________________
उद्देशक : १, मूलं-४४, [भा. २९७८]
२०१ कृतमिति मत्वा न गृह्णन्ति अन्यस्य वा ग्रहणं कुर्वन्ति तदा चतुर्लघवः । अतस्तदेव वस्त्रं गृहीत्वा क्षारादिना धीत्वा च साधुप्रायोग्यं कृत्वा परिभुञ्जते । अथातीव जीर्णं ततः 'उज्झेयुः' परिष्ठापयेयुरित्यर्थः ॥गतःप्रथमो भङ्गः । अथ 'गृहस्थभद्रकाः संयतप्रान्ताः' इति द्वितीयो भङ्गो भाव्यते तत्र भूयश्चतुर्भङ्गी-संयत्यो विविक्ता न संयताः १ संयता विविक्ता न संयत्यः २ संयत्योऽपि विविक्ताः संयताअपिविविक्ताः३नसंयत्योनापिसंयता विविक्ताः४।अत्र विधिमभिधित्सुराह[भा.२९७९] सट्ठाणे अनुकंपा, संजय पडिहारिए निसिढे य।
असईअ तदुभए वा, जयणा पडिसत्थमाईसु॥ वृ-यत्र संयता गृहिणश्च विविक्ता न संयत्यः तत्र संयतीनां स्वस्थानं साधवः तत्रानुकम्पा कर्तव्या, साधूनांवस्त्रं दातव्यमित्यर्थः, साधुभिरपितत्प्रातिहारिकंग्राह्यम्।यत्रसंयत्यो गृहस्थाश्च मुषिता न संयताः तत्र साधूनां संत्यः स्वस्थानं तासां वस्त्रदानेनानुकम्पा कर्तव्या, तच्च 'निसृष्टं' निदेजं दातव्यं न प्रातिहारिकम् । “असईय"त्ति अथात्मनोऽप्यधिकमुपकरणं नास्ति ततः प्रातिहारिकमपि तासां दातव्यम् । तथा तदुभयं-साधुसाध्वीवर्ग तस्य विविक्तस्य वस्त्राभावे प्रतिसार्थादिषु यतना' वस्त्रान्वेषणविषयाकर्त्तव्येति सङ्गहगाथासमासार्थ॥अथैनामेव विवृणोति[भा.२९८०] न विवित्ता जत्थ मुनी, समणीय गिही यजत्थ उद्दूढा ।
सट्ठाणऽनुकंप तहिं, समणुनियरासु वितहेव ।। वृ-यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र “उद्दूढ"त्ति मुषिताः तत्र 'स्वस्थाने' संयतीवर्गेऽनुकम्पा कर्त्तव्या। ताश्च संयत्यो द्विविधाः-संविग्ना असंविग्नाश्च । यदि सन्ति ततः सर्वासामपि दातव्यानि । अथन सन्ति तावन्ति वस्त्राणि ततः संविग्नसंयतीनांदेयानि । ताअपि द्विविधाः-समनोज्ञाः-साम्भोगिन्य इतराश्च-असाम्भोगिन्यः । यदि पूर्यन्तेततोद्वयोरपिवर्गयोस्तथैव दातव्यानि । अथ न पूर्यन्ते ततः स्वस्थाने दातव्यानि, समनोज्ञानामित्यर्थः । अपिशब्दाद्या धृतिदुर्बलास्ताः संविग्ना असंविग्ना वा स्थविरास्तरुण्यो वा भवन्तु नियमात् तासां दातव्यम् ।
यत्र साधवो विविक्तास्तत्रेयं यतना[भा.२९८१] लिंगट्ठ भिक्ख सीए, गिण्हंती पाडिहारियमिमेसु ।
अमणुन्नियरगिहीसुं, जलद्धं तन्निभं दिति ॥ वृ-लिङ्गार्थं तावदवश्यं रजोहरण-मुखवस्त्रिके ग्रहीतव्ये, भिक्षार्थं तु पात्रबन्ध-पटलकादि, शीतत्राणार्थं तु प्रावरणादि, एतत् सर्वमपि प्रातिहारिकमेतेषु गृह्णन्ति । तद्यथा-अमनोज्ञाःअसाम्भोगिकाः इतरे-पार्श्वस्थादयः गृहिणः-प्रतीताः, एतेषुयदि प्राप्यतेततः सुन्दरमेव, अर्थतेषु न प्राप्यते ततः संयतीनामपि हस्तात् प्रातिहारिकं ग्राह्यम् । ततो अध्योत्तीर्णे यत् चोलपट्टादिकं यदा लब्धं भवतितदा ‘तन्निभं' तत्सदृशं प्रातिहारिकम् असाम्भोगिकादीनां ददति' प्रत्यर्पयन्ति। इह द्वितीयभङ्गे व्याख्यायमाने प्रथम-तृतीय-चतुर्थभङ्गा अपिलेशतः स्पृष्टा अवगन्तव्याः॥
गतो द्वितीयभङ्गः । अथ तृतीयभङ्गं व्याख्यानयति[भा.२९८२] उद्दूढे व तदुभए, सपक्खपरपक्ख तदुभयं होइ ।
अहवा वि समण समन, समणुनियरेसु एमेव॥ वृतदुभये वा 'अझुढे' मुषिते सत्येवमेव यतना ज्ञातव्या । अथ तदुभयमिति किमुच्यते?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org