________________
३४९
उद्देशक : ३, मूलं-८१, [भा. ३६८९]
जो एत्थं आवन्नोऽणावत्रो वा वि जो एत्थं ॥ वृ-'एतेषां स्थानादीनां पदानां प्रत्येकं प्ररूपणा विभागश्च दोषाणां विभाषालक्षणः कर्तव्यः। कथम्? इत्याह-यः 'अत्र' दोषजाले प्रायश्चित्तजाते वाऽऽपन्नो यो वाऽनापन्नः तदेतद् वक्तव्यम्।।
यथाप्रतिज्ञातमेव निर्वाहयति[भा.३६९०] निक्कारणमविहीए, निकारणओ तहेव य विहीए ।
कारणओ अविहीए, कारणतो चेव य विहीए॥ [भा.३६९१] आदिभयणाण तिण्हं, अनतरीए उ संजतीसेज्जं ।
जे भिक्खू पविसेज्जा, सो पावति आणमादीणि ॥ वृ-साध्वीप्रतिश्रये प्रविशतां चत्वारो भङ्गाः, तद्यथा-निष्कारणेऽविधिना साध्वीप्रतिश्रये १ निष्कारणं विधिना २ कारणतोऽविधिना ३ कारणतो विधिना प्रविशति ४ ॥ अत्र 'आदिभजनानाम्' आद्यानां त्रयाणां भङ्गानाम् अन्यतरया भजनया-भङ्गकेन संयतीनां शय्यांवसतिं यो भिक्षु प्रविशति स आज्ञादीनि दूषणानि प्राप्नोति ॥ तत्र प्रथमभङ्गव्याख्यानार्थमाह[मा.३६९२] निकारणम्मि गुरुगा, तीसु वि ठाणेसु मासियं गुरुगं।
लहुगा य दारमूले, अतिगयमेत्ते गुरू पुच्छा॥ वृ-निष्कारणे संयतीवसतिं गच्छतश्चतुर्गुरुकाः । अविधिना च प्रविशतस्त्रिष्वपि स्थानेषु मासिकं गुरुकम् । त्रीणि स्थानानि नाम-अग्रद्वार-मध्या-ऽऽसन्नलक्षणानि, एतेषु नैषेधिकीमकुर्वतस्त्रीणि मासगुरुकाणि भवन्ति । यदि द्वारमूले' मूलद्वारसमीपे बहिस्तिष्ठति ततःचतुर्लघवः। अथैकमपि पदमुपाश्रयमध्येऽतिगतः-प्रविष्टस्तदा अतिगतमात्रे चतुर्गुरु । “पुच्छि"त्ति नोदकः पृच्छां करोति ॥ कथम् ? इत्याह[भा.३६९३] पाणाइवायमादी, असेवतो केन होति गुरुगा उ ।
कीस व बाहिं लहुगा, अंतो गुरु चोतग! सुणेहिं । कृ-प्राणातिपातादिकमपराधमसेवमानस्य केन कारणेन चतुर्गुरुका भवन्ति? कस्माद्वा बहि': द्वारमूले चतुर्लघुकाः ? कस्माच्चान्तःप्रविष्टमात्रस्य चतुर्गुरुकम् ? । आचार्य प्राह-हे नोदक ! 'शृणु' निशमयात्र कारण येनैवं प्रायश्चित्तं दीयते ॥ किं तत् ? इत्याह[भा.३६९४] वीसत्था य गिलाणा, खमिय वियारे य भिक्ख सज्झाए।
पालीय होइ भेदो, अप्पाण परे तदुभए य॥ वृ-काचिदार्यिका तत्र 'विश्वस्ता' अपावृतशरीरा भवेत् सा संक्षोभमुपयायात् । ग्लाना वा क्षपिका वा संयतसंक्षोभेण न भुञ्जीत । विचारभूमौ भिक्षायां स्वाध्यायभूमौ वा प्रस्थितानां तासां व्याघातो भवेत्। पाली नाम-संयममहातडागस्यानतिक्रमलक्षणः सेतुः तस्या आत्म-परोभयसमुत्थो भेदो भवति; यद्वा “पालि"त्ति वसतिपालिका भण्यते, तया सार्द्धमालापादि कुर्वत आत्मसमुत्थः परसमुत्थ उभयसमुत्थो वा भेदो भवतीति द्वारगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[भा.३६९५] काई सुहवीसत्था, दरजिमिय अवाउडा य पयलाति। .
अतिगतमेत्ते य तहिं, संकिय पपलाइया थद्धा ।। वृ- काचिदार्यिका वसतेरन्तःस्थिता 'सुखविश्वस्ता' आत्मसुखेनापावृतशरीरा तिष्ठति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org