________________
उद्देशकः १, मूलं-४३, [भा. २९३७]
१९3
[भा.२९३७] जइ सव्वे गीयत्था, सव्वे पविसंति ते वसहिमेव ।
विहि अविहीए पवेसो, मिस्से अविहीइ गुरुगा उ । वृ- यदि ते साधवः सर्वे गीतार्थास्ततः सर्वेऽपि ते समकमेव वसतिं प्रविशन्ति । अथागीतार्थमिश्रास्ते ततो द्विधा प्रवेशः-विधिना अविधिना च । यद्यविधिना प्रविशन्ति ततश्चतुर्गुरुकाः । अविधिर्नाम-यद्यगतार्थमिश्राः सर्वेऽपि प्रविशन्ति ॥
कः पुनस्तत्र दोषो भवति? इति उच्यते[भा.२९३८] विप्परिणामो अप्पच्चओ यदुक्खं च चोदणा होइ ।
पुरतो जयणाकरणे, अकरणे सव्वे वि खलु चत्ता ।। वृ-यदि मृगाणांपुरतोज्योतिरानयनादिकां वक्ष्यमाणां यतनां कुर्वन्तिततस्तेषां विपरिणामो भवेत्-न वर्तते अग्निकायसमारम्भः कर्तुमित्युपदिश्य सम्पति तमेव स्वयं समारभन्ते इति । अप्रत्ययोऽपितेषामुपजायेत यथैतदलीकं तथा सर्वमप्यमीषामेवंविधमिति; ततश्च प्रतिगमनादयो दोषाः । तथा तेषां मृगाणां पश्चादग्निकायसङ्घट्टादि कुर्वतामपरां वा समाचारी वितथामाचरतां दुःखं नोदना भवति, तदा स्वयमन्येनवाअग्निकायसमारम्भंकृत्वा सम्प्रत्यस्मान्वारयत' इत्यादि सम्मुखवलनतः सम्यक् शिक्षांनप्रतिपद्यन्त इत्यर्थः । अथैतद्दोषभयादेनांज्योतिर्यतनां न कुर्वन्ति ततः 'सर्वेऽपि' आचार्यादयः परित्यक्ताभवन्ति,तेषांसर्प-श्वानादिभिरात्मविराधनासद्भावात्। तस्माद् विधिना प्रवेष्टव्यम् । तमेव विधिमाह[भा.२९३९] बाहिं काऊण मिए, गीया पविसंति पुंछणे घेत्तुं ।
देउल सभ परिभुत्ते, मग्गंति सजोइए चेव ।। वृ-मृगान् बहि 'कृत्वा' स्थापयित्वा ‘प्रोञ्छनानि' दारुदण्डकानि गृहीत्वा गीतार्था प्रथमतो ग्रामंप्रविशन्ति । प्रविश्य च देवकुल-सभादीनि 'परभुक्तानि' परिभुज्यमानानि 'सज्योतीषिच' स्वयोगेनैवज्योतिसहितानिमार्गयन्ति।अथ पूर्वकृतंज्योतिस्तत्रनप्राप्यतेततः स्वयमेवतदानयन्ति आनाययन्ति वा । एवमुच्चारादिभूमिकाः प्रत्युपेक्ष्य मृगानानयन्ति॥ [भा.२९४०] परिभुज्जमाण असई, सुत्रागारे वसंति सारविए।
अहुनुव्वासिय सकवाड निब्बिले निच्चले चेव ।। वृ- परिभुज्यमाना वसतिर्यदि न लभ्यते तदा 'शून्यागारं शून्यगृहं गवेषयन्ति । तच्च 'अधुनोद्वासितं' साम्प्रतमेवोद्वसीभूतं सकपाटं कपाटयुक्तं 'निर्बिलं' सादिबिलरहितं 'निश्चलं' टेढं नपतितुकामम् एवंविधं वेषणीयम् । अत्र चतुर्भिपदैः षोडश भङ्गाभवन्ति । एषांचमध्ये यः प्रथमो भङ्गस्तदुपेतेशून्यगृहे 'सारविते' प्रमार्जिते वसन्ति॥अत्रसर्वेषुगीतार्थेषुतावविधिमाह[भा.२९४१] जइ नाणयंति जोइं, गिहिणो तो गंतु अप्पणा आणे। ...
कालोभयसंथाराण भूमिओ पेहए तेणं॥ वृ-यदि गृहिणः प्रेरिता अपिज्योति नयन्ति तत आत्मनाऽपि गत्वा गीतार्था आनयन्ति। ततस्तेन ज्योतिषा कालोभयसंस्ताराणां भूमीः प्रत्युपेक्षेत, कालभूमी संज्ञाभूमी कायिकीभूमी संस्तारकभूमीं चेत्यर्थः ।। [19] 13
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org