुं दुसुं वा वि तहेक्कतो वा । अहे भवे तं वियडं गिहं तु, उड्डुं अमालं च अछन्नगं वा ॥
वृ-विवृतगृहं द्विधा-अधोविवृतम् ऊर्ध्वविवृतं च । यत् पार्श्वतश्चतसृषु तिसृषु वा दिक्षु द्वयोर्वा दिशोरेकस्यां वा दिशि 'अपावृतं' कुड्यरहितं परमुपरि च्छन्नं तदधोविवृतगृहं भवेत् । यत् पुनः 'अमालं' मालरहितम् अच्छन्नं वा छाद्यरहितं परं पार्श्वतः कुड्ययुक्तं तदूर्ध्वविवृतं भवति ॥ [भा. ३५०१] अजंतिया तेन सुणा उवेंति, गोणादि निस्संकमभिद्दवंति । तेनादिया तत्थ चिलीय दोसा, कडादिकम्मं तु सजीवघातं ॥
वृ- 'तत्र' ब्रिवृतगृहे 'अयन्त्रिताः ' कुड्याद्यभावादनिरुद्धप्रचाराः स्तेन शुनका उपायान्ति, ततश्चोपकरणहरणादयो दोषाः । गवादयश्च शृङ्गाद्यभिधातेन निशङ्क्रमभिद्रवन्ति । अथ तत्र पार्श्वतश्चिलिमिलिका दीयते ततः “चिलीए "त्ति "सूचनात् सूत्रम्" इति कृत्वा चिलिमिलिकायाः स्तेनादयो दोषाः, ते तामपहृत्य गच्छेयुरिति भावः । “कडाइ "त्ति अथ कटं किलिञ्चं वा कारयित्वा तत्र स्थापयन्ति तत आधाकर्मदोषनिष्पन्नं प्रायश्चित्तं 'सजीवघातम्' इति कटादौ निष्पाद्यमाने येषां जीवानामुपघातो भवति तन्निष्पन्नं पृथक् प्रायश्चित्तम् ॥ अथ वंशीमूलं व्याचष्टे[भा.३५०२]जाओ (जो आ] वने वी य बहिं घरस्स, अलिंदओ वा अवसारिगा वा । गेहस्स पासे पुर पिट्ठओवा, तं वंसिमूलंकुसला वदंति ॥
•
वृ-यो गृहाद् बहिर्द्वाराग्रवर्त्तिस्थडिकारूप अलिन्दकः, या वा 'अपसारिका' पटालिका, कुत्र?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org