SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ २०० [भा. २९७३] वृ- इयमपि गतार्था । [भा. २९७४ ] बृहत्कल्प-छेदसूत्रम् -२-१/४४ ना दंसणट्टा, चरित्तट्ठा एवमाइ गंतव्वं । उवगरण पुव्वपडिलेहिएण सत्थेण गंतव्वं ॥ सत्ये विविच्चमाणे, असंजए संजए तदुभए य । मग्गंते जयण दानं, छिन्नं पि हु कप्पई घेत्तुं ॥ वृ-ज्ञानाद्यर्थमध्वानं प्रतिपन्नानामपान्तराले चतुर्विधाः स्तेना भवेयुः एके असंयतप्रान्ताः १ अन्ये संयतप्रान्ताः २ अपरे तदुभयप्रान्ताः ३ अन्ये तदुभयभद्रकाः ४ । तत्रासंयतप्रान्तैः स्तेनैः सार्थे ' विविच्यमाने' मुष्यमाणेऽत एव साधूनां पाशर्वाद् वस्त्राणि मार्गयति यतनया दानं कर्त्तव्यम् । प्रत्यर्प्यमाणं च च्छिन्नमपि तदेव वस्त्रं ग्रहीतुं कल्पते नान्यदिति सङ्ग्रहगाथासमासार्थः।। अथैनामेव विवरीषुराह[भा. २९७५] संजयभद्दा गिहिभद्दगा य पंतोभए उभयभद्दा । तेना होंति चउद्धा, विगिंचणा दोसु तू जइणं ॥ वृ- एके स्तेनाः संयतभद्रकाः गृहस्थथप्रान्ताः, अपरे गृहस्थभद्रकाः परं संयतप्रान्ताः, अन्ये उभयेषामपि प्रान्ताः, अपरे उभयेषामपि भद्रकाः, एवं स्तेनाश्चतुर्विधा भवन्ति । अत्र च द्वितीयतृतीययोर्द्वयोर्भङ्गयोर्यतीनां 'विवेचनं' वस्त्रेभ्यः पृथक्करणं भवति ॥ अथ यत्र संयता न विविक्ताः गृहस्थास्तु विविक्ताः तत्र विधिमाह [भा. २९७६] जइ देतऽजाइया जाइया व न वि देंति लहुग गुरुगा य । सागार दान गमणं, गहणं तस्सेव नऽन्नस्स ॥ वृ- साधवो यद्ययाचिताः सन्तो वस्त्राणि गृहिणां प्रयच्छन्ति तदा चतुर्लघु । अथ याचिताः सन्तो न प्रयच्छन्ति तदा चत्वारो गुरवः । अतः 'साकारं ' प्रातिहारंक भणित्वा प्रयच्छन्ति, यथाभवद्भि प्रत्यर्पणीयमिदमस्माकं यद्यर्वाग्विर्त्तमाना गृहं वा गता अन्यद् वस्त्रं लभध्वे । 'गमनं नाम' येषां गृहस्थानां तद् वस्त्रं प्रदत्तं ते यद्यन्येन पथा गच्छन्ति ततः साधुभिरपि तेनैव पथा गन्तव्यम्; यद्यन्येन व्रजन्ति ततश्चतुर्लघु । यदा तेऽध्वनो निर्गता भवन्ति तदा छिन्नस्यापि तस्यैव वस्त्रस्य ग्रहणं कर्त्तव्यं नान्यस्य । ततः पुनर्वस्त्रं कीध्शं दातव्यम् ? इत्याहदंडपडिहारवज्जं, चोल - पडल-पत्तबंधवज्रं च । परिजुण्णाणं दानं, उड्डाह-पओसपरिहरणा ।। [भा. २९७७ ] वृ - महती जीर्णकम्बलिका दण्डपरिहार उच्यते, तद्वर्जम्, चोलपट्ट - पडलक- पात्रबन्धवर्जं च यानि शेषाणि परिजीर्ण वस्त्राण तेषामुड्डाह-प्रद्वेषपरिहरणार्थं दानं कर्त्तव्यम् । उड्डाहो नामअहो ! अमीषामनुकम्पा ये विविक्तानामप्यस्माकंचीवराणि न प्रयच्छन्ति, प्रद्वेषो नाम- अप्रीतिकम्; तद्वशाचच प्रान्तापनादयो दोषास्तत्परिहरणार्थं दातव्यम् ॥ अथ “छिन्नं पि"त्ति योऽयम-पिसब्दस्तत्सूचितमिदमपरमाह [भा.२९७८] धोयस्स व रत्तस्स व, अन्नस्स वऽगिण्हणम्मि चउलहुगा । तं चेव घत्तुं धोउं परिभुंजे जुण्णमुज्झेजा ॥ वृ-यदि तैर्गृहस्थैस्तद् वस्त्रं धौतं वा रक्तं वा तथापि तस्यैव ग्रहणं कर्त्तव्यम् । अथासाधुप्रायोग्यं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy