SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३४६ बृहत्कल्प-छेदसूत्रम् -२-२/८० संजमजोगा एत्थं, रओहरा तेसि कारणं जेणं । रयहरणं उवयारा, तेनं भन्नइ रओ कम्मं ॥ तच्च पञ्चविधम्-और्णिकमौष्ट्रिकं शनकं वच्चकचिप्पकं मुञ्जचिप्पकं चेति । तत्राद्यानि त्रीणि सुप्रसिद्धानि अन्त्यद्वयं व्याख्यानयति [ भा. ३६७५ ] वच्चक मुंजं कत्तंति चिप्पिउं तेहि वूयए गोणी । पाउरणऽत्थुरणाणि य, करेति देसिं समासज्ज ॥ वृ- क्वचिद्धर्मचक्रभूमिकादौ देशए 'वच्चकं' दर्भाकारं तृणविशेषं 'भुञ्जं च' शरस्तम्बं प्रथमं 'चिप्पित्वा' कुट्टयित्वा तदीयो यः क्षोदस्तं कर्त्तयन्ति । ततः 'तैः' वच्चकसूत्रैर्मुअसूत्रैश्च 'गोणी' बोरको व्यूयते, प्रावरणा - SSस्तरणानि च 'देशीं' देशविशेषं समासाद्य कुर्वन्ति । अतस्तन्निष्पन्नं रजोहरणं वच्चकचिप्पकं मुअचिप्पकं वा भण्यते ।। [भा. ३६७६ ] रयहरणपंचगस्सा, परिवाडीयाए होति गहणं तु । उप्परिवाडी गहणे, आवज्जति मासियं लहुअं ।। वृ- 'रजोहरणपञ्चकस्य' अनन्तरोक्तस्य परिपाटिकया ग्रहणं भवति । उत्परिपाट्या तु ग्रहणे आपद्यते मासिकं लघुकम् ॥ का पुनः परिपाटि ? इत्याह [भा. ३६७७] तिविहोन्नय असतीए, उट्टियमादीण गहण धरणं तु । उप्परवाडी गहणे, तत्थ वि सट्ठाणपच्छेत्तं ॥ वृ- यथाकृतादिभेदात् त्रिविधं यदौर्णिकं तत् प्रथमतो ग्रहीतव्यम् । यथाकृतादिलाभचर्च प्राग्वद् द्रष्टव्यः । अथौर्णिकं न प्राप्यते तत औष्ट्रिकादीनामपि चतुर्णां यथाक्रमं ग्रहणं धारणं वा कर्त्तव्यम् । अथ 'उपरिपाट्या' यथोक्तक्रमव्यत्यासेन ग्रहणं करोति ततस्तत्रापि स्वस्थानप्रायश्चित्तम्, मध्यमोपधिनिष्पन्नं लघुमासिकमिति भावः । आह-किमर्थं प्रथममौर्णिकं गृह्यते ? उच्यते [भा. ३६७८] उट्ट-सणा कुच्छंती, उल्ला इयरेसु मद्दवं नत्थि ।. तेनोन्नियं पसत्थं, असतीय उ उक्कमं कुजा ॥ वृ- "उट्ट - सण "त्ति औष्ट्रिकशनजे रजोहरणे वर्षाकाले वर्षाकाले व्याघारितवृष्टिकायेनार्द्रीभूते सती कुध्यतः । ततश्च पनकसम्मूर्च्छनादयो दोषाः प्रमार्जनाकार्यं च न भवति । अथार्द्रेणापि प्रमार्जयन्ति ततो दशिकान्तेषु गोलकाः प्रतिबध्यन्ते, मलिनीभूते च तत्राप्कायविराधना । तथा 'इतरयोः' वच्चक-मुञ्जचिप्पकाख्ययो रजोहरणयोर्मार्दवं नास्ति, स्वभावत एव कठिनत्वात् । तेन कारणेनौर्णिकरजोहरणमौष्ट्रिकादिभ्यः प्रशस्तम् । और्णिकस्य 'असति' अभावे उत्क्रमं कुर्यात्, औष्ट्रिकादीन्यपि यथालाभं गृह्णीयादिति भावः ।। द्वैतीयीकोद्देशकोऽयं मयाऽपि स्पष्टीचक्रे सद्गुरूपां प्रसादात् । सूते नाम्भोबिन्दुनिस्यन्दमिन्दुग्रावा चन्द्रज्योत्स्नया चुम्बितः किम् ? ॥ उद्देशकः-२ समाप्तः मुनिदीपरत्नसागरेण संशोधिता सम्पादिता बृहतकल्पसूत्रे द्वितीयोदेशकस्य भद्रबाहु स्वामि रचित नियुक्तियुक्तं संघदासगणि विरचितं भाष्यं एवं मलयगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy