________________
उद्देशक : २, मूलं - ६१, [भा. ३५०४]
३०९
इत्याह-गेहस्य पार्श्वे वा पुरतोवा पृष्ठतो वा तद् वंशीमूलं नाम गृहं 'कुशलाः' तीर्थकरादयो वदन्ति । अत्र तिष्ठन्तीनां प्रतिबद्धसूत्रोक्ता दोषाः ॥ अथ वृक्षमूला-ऽभ्रावकाशयोर्दोषानाह
[ भा. ३५०५] अट्ठि व दारुगादी, सउणगपरिहार पुप्फ-फलमादी । एवं तु रुक्खमूले, अब्भावासम्मि सिन्हाई ॥
वृ- अस्थि वा दारुकं वा आदिशब्दाद् लेष्टुकादिकं वा वातेन चालितं सत् प्रपतेत्, शकुनाःपक्षिणस्तेषां सम्बन्धी परिहारः- पुरीषमुपरि निपतेत्, पुष्पाणि वा फलानि वा आदिशब्दाद् पत्राणि वा पतेयुः, एषु यथायोगमात्म-संयमविराधना मन्तव्या । एवं वृक्षमूले वृक्षस्याधोवर्त्तिनि वा गृहे तिष्ठन्तीनां दोषाः । अभ्रावकाशे तु सिन्हा - अवश्यायो भवेत्, आदिशब्दात् सचितं रजः प्रपतेदित्यादिपरिग्रहः । अवश्यायेनार्द्रीभूतानां विसूचिकादिभिरात्मविराधना मन्तव्या । यत एते दोषा अतो न आगमनगृहादिषु स्थातव्यम् । भवेत् कारणं येन तत्रापि स्थीयते । किम् ? इत्याह[भा. ३५०४ ] अद्धाणनिग्गयादी, तिक्खुत्तो मग्गिऊण असतीये । वाडगआगमणगिहे, इयरम्मि य निग्गहसमत्थे ||
वृ- अध्वनिर्गतादयस्त्रिकृत्वो निर्दोषां वसतिं मार्गयित्वा यदि न प्राप्नुवन्ति ततो वाटकस्य मध्यवर्त्ति यद् आगमनगृहं देवकुलादिकं तत्र वसन्ति । कथम् ? इत्याह- इतरः- शय्यातरः स यदि निग्रहसमर्थ-जितेन्द्रियः प्रत्यनीकनिवारणक्षमश्च भवति ततस्तत्र वस्तव्यम्, नान्यथा ॥
अथेदमेव स्फुटतरमाह
[भा. ३५०५] जं देउलादी उ निवेसणस्सा, मज्झम्मि गुत्तं सुपुरोहडं च । अट्ठगम्मं न यदुट्ठमज्झे, अदूरगेहं तुहियं वसंति ।।
वृ- 'निवेशनस्य' वाटकस्य मध्ये यद् देवकुलादि 'गुप्तं' वृत्या फलिहकेन वा आवृतम्, 'सुपुरोहडं' रमणीयसंयतीप्रायोग्यविचारभूमिकम्, अदुष्टानां शिष्टजनानां गम्यम्-आश्रयः, न च दुष्टजनमध्ये तद् वर्त्तते, 'अदूरगेहं' प्रत्यासन्नप्रातिवेश्मिकगृहं तत्र प्रथमतो वसन्ति ॥
[भा. ३५०६] जुवाणगा जे सविगारगा य, पुत्तादओ तुज्झ इहं वसंति । मा. वि अम्हं इह संवयंतु, इच्छंत सत्ते य वसंति तत्थ ॥
वृ-तत्र यः सागारिकस्तं ब्रुवते ये युवानः सविकाराः पुत्रादयस्त्वत्सम्बन्धिनः 'इह' अस्मिन् गृहे वसन्ति मा तेऽप्यस्माकं प्रतिश्रये सम्प्रति 'संव्रजन्तु' समायान्तु । एवमुक्ते यद्यसौ 'इच्छति' प्रतिशृणोति, यदि च स्वयं 'शक्तः' तन्निवारणक्षमः ततस्तत्र वसन्ति ॥
[भा. ३५०७] भोइयकुले व गुत्ते, दुज्जणवज्जे वसंत उ पउत्थे । महतरगादिसुगुत्ते, वंसीमूलम्मि ठायंति ॥
वृ- अथेद्दशमागमनगृहं न प्राप्यते ततो भोजिकस्य- ग्रामस्वामिनः कले-गृहे 'गुप्ते' वृत्या फलिहकेन वा सुसंवृते 'दुर्जनवर्जे' दुःशीलजनप्रवेशरहिते यदलिन्दकादि तत्र वसन्ति । स च भोजिको यदि प्रोषितस्तदा महत्तरकादिभि प्रधानपुरुषैस्तद् गृहं यदि सुगुप्तं सुरक्षितं भवति तत एवंविधे वंशीमूलगृहे तिष्ठन्ति ॥
[भा. ३५०८] तस्सऽसइ उड्डवियडे, वसंति कडगादि छोदुणं उवरिं । तस्सऽसति पासवियडे, कडगादी पंतवत्थेहिं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org