________________
३०६
बृहत्कल्प-छेदसूत्रम् -२-२/६१ प्रवर्त्तिन्याश्छेदः । यद्वा "सिं" आसां चतसृणामपि तपः-कालविशेषितं चतुर्गुरुकं भवति । तत्र भिक्षुण्यास्तपसा । कालेन च लघुकम्, अभिषेकायाः कालेन गुरुकम्, गणावच्छेदिन्यास्तपसा गुरुकम्, प्रवर्तिन्यास्तपसा कालेन च गुरुकम् ।। अथागमनगृहं व्याचष्टे[भा.३४८६]आगंतुगारत्थिंजणो जहिं तु, संठाति जं चाऽऽगमनम्मि तेसिं ।
तं आगमोगं तु विऊ वदंति, सभा पवा देउलमादियं वा॥ वृ-आगन्तुकः-पथिकादिरगारस्थजनो यत्रागत्य सन्तिष्ठते, यच्च ‘तेषां' पथिकादीनामागमने वर्तते, तद् ‘आगमौकः' आगमनगृहं 'विद्वांसः' श्रुतधरा वदन्ति। तच्च सभावाप्रपावा देवकुलादिकं । वा मन्तव्यम् । तत्र तिष्ठन्तीनां दोषानाह[भा.३४८७] आगमनगिहे अज्जा, जनेन परिवारिया अनजेण
दटुं कुलप्पसूता, संजमकामा विरजंति॥ वृ- आगमनगृहे स्थिता आर्या अनार्येन जनेन परिवारिता दृष्ट्वा कुलप्रसूताः स्त्रियः . 'संयमकामाः' प्रव्रज्यां ग्रहीतुमनसो विरज्यन्ते ॥ कथम् ? इत्याह[भा.३४८८] उवस्सए एरिसए ठियाणं, न सीलभारा सगला भवंति।
को दानि हंसेण किणेज काकं, एवं नियत्तंति कुलप्पसूया ॥ वृ-ईशे उपाश्रये स्थितानामार्यिकाणां शीलं-ब्रह्मचर्यं तप्रधाना भाराः-संयमयोगधुरालक्षणाः 'सकलाः' सम्पूर्णा न भवन्ति, किन्तु खण्डित-विराधिताः; अस्माकं च सुसंवृतगृहमध्यमध्यावसन्तीनां प्रत्यपायाभावाद् निष्कलङ्गं शीलमनुपालयन्तीनां हंसकल्पो गृहवासः, एवंविधे तु तरुणादिप्रत्यपायबहुले प्रतिश्रये तिष्ठन्तीनां या प्रव्रज्या सा बहुदोषमलीमसतया काककल्पा, अतः क इदानीं हंसेन काकं क्रीणीयात् ? । एवं विचिन्त्य कुलप्रसूताः स्त्रियः प्रव्रज्याग्रहणाद् निवर्तन्ते ॥अथात्रैव विशेषदोषानभिधित्सुराह[भा.३४८९] काइय पडिलेह सज्झाए, मुंजणे वीयारमेव गेलन्ने ।
साणादी उवगरणे, तरुणाई जे भणिय दोसा॥ वृ-कायिक्यां प्रत्युपेक्षणायां स्वाध्याये भोजने विचारे ग्लानत्वे च दोषा भवन्ति । श्वानादिना चोपकरणमपहियते । तरुणादयश्च दोषा ये प्रथमोद्देशके भणितास्तेऽत्र मन्तव्या इति नियुक्तिगाथासमासार्थः ॥अथ व्यासार्थं प्रतिद्वारं बिभणिषुराह[भा.३४९०] मोयस्स वायस्स य सन्निरोहे, गेलन्न नीसट्ठमसन्निरोहे ।
पलोट्टणा घाण ससद्द मत्ते, आतोभया तत्थ भवंति कीवे॥ वृ-यद्यागमनगृहे स्थिताः सागारिकमिति कृत्वा मोकस्य वातस्य वा सन्निरोधं कुर्वन्ति ततो 'ग्लान्यं' ग्लानत्वं भवति । अथ तयोः सन्निरोधं न कुर्वते ततो 'निसृष्टाः' निर्लज्जा भवेयुः । अथ मात्रके कायिकी व्युत्सृजन्ति ततो मात्रकस्य प्रलोटनायां दुभिगन्धध्राणि समुच्छलति । मात्रके च सशब्दं प्रश्रवणमागच्छति, तं च श्रुत्वा सागारिका उड्डाहं कुर्वन्ति । आत्म-परोभयसमुत्थाश्च तत्र दोषा भवन्ति । तत्रात्समुत्थदोषा नाम-सा संयती स्वयं क्षुभ्येत । परसमुत्थस्तु “कीवे" त्ति शब्दक्लीवः संयत्याः कायिकीशब्दं श्रुत्वा क्षुभ्येत । उभयसमुत्थस्तु द्वावपि क्षुभ्येताम् । [मा.३४९१] पेहिंति उड्डाह पवंच तेना, अपेहणे सोहि तिहोवहिस्सा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org