SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३४८ बृहत्कल्प-छेदसूत्रम् -२-३/८१ वृ-आचार्यो यदि निष्कारणं निर्ग्रन्थीप्रतिश्रयं गच्छति ततश्चत्वारो गुरवः । अभिषेको व्रजति चत्वारो लघवः । गीतार्थभिक्षुव्रजति गुरुको मासः ।अगीतार्थभिक्षुव्रजति लघुको मासः ।यद्वा[भा.३६८४] गमने दूरे संकिय, निस्संकऽभिलाव कक्ख सतिकरणं । ओभासण पडिसुणणे, संपत्ताऽऽरोवणा भणिता ॥ वृ-निष्कारणं संयतीनामुपाश्रये गच्छति १ तत्र गतो दूरे स्थितः संयतीः पश्यति एतास्ता इति २ कतरा कतरा पुनरियम् ? इत्येवं शङ्कां करोति ३ अमुका अमुकावा इयमिति निशङ्कितं जानाति ४ संयतीभि समम् 'अभिलापं' संलापं करोति ५ कक्षान्तरादीनि विलोकयति ६ ‘स्मृतिकरणम्' 'ईशी ममाप्यासीत्' इति लक्षणं करोति ७ तामवभाषते ८ अवभाषिता सती सा प्रतिशृणोति ९ सम्पत्तिं तया सह करोति १०, एतेषु दशसु स्थानेषु आरोपणा वक्ष्यमाणा भणिता ।। अथात्र स्मृतिकरणपदं व्याचष्टे[भा.३६८५] भावम्मि उ संबंधो, सतिकरणं एरिसा व सा आसि। अहवा नं इणमटुं, पणएमि सती भवति एसा ।। वृ-'भावे' भावतः-प्रतिसेवनाभिप्रायेण तया सह यः सम्बन्धः क्रियते, याशी त्वं ईशी 'सा' मद्भार्या आसीत्, एतत् स्मृतिकरणमुच्यते । अथवा ‘एतां' संयतीमहम् 'अमुमर्थं' प्रतिसेवनालक्षणं 'प्रणयामि' प्रार्थयामीत्येषां स्मृतिरुच्यते ॥ अथानन्तरोक्तेषु दशसु स्थानेषु प्रायश्चित्तमाह[भा.३६८६] चउरो य अनुग्घाया, लहुगो लहुगा य होति गुरुगा य । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ वृ-संयतीप्रतिश्रयगमने चत्वारोऽनुद्धाता मासाः । दूरदर्शने मासलघु । शङ्कायां चतुर्लघवः। निशङ्किते चतुर्गुरवः । आलापेषण्मासा लघवः । कक्षान्तराद्यवलोकनेषण्मासा गुरवः । स्मृतिकरणे छेदः । अवभाषणे मूलम् । प्रतिश्रवणेऽनवस्थाप्यम् । सम्पत्त्यां पाराञ्चिकम् ॥ एवं तावदोघतः प्रायश्चित्तमुक्तम् । अथ विभागतस्तदेव दर्शयितुमाह[भा.३६८७] - निक्कारणगमणम्मिं, बहवे दोसा य पञ्चवाता य । जिन-थेरपडिकुट्ठा, तेसिं चाऽऽरोवणा इणमो॥ वृ-निष्कारणगमने बहवो दोषाश्च प्रत्यपायाश्च भवन्ति । तत्र दोषा आत्म-परोभयसमुत्थाः पारलौकिकाः, प्रत्यपायाश्च भोगिनी-घाटिकादय ऐहलौकिकाः । ते चोभयेऽपिजिनैः-तीर्थकृभिः स्वविरैश्च-गणधरादिभिः परतिक्रुष्टाः, यथाऽमी भवन्ति तथा न विधेयमित्युपदिष्टमिति भावः । तेषां च दोषाणाम् ‘इयं' वक्ष्यमाणा ‘आरोपणा' प्रायश्चितम् ॥ तचैतेषु सूत्रोक्तपदेषु भवति[भा.३६८८] चिठ्ठित्त मिसीइत्ता, तुयट्ट निद्दा य पयल सज्झाए। . झाणा-ऽऽहार-विहारे, पच्छित्ते मग्गणा होइ । वृ-स्थातुं निषत्तुं त्वग्वर्तनं निद्रां प्रचलां स्वाध्यायं ध्यानमाहारं वा कर्तु विहारं-चक्रमणम् उपलक्षणत्वाद् उच्चार-प्रश्रवणे कायोत्सर्ग वा कर्तुं न कल्पते । अथ करोति ततः प्रायश्चित्तस्य मार्गणा भवति ।। इदमेव प्रकटयति [भा.३६८९] एतेसिं तु पयाणं, पत्तेय विभागो य । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy