SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ४१८ बृहत्कल्प-छेदसूत्रम् -२-३/८८ मज्ज-वस-तेल्ल-सप्पी-महुमादीभावियं भयितं ।। वृ-शीतजलभावितं यत् पात्रं तद् ‘अविगते' अपरिणते शीतोदके न गृह्णन्ति । मद्य-वसातैल-सर्पिर्मध्वादिभिस्तु भावितं भक्तं विकल्पितम्।तथाहि-यदि तेषांमद्यादीनामवयवा निशेषा अप्यपनेतुंशक्यन्ते ततो गृह्यते, इतरथा न गृह्यते; अथवा विकटादिभावितं यत्र जुगुप्सितं तत्रन गृह्यते, अज्गुप्सितं तु गृह्यते॥पात्रग्रहण एव विधिमाह[भा.४०३९] ओभासणा य पुच्छा, दिट्टे रिक्के मुहं वहंते य। संसट्टे निक्खित्ते, सुक्खे य पगास दणं ॥ [भा.४०४०] ओमंथ पाणमाई, पुच्छा मूलगुण उत्तरगुणे य। तिट्ठाणे तिक्खुत्तो, सुद्धो ससिणिद्धमादीसु॥ [भा.४०४१] दाहिणकरेण कोणं, घेत्तुत्ताणेण वाममणिबंधे। घट्टेइ तिन्नि वारे, तिन्नि तले तिन्नि भूमीय ॥ [भा.४०४२] तस बीयम्मि वि दिढे, न गेण्हती गेण्हती तु अद्दिढे । गहणम्मि उ परिसुद्धे, कप्पति दिखेहि वि बहूहिं॥ वृ:एताश्चतस्रोऽपि गाथाः पीठिकायां सविस्तरं व्याख्याताः इति नेह भूयो व्याख्यायन्ते॥ गतं चाउलद्वारम् । अथ घन्ययतनाद्वारमाह[मा.४०४३] पच्छित्त पण जहन्नं, तेन उ तब्बुहिए य जयणाए। जहन्ना व सासवादी, तेहि उ जयणेयर कलादी॥ वृ- जघन्यं प्रायश्चित्तं पञ्चकम् तेन यतना जघन्ययतना । कथम् ? इत्याह-'तāध्या' पञ्चकादिवृद्धिरूपया यतनया पात्रकासत्तायां यतन्ते। अथवा सर्षपादीनि बीजानि 'जघन्यानि सूक्ष्माणीत्यर्थः, तैर्युक्तंपात्रकंवक्ष्यमाणया षड्भागकरवृद्धियतनयागृह्णन्ति, 'इतरानितु' बादराणि बीजानि कलाः-घणकास्तदादीनि, आदिशब्दाद् मसूरादीनि च ॥अमुमेवार्थं विवरीषुराह[भा.४०४] छब्भागकए हत्थे, सुहमेसू पढमपव्व पनगं तू। दस बितिए राइदिना, अंगुलिमूलेसु पन्नरस ॥ [मा.४०४५] वीसंतुआउलेहा, अंगुटुंतो य होइ पणुवीसा। . पसयम्मि होइ मासो, चाउम्मासा भवे चउसु॥ - इह हस्तः षड् भागाः क्रियते-तत्र प्रथमपर्वाण्येको भागः, द्वितीयपर्वणि द्वितीयः, अङ्गुलिमूलानितृतीयः, आयुषो रेखाचतुर्थः, अङ्गुष्ठबुध्नंपञ्चमः, अङ्गुष्ठमतिक्रम्य सेषःसर्वोऽपि षष्ठो भागः । एवं षड्भागीकृते हस्ते प्रथमपर्वमात्रेषु सूक्ष्मबीजेषु 'पञ्चकं पञ्चरात्रिन्दिवानि प्रायश्चित्तम्, द्वितीयपर्वमात्रेषु दशरात्रिन्दिवानि, अङ्गुलिमूलेषु पञ्चदशरात्रिन्दिवानि ॥ आयूरेषामात्रेषुविंशतिरात्रिन्दिवानि, अङ्गुष्ठबुध्नमात्रेषुपञ्चविंसतिरात्रिन्दिवानि, प्रसूतिप्रमाणेषु मासलघु, चतुःप्रसृतिप्रमाणेषु चत्वारो मासा लघवः । एवं सूक्ष्मबीजेषु प्रायश्चित्तमुक्तम्, अथ बादरबीजेषु तदेवातिदिशन्नाह[भा.४०४६] एसेव कमो नियमा, थूलेसु विबीयपव्वमारद्धो। अंजलि चउक्क लहुगा, ते चिय गुरुगा अनंतेसु ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy