________________
उद्देशक ः २, मूलं-६१, [भा. ३४९१]
३०७ कीरंतऽकीरंत सुते य दोसा, न निति भिक्खस्स निरुद्धमग्गा॥ वृ-यदि संयत्यः सागारिके पश्यति स्वकीयमुपकरणं प्रत्युपेक्षन्ते तत उड्डाहो भवति, प्रपञ्चं वास सागारिकः कुर्वीत, तथैव स्वकीयंवस्त्रं प्रत्युपेक्षेत इत्यर्थः । स्तेना वातंसारोपधिं प्रत्युपेक्ष्यमाणं दृष्ट्वा हरेयुः । अथैतद्दोषभयाद् न प्रत्युपेक्षन्ते ततस्त्रिविधोपधेः 'शोधि' प्रायश्चित्तम् । तद्यथाजघन्ये पञ्चकम्, मध्यमे मासलघु, उत्कृष्ट चतुर्लघु । 'श्रुते' स्वाध्याये क्रियमाणे सागारिका आलापकान्आगमय्य तथैव उद्धट्टयेयुः । अथ स्वाध्यायो न क्रियते ततः सूत्रार्थनाशादयो दोषाः। तथा सागारिकैर्निष्क्रमण-प्रवेशस्थानोपविष्टैर्निरुद्धमार्गा सत्यो न भैक्षाय 'निर्गच्छन्ति' निर्गन्तुं शक्नुवन्तीति भावः ॥ [भा.३४९२]दुक्खं च मुंजंति सति द्वितैसु, तक्किंति देंते य अति दोसा।
भुंजंति गुत्ता अधिकारिया उ, कुलुग्गया किं पुन जा अतोया ।। वृ-सागारिकेषु तत्र 'सदा' नित्यमेव स्थितेषु संयत्यो दुःखं भुञ्जते।अथ तेषां मध्यात् कश्चिद् द्रमकप्रायः 'तर्कयति' आहारयाच्यां करोति ततो यदि दीयते तदा असंयतपोषणादधिकरणम्; अथ न दीयते ततोऽसौ प्रद्वेषं गच्छेत्, प्रद्विष्टश्च प्रान्तापनम् उड्डाहम् अभ्याख्यानप्रदानं वा कुर्यात्; एवमुभयथाऽपि दोषाः । किञ्च कुलोद्गताः स्त्रियः ‘गुप्ताः' एकान्तेस्थिता अधिकारिण्यश्च भुञ्जते, किं पुनर्या ‘अतोयाः' शीतोदकविरहिताः संयत्यः कालिकेनाचमनकारिण्य इत्यर्थः ? ताभिः सुतरामेकान्ते भूत्वा भोक्तव्यमिति ॥ [भा.३४९३]वीयारभोमे बहि दोसजालं, निसट्ट-बीभच्छकया य अंतो।
कीरंत किच्चे य गिलाण दोसा, कालादिवत्ती य तहोसहस्स ॥ कृयदि सागारिकमिति मत्वा विचारभूमौ बहिर्गच्छन्ति ततः 'दोषजालं मासकल्पप्रकृताभिहितं दूषणनिकुरुम्ब ढौकते । अथैतद्दोषभयादन्तः संज्ञां व्युत्सृजेयुः ततः सागारिकालोके व्युत्सृजन्त्यो निसृष्टाः-निर्लज्जा बीभत्साश्च गण्यन्ते, तत्कृताश्चोड्डाहादयो दोषाः । ग्लानायाश्च संयत्याः ‘कृत्ये' अकल्प्यपथ्यौषधप्रदानादौ क्रियमाणे सागारिका वदेयुः-एतदमूषामकल्पनीयं परमेतदपि प्रतिसेवन्ते, नूनं सर्वमप्यलीकममूषामित्यादयो दोषाः । अथ सागारिकमिति मत्वा न क्रियते तत औषधस्य कालातिपत्ति स्यात्, कालातिक्रमेण चौषधे दीयमाने ग्लाना परितापमश्नुयात्।। [भा.३४९४)हरंति भाणाइ सुणादिया य, सयंति भीया व वसंति निन्छ ।
- निच्चाउले तत्थ निरुद्धचारे, नेगग्गया होति कओ सि झाओ॥ वृ-तत्रागमनगृहे शुनकादयः प्रविश्य भाजनादिकं हरन्ति । ततः 'नित्यम्' अहोरात्रमपि तत्र श्वानादिभयभीताः शेरते वा वसन्ति वा । 'नित्याकुले च' सदैव सागारिकैराकीर्णेऽत एव 'निरुद्धचारे' गमा-ऽऽगमरहितेतत्रैकाग्रता न भवति, कुतः स्वाध्यायः “सिं" अमूषां भविष्यति? [भा.३४९५] तरुणा-वेसिस्थि-विवाह-रायमादीसु होति सतिकरणं।
__इच्छमनिच्छे तरुणा, तेना ताओ व उवहिं वा । वृ-तत्रागमनगृहे बहवस्तरुणा वेश्यायिो वा कामुकवृन्दपरिवृताः, विवाहो वा महता विच्छर्दैन विधीयमानः, राजादयो वा निर्गच्छन्तः प्रविशन्तो विलोक्यन्ते ततः स्मृतिकरण-कोतुके भुक्ताऽभुक्तानां जायेते। तथा यदि तरुणान् अवभाषमाणान् इच्छति ततो व्रतविराधना, अथ नेच्छति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org