SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं - ९, [भा. २१०५] १५ वृ- अस्य व्याख्या प्राग्वत् । नवरं सबाहिरिके क्षेत्रेऽन्तर्द्वी मासौ बहिर्द्वी मासावित्येवं चतुरो मासान् निर्ग्रन्थीनां वस्तुं कल्पत इति ।। अथ माप्यम् [भा. २१०६ ] एसेव कमो नियमा, सपरिक्खेवे सबाहिरियम्मि । नवर पुन नाणतं, अंतो बाहिं चउम्मासा ॥ वृ- 'एष एव ' पूर्वसूत्रोक्तः क्रमः सर्वोऽपि नियमात् सपरिक्षेपे सबाहिरिके क्षेत्रे वसन्तीनां संयतीनां द्रष्टव्यः । नवरं पुनः 'नानात्वं' विशेषोऽयम्- 'अन्तः' अभ्यन्तरे 'बहि' बाहिरिकायाम् 1 एवमुभयोश्चत्वारो मासाः पूरणीयाः ॥ [भा. २१०७] चउण्हं उवरि वसंती, पायच्छित्तं च होंति दोसा य । नातं असईए उ, अंतो वसही बहिं चरइ ॥ वृ- चतुर्णां मासानामुपरि यदि सबाहिरिके क्षेत्रे संयती वसति तदा तदेव प्रायश्चित्तं त एव च दोषाः द्वितीयपदमपि तदेव मन्तव्यम् । 'नानात्वं' विशेषः पुनरयम् बाहिरिकायां वसतेः, शय्यातरस्य वा यथोक्तगुणस्य 'असति' अभावे 'अन्तः प्राकाराभ्यन्तरे "वसहि "त्ति वसती पूर्वस्यामेव स्थिता 'बहि' बाहिरिकायां 'चरति' भिक्षाचर्यामटति । इदमेव स्पष्टयति [ भा. २१०८ ] जोग्गवसहीइ असई, तत्थेव ठिया चरिंति बाहिं तु । पुव्वगहिए विगिंचिय, तत्तो च्चिय मत्तगादी वि ॥ वृ- बहि संयतीयोग्याया वसतेरभावे 'तत्रैव' अभ्यन्तरोपाश्रये स्थिताः सन्त्यो बहिश्चरन्ति, पूर्वगृहीतानि मात्रक - तृण- डगलादीनि विविच्य ' परित्यज्य अपराणि 'तत एव' बाहिरिकाया मात्रकादीन्यप्यानेतव्यानि, न केवलं भिक्षेत्यपिशब्दार्थः, श्रुत- संहननादिविषया सामाचारी क्षेत्रकालादिविषया च स्थिति स्थविरकल्पिकानामिव द्रष्टव्या ॥ तदेवमुक्त आर्यिकाणामपि मासकल्पविधि । अथ शिष्यः प्रश्नयति[भा. २१०९] गच्छे जिनकप्पम्मि य, दोण्ह वि कयरो भवे महिडीओ । निष्फायग-निष्पन्ना, दोन्नि वि होंति महिड्डीया ।। गच्छ-जिनकल्पयोर्द्वयोर्मध्ये कतरः 'महर्द्धिकः' प्रधानतरो भवेत् ? । गुरुराह-निष्पादकनिष्पन्नाविति कृत्वा द्वावपि महर्द्धिकौ भवतः । तत्र गच्छः सूत्रार्थग्राहणादिना जनिकल्पिक-स्य निष्पादकः अतोऽसौ महर्द्धिकः, जिनकल्पिकस्तु निष्पन्नः - ज्ञानदर्शन- चारित्रेषु परिनिष्ठित इत्यसौ महर्द्धिकः ॥ एनामेव नियुक्तिगाथां भावयति [भा. २११०] दंसण-नाण-चरिते, जम्हा गच्छम्मि होइ परिवुट्टी । एएण कारणेणं, गच्छोउ भवे महिडीओ ॥ वृ- दर्शन-ज्ञान- चारित्राणां यस्माद् गच्छे परिवृद्धिर्भवति एतेन कारणेन गच्छो महर्द्धिको भवति ॥ [ भा. २१११] पुरतो व मग्गतो वा, जम्हा कत्तो वि नत्थि पडिबंधो । एएण कारणेणं, जिनकप्पीओ महिडीओ ॥ कृ- 'पुरतो वा' विहरिष्यमाणक्षेत्रे 'मार्गतो वा' पृष्ठतः पूर्वविह्वतक्षेत्रे यस्मात् 'कुतोऽपि द्रव्यतः क्षेत्रतः कालतो भावतो वा प्रतिबन्धस्तस्य भगवतो न विद्यते तेन कारणेन जिनकल्पिको मह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy