________________
उद्देशक ः २, मूलं-७९, [भा. ३६६०]
३४३ भुक्तोद्वरितानि यतीनां दद्यात्, 'तत्र' तेषु दीयमानेष्वमूनि पञ्च वस्त्राणि कल्पन्ते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा' परिग्रहे धर्तुं परिहर्तुं वा परिभोक्तुम् । तद्यथा-जङ्गमाः-त्रसाः तदवयवनिष्पन्नंजामिकम्, सूत्रे प्राकृततवाद् मकारलोपः, भङ्गा-अतसी तन्मयं भाङ्गिकम्, सनसूत्रमयं सानकम्, 'पोतकं' कासिकम्, तिरीटः-वृक्षविशेषस्तस्य यः पट्टो वल्कलक्षणस्तन्निष्पनं तिरीटपट्टकं नाम पञ्चमम्। एष सूत्रस पार्थः ॥ अथ विस्तरार्थं भाष्यकृद् बिभणिषुराह[भा.३६६१] जंगमजायं जंगिय, तं पुन विगलिंदियं च पंचिंदी।
एकेकं पि य एत्तो, होति विभागेनऽनेगविहं । वृ-जङ्गमेभ्यो जातंजङ्गिकम्, तत् पुनर्विकलेन्द्रियनिष्पन्न पञ्चेन्द्रियनिष्पन्नं वा । अनयोर्मध्ये एकैकमपि विभागेन चिन्त्यमानमनेकविधं भवति ॥ तद्यथा[भा.३६६२] पट्ट सुवन्ने मलए, अंसुग चीणंसुके च विगलेंदी।
उन्नोट्टिय मियलोमे, कुतवे किट्टे च पंचेंदी॥ वृ-“पट्ट"त्ति पट्टसूत्रजम्, “सुवने"त्ति सुवर्णवर्णं सूत्र केषाञ्चित् कृमीणां भवति तन्निष्पन्न सुवर्णसूत्रजम्, मलयो नाम-देशस्तत्सम्भवं मलयजम्, अंशुकः-लक्ष्णपट्टः तनिष्पन्नमंशुकम्, चीनांशुको नाम-कोशिकाराख्यः कृमि तस्माद् जातं चीनांशुकम्, यद्वा चीना नाम जनपदः तत्र यः श्लक्ष्णतरः पट्टस्तस्माद् जातंचीनांशुकम्, एतानि विकलेन्द्रियनिष्पन्नानि।तथा और्णिकमौष्ट्रिकं मृगरोमजं चेति प्रतीतानि, पञ्चेन्द्रियनिष्पन्नानि द्रष्टव्यानि ॥
अथ भाङ्गिकादीनि चत्वार्यप्येकगाथया व्याचष्टे[भा.३६६३] अतसी-वंसीमादी, उ भंगियं साणियं च सणवक्के ।
पोत्तय कप्पासमयं, तिरीडरुक्खा तिरिडपट्टो । कृ-अतसीमयं वा “वंसि"त्ति वंशकरीलस्य मध्याद्यनिष्पद्यतेतद्वा, एवमादिकंभाङ्गिकम्। यत् पुनः सनवृक्षवल्काद् जातं तद् वस्त्रं सानकम् । पोतकं कसमयम् । तिरीटवृक्षवल्काद् जातं तिरीटपट्टकम् ॥ [भा.३६६४] पंच परुवेऊणं, पत्तेयं गेण्हमाण संतम्मि।।
कप्पासिगा य दोन्नि उ, उन्निय एक्को य परिभोगो ।। वृ एवं पञ्च वस्त्राणि प्रस्त्रप्य सम्प्रति ग्रहणविधिरभिधीयते-'प्रत्येकम्' एकैकस्य साधोः प्रायोग्याणि वस्त्राणि गृह्णता ‘सति' विद्यमाने लाभे द्वौ कल्पौ कासिकौ एकचौर्णिक इत्येवं त्रयः कल्पा ग्रहीतव्याः। परिभोगश्चामीषां वक्ष्यमाणविधिना विधातव्यः । एषा पुरातना गाथा॥
अथैनामेव विवृणोति[भा.३६६५] एकोन्नि सोत्ति दोन्नी, तिन्नि वि गेण्हिज्ज उत्रिए लहुओ।
पाउरमाणे चेवं, अंतो मज्झे व जति उन्नी॥ वृ-एक और्णिकः कल्पो द्वौ वा सौत्रिको प्रत्येकं ग्रहीतव्यौ । अथ त्रीनपि कल्पान् सौत्रिकान् और्णिकान् वा गृह्णाति ततो मासलघु । प्रावृण्वन्नपि यद्येकमौर्णिकं प्रावृणोति ततः ‘एवमेव' मासलघु । 'अन्तर्वा' शरीरानन्तरितं 'मध्ये वा' द्वयोः सौत्रिकयोर्मध्यभागे यद्यौर्णिकं प्रावृणोति
Jāin Education International
For Private & Personal Use Only
www.jainelibrary.org