SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्प-छेदसूत्रम् -२-१/८ वेदे स्त्रीलिङ्गं सर्वथा रक्ष्यम्, अत एव स्त्रीकेवली यथोक्तामार्थिकोपकरणप्रावरमादियतनां करोतीति भावः ।। आह यदि ताः स्नानादिपरिकर्मरहिताः ततः किं कोऽपि तासु रागं व्रजति येनेत्थं यतना क्रियते ? उच्यते [ मा. २१०१] कामं तवस्सिणीओ, हाणुव्वट्टणविकारविरयाओ । तह वि य सुपाउआणं, अपेसणाणं चिमं होइ ॥ वृ- 'कामम्' अनुमतं यथा तपस्विन्यः स्नानोद्वर्तनविकारविरतास्तथापि 'सुप्रावृतानां' नित्यमेव बहुभिरुपकरणैराच्छादितानाम् 'अप्रेषणानां च' अव्यापाराणाम् इदम्' अनन्तरमेव वक्ष्यमाणं शरीरसौन्दर्यं भवति ॥ तदेवाह [मा. २१०२] १४ रूवं वन्नो सुकुमारया य निद्धच्छवी य अंगाणं । होंति किर सन्निरोहे, अज्जाण तवं चरंतीणं ॥ वृ- 'रूपम्' आकृति 'वर्ण' गौरत्वादि 'सुकुमारता' कोमलस्पर्शता स्निग्धा च - कान्तिमती छवि-त्वग् ‘अङ्गानां' शरीरावयवानाम् । एतानि रूपादिनी आर्यिकाणां 'सन्निरोध' बहूपकरणप्रावरणादौ ध्रियमाणानां तपः चरन्तीनामपि भवन्ति, ततो युक्तियुक्ता पूर्वोक्ता तासां यतनेति । गतं भिक्षानिर्गमद्वारम् । अथ निर्ग्रन्थानां मासः कस्मात् तासां द्वौ मासाविति द्वारम् । शिष्यः पृच्छति कतिं निर्ग्रन्थीनामभ्यधिकानि महाव्रतानि येन तासां द्वौ मासौ निर्ग्रन्थानामेकं मासमेकत्र वस्तुमनुज्ञायते ? सूरिराह [भा. २१०३] जइ वि य महव्वयाइं, निग्गंथीणं न होंति अहियाइं । तह वि य निच्चविहारे, हवंति दोसा इमे तासिं ॥ वृ- यद्यपि च निर्ग्रन्थीनां महाव्रतानि नाधिकानि भवन्ति तथापि 'नित्यविहारे' मासे मासे क्षेत्रान्तरसङ्क्रमणे इमे दोषास्तासां भवन्ति ॥ [भा. २१०४] मंसाइपेससिसरिसी, वसही खेत्तं च दुल्लभं जोग्गं । एएण कारणेणं, दो दो मासा अवरिसासु ॥ वृ-मांसादिपेशीसध्शी संयती, सर्वस्याप्यभिलषणीयत्वात् । तथा तासां योग्या वसतिर्दुर्लभा, क्षेत्रं च तत्प्रायोग्यं दुर्लभम् । ततो यथोक्तगुणविकलायां वसतौ दोषदुष्टे वा क्षेत्रे स्थाप्यमानानां बहवः प्रवचनविराधनादयो दोषा उपढीकन्ते । एतेन कारणेन तासाम् 'अवर्षासु' वर्षावासं विमुच्य द्वौ द्वौ मासावेकत्र वस्तुमनुज्ञायते ॥ अथ द्वयोरुपरि वसन्तीनां दोषान् द्वितीयपदं चोपदर्शयति [मा. २१०५ ] दोन्हं उवरि वसंती, पायच्छित्तं च होति दोसा य । बिइयपयं च गिलाणे, वसही भिक्खं च जयणाए । वृ-द्वयोर्मासयोरुपरि वसन्ति ततः प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च ग्लाने वसतिर्भैक्षं च यतनया ग्रहीतव्यम् । भावार्थो निर्ग्रन्थानामिव द्रष्टव्यः ॥ सूत्रम् मू. (९) से गामंसि वा जाव रायहाणिंसि वा सपरिक्खेवंसि सबाहिरियंसि कप्पइ निग्गंथीणं हेमंत - गिम्हासु चत्तारि मासा वत्थए- अंतो दो मासे, वाहिं दो मासे । अंतो वसमाणीणं अंतो भिक्खायरिया, बाहिं वसमाणीणं बाहिं भिक्खायरिया ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy