________________
३४५
उद्देशक ः २, मूलं-७९, [भा. ३६७१] [भा.३६७१]अलंभऽहाडस्स उ अप्पकम्मं, अलंभे तस्सावि उजं सकम्मं ।
एतं अकाउं चउरो उ मासा, भवंति वत्थे परिवाडिहीणे ॥ वृ-इह छेदन-सीवन-सन्धानादेरेकमपि परिकर्म यत्र न भवति, यद् वा बहुधा सीवितव्यं तवस्त्रंबहुपरिकर्मोच्यते। तत्रप्रथमं यथाकृतं मार्गयितव्यम्, तस्यालाभेऽल्पपरिकर्म, तस्याप्यभावे यत् ‘सकर्म' बहुपरिकर्मकम् । अथैवंविधं योगमकृत्वा प्रथममेवाल्पपरिकर्मबहुपरिकर्म वा गृह्णाति ततश्चत्वारो मासा लघवः । तुशब्दो विशेषणे, तल्लब्धश्चायमर्थ-उत्कृष्टस्य वस्त्रस्य यथाकृतादिविपर्यासग्रहणे चतुर्लघवः, मध्यमस्य विपर्यासे मासिकम्, जघन्यस्य व्यत्यासे पञ्चकम् । एवं 'परिपाटीहीन' यथोक्तग्रहणक्रमरहिते वस्त्रे गृह्यमाणे प्रायश्चित्तम् ।। अथ द्वितीयपदमाह[भा.३६७२]अद्धाणमाईसु उ कारणेसुं, कुज्जा अलंभम्मि उ उक्कम पि।
गेलन्नमादीसु विवज्जयं वा, असतीय कुजा खलु खुम्मियस्स ।। वृ-अध्वा-विप्रकृष्टो मार्गस्तं प्रपन्नानां ततो वा निर्गतानां दुर्लभं वस्त्रं भवेत्, एवमादिषु कारणेषु वस्त्रस्यालाभे उत्क्रममपि कुर्यात्, यथाकृतादिक्रमव्यत्यासेनापि गृह्णीयादिति भावः । तथा ग्लानत्वाऽनात्मवशतादिषु कारणेषु 'विपर्ययमपि' परिभोगविपर्यासमपि कुर्यात्, अन्तःपरिभोग्यं बहि बहि परोभोग्यं चान्तः प्रावृणुयादिति भावः । क्षौमिकस्य वा कल्पस्याभावे खल्वेकमप्यौर्णिकं प्रावृणुयात् ॥
म. (८०) कप्पइ निग्गंथाण वा निग्गंथीण वा इमाइं पंच रयहरणाइंधारित्तए वा परिहरित्तए वा, तंजहा- उत्रिए उट्टिए साणए वच्चाचिप्पए मुंजचिप्पए नाम पंचमे ।।
वृ-अथास्य सम्बन्धमाह[भा.३६७३] उदितो खलु उक्कोसो, उवही मज्झिममिदाणि वोच्छामि ।
संखा व एस सरिसी, पाउंछण सुत्तसंबंधो॥ वृ- 'उदितः' भणितः खल्वनन्तरसूत्रे ‘उत्कृष्टः' और्णिक-सौत्रिककल्परूप उपधि । इदानीं तु 'मध्यममुपधिं' रजोहरणमहमस्मिन् सूत्रे वक्ष्ये । यद्वा अनयोः सूत्रयोर्या पञ्चलक्षणा सङ्ख्या एषा ‘सहशी' वस्त्राणां रजोहरणानां च तुल्या, अत इदं ‘पादप्रोञ्छनं' रजोहरणं तद्विषयं सूत्रमारभ्यते । एष सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्चरजोहरणानि धारयितुंवा परिहर्तुवा । तद्यथा' इति उपप्रदर्शनार्थ । 'और्णिकम्' ऊरणिकानामूर्णाभिनिवृत्तम्, 'औष्ट्रिक’ उष्ट्ररोमभिर्निर्वृत्तम्, ‘सानकं' सनवृक्षवल्काद् जातम्, वच्चकः-तृणविशेषस्तस्य चिप्पकः कुट्टितः त्वग्रूपः तेन निष्पन्नं वच्चकचिप्पकम्, मुञ्जः-शरस्तम्बस्तस्य चिप्पकाद् जातं मुञ्जचिप्पकं नाम पञ्चममिति सूत्रार्थः ।। अथ भाष्यविस्तरः[भा.३६७४] अभितरं च बझं, हरति रयं तेन होइ रयहरणं ।
तं उन्नि उट्टि सणयं, वच्चंयचिप्पं च मुंजं च ॥ कृ-यस्मादाभ्यन्तरं बाह्यंच रजो हरति तेन रजोहरणं भवति। तत्र बाह्य रजो हरतीति सुप्रतीतम्, आभ्यन्तरं कथं पुनरपहरति? इति उच्यते-रजोहरणेन प्रमार्जिते भूभागे ये आदाननिक्षेपादयः संयमव्यापारा विधीयन्ते ते तदष्टकर्मरूपमाभ्यन्तरं रजोऽपहरन्ति, अतः कारणे कार्याध्यारोपं विधाय तदप्याभ्यन्तररजोहरणमुच्यते । उक्तं च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org