________________
उद्देशक : ३, मूलं-८८, [भा. ४०४६]
४१९ कृ-एष एव क्रमो नियमात् ‘स्थूलेष्वपि' चणकादिबीजेषु मन्तव्यः । नवरं द्वितीयपर्वाण्यादौ कृत्वाऽत्रप्रायश्चित्तक्रमः प्रारभ्यते, तद्यथा-द्वितीयपर्वमात्रेषुबादरबीजेषुपञ्चकम्, अङ्गुलिमूलमात्रेषु दशकम्, आयूरेषामात्रेषु पञ्चदशकम्, अङ्गुष्ठमूलमात्रेषु विंशति, प्रसृतिप्रमाणेषु भिन्नमासः, अञ्जिलिमात्रेषु मासलघु, अञ्जलीचतुष्कपरिमाणेषु चतुर्लघु, एतत् प्रत्येकबीजविषयंभणितम् । अनन्तबीजेषु सूक्ष्म-स्थूरेषु यथाक्रममेतान्येव प्रायश्चित्तानि गुरुकाणि कर्तव्यानि ॥ [भा.४०४७] निकारणम्मि एए, पच्छित्ता वन्निया उ बीएसु।
नायव्वा अनुपुब्बी, एसेव उ कारणे जयणा ॥ वृ-एतानि प्रायश्चित्तानि निष्कारणे ‘बीजेषु' बीजयुक्तेपात्रके गृह्यमाणे वर्णितानि। 'कारणे तु' पात्रकस्यासत्तालक्षणे 'आनुपूर्व्या प्रथमपर्वादिरूपया ‘एषैव' पञ्चकादिका यतना कर्तव्या।। अथ यथाकृतेप्रथमपर्वप्रमाणानि बीजान्यल्पपरिकर्मकंचशुद्धं प्राप्यतेऽनयोः कतरद्ग्रहीतव्यम्? उच्यते-यथाकृतं ग्राहंय नाल्पपरिकर्म । एवं द्वितीयपर्वादिष्वपि वक्तव्यम्, यावद् बीजैराकण्ठमृतमपि यथाकृतं ग्राह्यम् । तथा चाह[भा.४०४८] वोसहूं पिहु कप्पइ, बीयाईणं अधाकडं पायं।
नय अप्प-सपरिकम्मा, तहेव अप्पं सपरिकम्मा ॥ वृ- आगन्तुकानां बीजादीनां 'वोसट्टमपि' आकण्टमृतमपि यथाकृतं पात्रं कल्पते न चाल्पपरिकर्म-सपरिकर्मणी शुद्धे अपि । तथैव एवमेवाल्पपरिकर्मकमागन्तुकबीजानां भृतमपि कल्पते, न च सपरिकर्मकं शुद्धमपि ॥अत्रैवैदम्पर्यमाह[भा.४०४९] थूला वा सुहुमा वा, अवहंते वा असंथरंतम्मि।
आगंतुअसंकामिय, अप्पबहु असंथरंतम्मि ।। वृ-यथाकृते ‘स्थूलानि वा' चणकादीनि बीजानि भवन्तु ‘सूक्ष्माणि वा' सर्षपादीनि, यदि तस्य प्राक्तनं भाजनं नवरङ्गत्वादवहमानकम्, तेन वा भाजनेन न संस्तरति, सर्वथा वा माजनं तस्यन नास्ति, एवमसंस्तरतोऽल्पबुत्वं तोलयित्वा बहुगुणकरमितिकृत्वायथाकृतमागन्तुकबीजानां भृतमपि बीजानि यतनयाऽन्यत्र सक्रमय्य ग्रहीतुंकल्पते॥
गतंजघन्ययतनाद्वारम् । अथ “चोयग असई असिव" ति द्वारद्वयमाह- . [भा.४०५०] थूल सुहुमेसु वुत्तं, पच्छित्तं तेसु चेव भरिओ वि। .
जंकप्पइत्ति भणिअं, न जुञ्जई पुव्वमवरेणं॥ वृ- स्थूल-सूक्ष्मेषु जेषु पूर्वं सप्रपञ्चं प्रायश्चितमुक्तम्, सम्प्रति 'तैरेव' बीजैभृतौऽपि यथाकृतप्रतिग्रहो ग्रहीतुं कल्पते, 'इति’ एवं यद् भणितं तदेतद् युष्माकं पूर्वमपरेण न युज्यते॥ गुरुराह[भा.४०५१] चोयग! दुविहा असई, संताऽसंता य संत असिवादी।
इयरा उ झामियाई, संते भणिया उ सा सोही। वृहे नोदक! द्विविधा असत्-सदसत्ता असदसत्ताच। तत्र सदसत्ता नाम यत्र ग्रामे नगरे वा भाजनानि सन्ति तत्र अपान्तराले वा विद्यन्ते, अथवा अस्ति भाजनं परं नवरङ्गत्वाद् न तावद् वहति, यद्वात भाजनमतिलघुतरमतो नतेन संस्तीर्यते। 'इतरा' असदसत्तासापुनरियम्-पात्रं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org