________________
१६
र्द्धिकः ॥ अथ द्वयोरपि महर्द्धिकत्वं दृष्टान्तेन दर्शयति[भा. २११२]
बृहत्कल्प - छेदसूत्रम् -२-१/९
दीवा अन्नो दीवो, पइप्पई सो य दिप्पइ तहेव । सीसोच्चि सिक्खतो, आयरिओ होइ नऽन्नत्तो ॥
वृ-दीपाद् अन्यः' द्वितीयो दीपः प्रदीप्यते, स च मौलो दीपस्तथैव दीप्यते, एवं जिनकल्पिकदीपोऽपि गच्छदीपादेव प्रादुर्भवति, स च गच्छदीपस्तथैव ज्ञान-दर्शन- चारित्रैः स्वयं प्रदीप्यते । यद्वा यथा शिष्य एव शिक्षमाणः सन् क्रमेणाचार्यो भवति 'नान्यतः ' नान्येन प्रकारेण एवं स्थविरकल्पिक एव तपःप्रभृतिभिर्भावनाभिरात्मानं भावयन् क्रमेण जिनकल्पिको भवति नान्यथा । अतो द्वावपि महर्द्धिकी ॥ अस्यैवार्थस्य समर्थनायापरं ध्ष्टान्तत्रयं दर्शयितुं नियुक्तिगाथामाह [भा. २११३] दिट्ठतो गुहासीहे, दोत्रिय महिला पया य अपया य । गावीण दोन वग्गा, सावेक्खो चेव निरवेक्खो ||
वृष्टान्तोऽत्र गुहासिहविषयः प्रथमः । द्वितीयो द्वे महिले - एका 'प्रजा' अपत्यवती द्वितीया 'अप्रजा' अपत्यविकला । तृतीय गवां द्वौ वर्गों - एकः सापेक्षः, अपरो निरपेक्ष इति । तत्र गुहासिंहष्टान्तं भावयति
[भा. २११४]
सीहं पालेइ गुहा, अविहाडं तेण सा महिड्डीया । तस्स पुन जोव्वणम्मिं, पओअणं किं गिरिगुहाए ।
वृ- "अविहाडं'' ति देशीभाषया बालकं सिंहं गुहा 'पालयति' वनमहिष- व्याघ्रादिभ्यो रक्षति, तन्निर्गतस्य तस्य तेभ्यः प्रत्यपायसम्भवात्; तेन कारणेन गुहा महर्द्धिका । यदा तु सिंहो यौवनं प्राप्तो भवति तदा किं तस्य प्रयोजनं गिरिगुहया ? न किञ्चिदित्यर्थः, स्वयमेव वनमहिपाद्युपद्रवादात्मानं पालयितुं प्रत्यलीभूतत्वात्, इत्थं सिंहो महर्द्धिकः ॥ अथार्थोपनयमाहदव्वावइमाईसुं, कुसीलसंसग्गि- अन्नउत्थीहिं । रक्खड़ गणीपुरोगो, गच्छो अविकोवियं धम्मे ॥
[भा. २११५]
वृ- गणी - आचार्य स पुरोगः पुरस्सरो नायको यसय स तथाविधो गच्छो गुहास्थानीयः सिंहशावकस्तानीयं साधुं 'धर्मे' श्रुत चारित्रात्मके 'अविकोविदम्' अद्याप्यप्रबुद्धं द्रव्यापदि आदिशब्दात् क्षेत्र-काल-भावापत्सु तथा कुशीलाः- पार्श्वस्थादयस्तैरन्यतीर्थिकैर्वा सार्द्धयः संसर्गस्तत्र च 'रक्षति' विश्रोतसिका - प्रमाद - मिथ्यात्वाद्युपद्रवात् पालयति अतो गच्छो महर्द्धिकः । यदा त्वसौ द्विविधेऽपि धर्मे व्युत्पन्नमति कृतपरिकर्मा जिनकल्पं प्रतिपन्नस्तदा स्वयमेवात्मानं द्रव्यापदादिष्वपि विश्रोतसिकादिविरहितः सम्यक् परिपालयति अतो जिकल्पिको महर्द्धिकः ॥ अथ महेलाद्वयष्टान्तमाह
[भा.२११६] आणा-इस्सरियसुहं, एगा अनुभवइ जइ वि बहुतत्ती । देहस्स य संठप्पं, मोहसुहं चेव कालम्मि ।।
वृ-द्वयोर्महलयोर्मध्ये 'एका' सप्रसवा यद्यपि 'बहुतप्तिः' अपत्यस्नपनादि बहुव्यापार व्यापृता तथापि सा गृहस्वामिनीत्वादाज्ञैश्वर्य सुखमनुभवन्ति 'काले च' प्रस्तावे देहस्य 'संस्थाप्य' संस्थापना भोग सुखमपि च प्राप्नोति ।
[भा. २११७]
Jain Education International
परवावारविमुक्कगा, सरीरसक्कारतप्परा निच्चं ।
For Private & Personal Use Only
www.jainelibrary.org