________________
बृहत्कल्प - छेदसूत्रम् -२-३/८१
दरजिमिता वा अर्धभुक्ता दरनिवसिता काचिदास्ते, अपावृतनिषन्ना वा काचित् प्रचलायते । ततः 'तस्मिन् ' संयतेऽकस्माद् 'अतिगतमात्रे' प्रविष्टमात्र व 'द्दष्टाऽहमनेनापावृता' इति 'शङ्किता' शङ्काकुला सती प्रपलायते, सहसैव नश्यतीत्यर्थः । प्रपलायिता च सती संक्षोभतः स्तब्धगात्रा सा भवेत् ।। अथेदमेव व्याचष्टे
[भा. ३६९६ ]
३५०
वीरल्लसउणवित्तासियं जहा सउणिवंदयं वुन्नं । वच्चति निरावयक्खं दिसि - विदिसाओ विभज्जंतं ॥
वृ- वीरल्लशकुनः- हुलायक:, तेन समागच्छता वित्रासितं सद् यथा शकुनिकाना-पक्षिणीनां वृन्दं " वुन्नं” विषन्नं सद् 'निरपेक्षं' पुत्रभाण्डाद्यपेक्षारहितं दिशो विदिशश्च 'विभज्यमानं' वियुज्यमानं 'व्रजति' सहसैव पलायते । एष दृष्टान्तः, अयमर्थोपनयः
[भा. ३३९७] तम्मिय अतिगतमित्ते, वित्तत्थाओ जहेव ता सउणी । हंति य संघाडिं, रयहरणे यावि मग्गति ।।
वृ- 'तस्मिन् संयतेऽतिगतमात्र एळ यथैव ताः शकुनिकास्तथैव ता अपि संयत्यो वित्रस्ता भवन्ति । ततश्च काचिदपावृतगात्रा त्वरितं प्रावृणोति, अन्याः काश्चन सङ्घाटिका गृह्णन्ति, यास्तु संयतं सहसा समागतं दृष्ट्वा रजोहरणं मुक्त्वा नष्टाः ताः पश्चात् सुस्थीभूताः सत्यो रजोहरणानि मार्गयन्तीति । यच्च नोदकेनोक्तम् “प्राणातिपातादिकमसेवमानस्य कस्माञ्च्चतुर्गुरुकं दीयते ?" तदेतत् परिहरन्नाह
[भा. ३६९८] छक्कायाण विराधन, पक्खुलणं खाणु कंटए विलिया । थद्धा य पेच्छिउं भावभेओ दोसा उ वीसत्थे ॥
वृताः संयत्यः कुम्भकारशालादौ स्थिता भवेयुः, तत्र च निरपेक्षा नश्यन्त्यो मृत्तिकामर्दनेन पृथिवीकायम्, उदककुम्भप्रलोटनेनाप्कायम्, उल्मुकघट्टनेनाग्निकायम्, “यत्राग्निस्तत्र नियमाद् वायुः” इति कृत्वा वायुकायम्, बीज- हरितमर्दनेन वनस्पतिम्, कुन्थु-कीटिकादिमर्दनेन त्रसकार्य च विराधयेयुः; एषआ षट्कायदिराधना, सा च तत्त्वतस्तेनैव साधुना कृता । प्रस्खलनं नामअधस्तादुपरि वा आस्फालनं यद् वा तासां नश्यन्तीनां भवेत् । स्थाणुना कण्टकेन वा पादयोरपघातः स्यात् । “विलिया" 'व्रीडिता' अकस्मात् तद्दर्शनाद् लज्जिता सती काचिद् वैहायसोद्बन्धनादि कुर्यात् । भयातिरेकतो वा स्तब्धा भवेत् । तां च तथाभूतां दृष्ट्वा भावभेदो भवति, 'सात्त्विकभावप्रभवोऽयमस्य शरीरे स्तम्भः' इत्येवमितराः संयत्यश्चिन्तयेयुरिति भावः । एवमादयो दोषा विश्वस्तार्थिकाविषया मन्तव्याः ॥ गतं विश्वस्ताद्वारम् । अथ ग्लानाद्वारमाह[भा. ३६९९] कालाइक्कमदाने, गाढतरं होज्ज नेव पउणेज्जा ।
संखोभेण निरोधो, मुच्छा मरणं व असमाही ।।
वृ - ग्लाना संयती तस्य संयतस्य सङ्क्षोभेण न भुङ्क्ते, प्रतिचरिका वा तदर्थं भिक्षां न गच्छति । ततः कालातिक्मेण तस्या भक्त - पानप्रदाने गाढतरं ग्लानत्वं भवेत्, न वा सा प्रगुणीभवेत् । अथवा तदीयसङ्क्षोभेण तस्या वातकर्मणः कायिक्या: संज्ञाया वा निरोधो भवेत्, ततस्तद्वाधया मूर्च्छा सञ्जयेत, निरोधेन वा मरणमाप्नुयात्, असमाधिर्वा तस्या भवेत्, तत्रानागाढपरितापनादिनिष्पन्नं प्रायश्चित्तम् ।। अथ क्षपिकाद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org