________________
१७
उद्देशक : १, मूलं-९, [भा. २११७]
मंडणए वक्खित्ता, भत्तं पिन चेयई अपया॥ वृ-या तु 'अप्रजा अप्रसवा सा 'परव्यापारविमुक्ता' अपत्यादिचिन्तावर्जिता 'नित्यं' सदा शरीरसंस्कारे-मुखधावनादौ तत्परा-परायणा ‘मण्डनके विलेपना-ऽऽभरणादौ व्याक्षिप्ता सती 'भक्तमपि' भोजनमपि 'न चेतयति' न संस्मरति॥अर्थोपनयमाह_ [भा.२११८] वेयावच्चे चोयण-वारण-वावारणासय बहस।
एमादीवक्खेवा, सयं झाणं न गच्छम्मिः॥ वृ-यथा सप्रसायाः स्त्रियोबहुव्यापारव्यग्रता भवति तथा गच्छेऽपियद्आचार्योपाध्यायादिवैयावृत्त्यम्, या च चक्रवालसामाचारी हापयतो नोदना, या चाकृत्यप्रतिसेवनां कुर्वतो वारणा, याश्च बहवो वस्त्र-पात्राद्युत्पादनविषया व्यापारणाः तदेवमादिषुयोव्याक्षेपः-व्याकुलत्वंतस्माद्धेतोः 'गच्छे’ गच्छवासिनां 'सततं' निर्तरं 'ध्यानम्' एखाग्रशु-भाध्यवसायात्मकमात्मनो मण्डनकल्पं न भवति । नकल्पिकस्य तु वैयावृत्त्यादिव्याक्षेपरहितस्य निरपत्यस्त्रिया आत्मनो मण्डनमिव निरन्तमेव तथा तद् उपजायते यथा भोक्तुमपि स्पृहा न भवति ॥अथ गोवर्गद्वयदृष्टान्तमाह[भा.२११९] सर्लपोइयाओ, नस्संतीओ वि नेव धेनूओ।
मोत्तूण तन्नगाई, दवंति सपरक्कमाओ वि ।। कृ'धेनवः' अभिनवप्रसूता गावस्ताः शार्दूलेन’ व्याघेण पोतिताः' त्रासिताः सत्योनश्यन्त्योऽपि 'तर्णकानि' वत्सरूपाणि मुक्त्वा ‘सपराक्रमा अपि' समर्था अपि नैव द्रवन्ति' न शीघ्रं पलायन्ते, अपत्यसापेक्षत्वात्॥ [भा.२१२०] न वि वच्छएसु सजंति वाहिओ नेव वच्छमाऊसु ।
सबलमगृहंतीओ, नस्संति भएण वग्धस्स ॥ कृयास्तु“वाहिओ" बष्कयिण्यस्ता नापिवत्सकेषु सजन्ति ममत्वं कुर्वन्ति, नापि 'वत्समातृषु' धेनुषु, किन्तु स्वबलमगृहमाना व्याघ्रस्य भयेन नश्यन्ति निरपेक्षत्वात् ।। एष दृष्टान्तः ।
अथार्थोपनयमाह[भा.२१२१] आयसरीरे आयरिय-बाल-वुड्ढेसु आविसावेक्खा ।
कुल-गण-संघेसुतहा, चेइयकज्जाइएसुंच ॥ वृ-यथा धेनवस्तथा गच्छवासिनोऽप्यात्मशरीरे आचार्य-बाल-वृद्धेषु अपि च कुल-गणसङ्घकार्येषु चैत्यादिकार्येषुच सापेक्षाः, अतः संसारव्याघ्रभयेन नश्यन्तोऽपि संहननादिबलोपेता अपि न शीघ्रं पलायन्ते । जिनकल्पिकास्तु भगवन्त आत्मशरीरादिनिरपेक्षा अधेनुगाव इव स्ववीर्यमगृहमानाः संसारव्याघ्रानिप्रत्यूहंपलायन्ते।यद्येवंतर्हि जिनकल्पो महर्द्धिकतरइत्यापन्नम्, मैवं वादीः, जिननिजनिरुपमगुणैरुभयोरपितुल्यकक्षत्वात्। तथाहि-अत्यन्ताप्रमादनिष्प्रतिकर्मतादिभिर्गुणैर्जिनकल्पोमहर्द्धिकः, परोपकार-प्रवचनप्रभावनादिभिश्च गुणैः स्थविरल्पिकोमहर्द्धिक इति ॥अपि च[भा.२१२२] रयणायरो उ गच्छो, निप्फादओ नाण-दसण-चरित्ते।
एएण कारणेणं, गच्छो उ भवे महिड्डीओ॥ | 1902
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org