________________
३४४
बृहत्कल्प-छेदसूत्रम् -२-२/७९
तदाऽपि मासलघु । इदमेव भावयति[भा.३६६६] अमितरं व बाहिं, बाहिं अभितरं करेमाणे ।
परिभोगविवच्चासे, आवजइ मासियं लहुअं॥ कृ-अभ्यन्तरपरिभोग्यं-सौत्रिकंकल्पं बहि कुर्वन्' प्रावृण्वन् बहिपरिभोग्यं वा-और्णिकमभ्यन्तरं कुर्वन् परिभोगव्यत्यासं करोति, तत्र चापद्यतेलघुकम् । यतएवमतः सौत्रिकंकल्पमन्तः प्रावृणुयात्, और्णिकं तु बहि । एष विधिपरिभोग उच्यते । अत्र विधीयमाने गुणानुपदर्शयति[पा.३६६७] छप्पइय-पनगरक्खा, भूसा उज्झायणा य परिहरिया।
सीतत्ताणं च कतं, खोम्मिय अमितरे तेने ॥ वृ-और्णिके ह्यन्तः परिभुज्यमानेषट्पदिकाः संसज्येरन्, ताः सौत्रिकमन्तः प्रावृण्वता रक्षिता भवन्ति । और्णिकं चान्तः परिभुज्यमानं मलीमसं भवति, तत्र च पनकः संसज्यते, अतो विधिपरिभोगे पनकस्यापि रक्षा कृता भवति । सौत्रिकेण च बहि प्रावृतेन विभूषा भवेत् । तथावस्त्रमहर्निशमपि परिभुज्यमानं मलक्षम-न मलीमसं भवति, कम्बली तु परिभुज्यमाना मलीमसाजायते, मलीमसतया च दुर्गन्धा, अतो विधिपरिभोगे “उज्झायणा" दुर्गन्धता साऽपि परिहता । सौत्रिककल्पगर्भया च कम्बलिकया प्राब्रियमाणया शीतत्राणं कृतं स्यात् । एतेन कारणकलापेन क्षौमिकं' न प्राप्यते ततः किं कर्तव्यम् ? इत्याह[भा.३६६८] कप्पासियस्स असती, वागय पट्टे य कोसियारे य।
असती य उन्नयस्सा, वागत कोसेज्ज पट्टे य॥ वृ- कासिकस्वाभावे वल्कजम्, तस्याभावे पट्टवस्त्रम्, तदप्राप्तौ कौशिकारवस्त्रमपि ग्रहीतव्यम् । अथौर्णिकंन प्राप्यते तत और्णिकस्य स्थाने प्रथमवल्कजंततः कौशेयंततः पट्टजमपि ग्राह्यम् । यद्वा पट्टशब्देनात्र तिरीटपट्टकमुच्यते । चशब्दादतसी-वंशीयमयमपि ग्रहीतव्यम् ।।
अथ प्रावरणे गणनाविधिमाह[भा.३६६९]न उन्नियं पाउरते तु एकं, दोन्नी जता खोम्मिय उन्नियं च ।
दो सुत्ति अंतो बहि उन्नितीसु, दुगादि उन्नी वि बहिं परेणं ॥ वृ- और्णिकं कल्पमेकं न प्रावृणुते, अर्थादापन्नं सौत्रिकमेकमपि प्रावृणुयात् । यदा तु द्वौ कल्पौ प्रावृणोति तदा ‘क्षौमिकं सौत्रिकमन्तः द्वितीयं पुनरौर्णिकं बहि प्रावृणुयात्। त्रिषु कल्पेषु प्रावरीतुमिष्टेषु द्वौ सौत्रिकावन्तः एकं त्वौर्णिकं बहि प्रावृणुयात् । अर्थौर्णिकान् द्व्यादीनपि प्रावरीतुमिच्छति ततो द्वित्रिप्रभृतयोऽप्यौर्णिका बहि सौत्रिकात् परतः प्रावरणीयाः ॥
अथ वस्त्रग्रहणे विधिमाह[भा.३६७०] पंचण्हं वत्थाणं, परिवाडीगाए होइ गहणं तु ।
उपरिवाडी गहणे, पच्छित्ते मग्गणा होइ । वृ- ‘पञ्चानां' जङ्गिकादीनां वस्त्राणां परिपाट्या ग्रहणं कर्त्तव्यम् । परिपाटिमि-पूर्वं काासिकौर्णिकं च, तदभावे वल्कज-पट्टजादिकमित्यादिरनन्तरोक्तः क्रमः । तामुल्लङ्घय उत्परिपाट्या ग्रहणे प्रायश्चित्तस्य मार्गणा भवति । तद्यथा-जघन्यमुपधिमुत्परिपाट्या गृह्णाति पञ्चरात्रिन्दिवानि, मध्यमे मासलघु, उत्कृष्ट चतुर्लघवः ॥ एतदेव भावयति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org