________________
उद्देशक : ३, मूलं-८१, [भा. ३६७९]
३४७
(उद्देशकः-३) व्याख्यातो द्वितीय उद्देशकः, अथ तृतीयः प्रारभ्यते, अस्य चेदमादिसूत्रम्
मू. (८१) नो कप्पइ निग्गंधाणं निग्गंथीणं उवस्सयंसि चिट्टित्तए वा निसीइत्तए वा तुयट्टित्तए वा निदाइत्तए वा पयलाइत्तए वा, असनं वा ४ आहारं आहारित्तए, उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा परिट्ठवित्तए, सज्झायं वा करित्तए, झाणं वा झाइत्तए, काउस्सग्गंवा ठाणं ठाइत्तए।
वृ-अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३६७९] वत्थाणि एवमादीणि गणहरो गेण्हिउं सयं चेव ।
वच्चति वतिणीवसहि, पवत्तिनीए पणामेउं ।। वृ- ‘एवमादीनि' द्वितीयोद्देशकचरमसूत्रद्वयोक्तानि निर्ग्रन्थीप्रायोग्याणि वस्त्राणि गृहीत्वा 'गणधरः' निर्ग्रन्थीवर्तापकः प्रवर्त्तिन्यास्तानि वस्त्राणि स्वयमेव “पणामे" तिअर्पयितुं व्रतिनीनां वसतिं व्रजति, अतस्तद्विषयो विधिरनेन सूत्रेण प्रतिपाद्यते ॥ प्रकारान्तरेण सम्बन्धमाह[भा.३६८०] बीएहि उ संसत्तो, बितियस्सातिम्मि इह उ इत्थीहिं।
बितिए उवस्सगा वा, पगता इहई पि सो चेव ॥ वृ-द्वितीयोद्देशकस्यादिसूत्रे बीजैः संसक्त उपाश्रयो भणितः, 'इह तु' तृतीयोद्देशकस्यादिसूत्रे स्त्रीभिः संसक्त उच्यते । यद्वा द्वितीये उद्देशके बहुषु सूत्रेषूपाश्रयाः प्रकृता येषु साधूनां वस्तुंन कल्पते, अत इहाप्यादिसूत्रे स एवोपाश्रयः प्रोच्यते ॥ [भा.३६८१] तत्थ अकारण गमनं, पडुच्च सुत्तं इमं समुदियं तु।
कज्जेण वा गते तू, तुवट्टमादीणि वारेति ॥ वृ. 'तत्र' निर्ग्रन्थीनामुपाश्रयेऽकारण-वक्ष्यमाणकारणकलापं विना यद् गमनं तत् प्रतीत्य इदं सूत्रं 'समुदितं' समायातम्, तदनेन प्रतिषिध्यते इति भावः । अथ कार्येण तत्र गताः ततः 'गते तु' गमने पुनः सञ्जाते त्वग्वर्तनादीनि कर्तुवारयति॥अनेन सम्बन्धेनायातस्यास्य व्याख्यानो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनामुपाश्रये स्थातुं वा निषत्तुं वा त्वग्वर्तयितुं वा निद्रायितुं वा प्रचलायितुं वा, अशनं वा पानं वा खादिमं वा स्वादिमं वा चतुर्विधमप्याहारमाहर्तुम्, उच्चारंवा प्रश्रवणं वा खेलं वा सिंघाणं वा परिष्ठापयितुम्, स्वाध्यायं वा कर्तुम्, ध्यानं वाध्यातुम्, कायोत्सर्ग वा स्थानं स्थातुमिति सूत्रसझेपार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा.३६८२] . आपुच्छमनापुच्छा, व अकज्जे चउगुरुं तु वच्चंते ।
आपुच्छिय पडिसिद्धे, सुद्धा लग्गा उवेहंता ॥ वृ-स्थविराणामापृच्छयाऽनापृच्छया वा यदि अकार्ये निर्ग्रन्थीनामुपाश्रयं व्रजति ततश्चतुर्गुरुकम्। स्थविरा आपृष्टाः सन्तो यदि प्रतिषेधं कुर्वन्ति-'माव्रज, न वर्तते निष्कारणं निर्ग्रन्थीनामुपाश्रयं गन्तुम्' एवं प्रतिषिद्धे स्थविराः 'शुद्धाः' न प्रायश्चित्तभाजः । अत स्थविरा उपेक्षन्ते ततस्तेऽपि लग्नाः, चतुर्गुरुकमापन्ना इत्यर्थः ।। अथवा[भा.३६८३] चउरो गुरुगा लहुगा, मासो गुरुगो य होति लहुगो य। .
आयरिए अभिसेगे, भिक्खुम्मि य गीतऽगीतत्थे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org