________________
उद्देशक : २, मूलं - ६३, [भा. ३५४९ ]
३१९
वृ- कस्यापि ग्रामस्य मध्ये स्थलम् । तत्र च ग्रामेण मिलित्वा देवकुलिका कारिता । तत्र साधवः स्थिताः । ते च तत्रोच्चतरे देवकुले स्थिताः 'सत्कालं' भिक्षाया देशकालं दृष्ट्वा दृष्ट्वा 'तत्र' तेषु कुलेषु भिक्षार्थं गच्छन्ति, न चैकमपि कुलं तेषां भिक्षां गृह्णतामुद्धरति । एवं च निर्विन्नाः सर्वेऽपि गृहस्थाः । ततो निर्गतेषु साधुषु 'वसतेः' देवकुलिकायास्तैर्भञ्जनम् 'मा अन्योऽप्येवमागत्य स्थास्यति' इति । इतश्चान्यस्मिन्नीध्शे स्थलग्रामेऽन्ये केचन साधवो देवकुलिकायां स्थिताः । ते च भगवन्तो निस्पृहाः बहिर्ग्रामेषूद्रामकभिक्षाचर्यया गच्छन्ति स्वाध्यायपराश्च तिष्ठन्ति । ततस्ते गृहस्था आवृत्ताः सम्भूय तान् साधून् निमन्त्रयन्ति । साधवो ब्रुवते -बाल-वृद्धादीनां कार्ये ग्रहीष्यामः । एवं घृतादि दुर्लभद्रव्यमपि सुलभं भवति, न च शय्याया व्यवच्छेदो जायते । गतं 'दोषा वा के तस्य ?' इति द्वारम् । अथ 'कारणजाते कस्मिन् कल्पते ?' इति द्वारमाह
[ भा. ३५५० ] दुविहे गेलन्नम्मी, निमंतणे दव्वदुल्लभे असिवे । ओमोदरिय पओसे, भए व गहणं अनुन्नायं ॥
वृ- 'द्विविधे' आगाढे अनागाढे च ग्लानत्वे १ तथा निमन्त्रणे २ दुर्लभद्वये ३ अशिवे ४ अवमौदर्ये ५ ‘प्रद्वेषे वा' राजद्विष्टे ६ 'भये वा' बोधिकस्तेनादिसमुत्थे ७, साम्प्रतमेनामेव विवृणोति[भा. ३५५१] तिपरिरयमनागढे, आगाढे खिप्पमेव गहणं तु । कज्जम्मि छंदिया घेच्छिमो त्ति न य बेंति उ अकप्पं ॥
कृ- 'त्रिपरिरयं' त्रीन् वारान् परिभ्रमणं तदनागाढे ग्लानत्वे कर्त्तव्यम् । यदि तथापि ग्लानप्रायोग्यं न लभ्यते ततः पञ्चकपरिहाण्या मासलघुप्राप्ताः शय्यातरपिण्डं गृह्णन्ति । आगाढे तु ग्लानत्वे क्षिप्रमेव ग्रहणं कार्यम् । तथा शय्यातरेण 'भक्त-पानमस्मदृहे गृह्णीत' एवं 'छन्दिताः' निमन्त्रिताः सन्त भणन्ति कार्ये समुत्पन्ने ग्रहीष्याम इति । न च ब्रुवते युष्मदीयं भक्तपानमस्माकं न कल्पते।। [भा. ३५५२] जं वा असहीणं तं भणति तं देह तेन जे कज्जं ।
निब्बंधे चेव सई, घेत्तूण पसंग वारेंति ॥
वृ- यद् वा द्रव्यं तस्य गृहे 'अस्वाधीनं' नास्तीत्यर्थः तद् 'भणन्ति' याचन्ते इत्यर्थः । यथाअमुकं द्रव्यं प्रयच्छत तेनास्माकं गुरुतरं कार्यम् । अथ शय्यातरो निर्बन्धम् अतीवाग्रहं करोति ततः सकृद्' एकवारं गृहीत्वा भूयः प्रसङ्गं निवारयन्ति ॥
[भा. ३५५३ ] दुल्लभदव्वं व सिया, संभारघयादि घेप्पती तं तु । ओमऽसिवे पनगादिसु, जतिऊणमसंथरे गहणं ॥
वृ-दुर्लभद्रव्यं वा सम्भारघृतादिकं शय्यातरगृहे स्यात्, सम्भारः - बहुद्रव्यसंयोगस्तठप्रधानं घृतं सम्भारघृतम्, आदिशब्दात् शतपाकतैलादि, तच्च ग्लानादिनिमित्तं शय्यातरगृहे गृह्यते । अवमौदर्याऽशिवयोरसंस्तरणे पञ्चकहान्या यतित्वा मासलघुप्राप्ताः शय्यातरकुले ग्रहणं कुर्वन्ति ॥ उवसमण पट्टे, सत्यो वा जा न लब्भते. ताव ।
[भा. ३५५४]
अच्छंता पच्छन्नं, गेण्हंति भए वि एमेव ॥
वृ- प्रद्विष्टस्य राज्ञ उपशमनार्थं तिष्ठन्तः, यद्वा राज्ञा निर्विषया आज्ञप्ताः सन्तो यावत् तत्र सार्थो न लभ्यते तावत् प्रच्छन्नं तिष्ठन्तः शय्यातरकुले भक्त - पानं गृह्णन्ति, मा पर्यटतो राजा वा राजपुरुषा वा द्राक्षन्निति कृत्वा । भयं-बोधिकस्तेनादिप्रभवं तत्र बहिर्ग्रामेषु भिक्षां गन्तुं न शक्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org