________________
उद्देशक : १, मूलं-४३, [भा. २९६७]
१९९ नासन्ने नातिदूरे । तृतीयस्तु द्वितीयादपि गाडतरमाहतस्तेनासौ प्रत्यासन्न एव भूभागे गत्वा मृतः। न च मया ज्ञातम्, यथा-अयमन्यान्यः सिंहः समागतो न स एवेति ॥ ईशस्य कृतकरणस्याभावे देवतायाः कायोत्सर्ग कर्त्तव्यः, स च केन कियन्तं वा कालं यावत् ? इति अत्रोच्यते[भा.२९६८] खमओ व देवयाए, उस्सग्ग करेइ जाव आउट्टा।
. रक्खामि जा पभायं, सुवंतु जइणो सुवीसत्था ।। वृ-क्षपको वा देवताया आकम्पननिमित्तं कायोत्सर्गं करोति यावदसौ ‘आवृत्ता' आराधिता सती ब्रूते-भगवन् ! पारय कायोत्सर्गम्, यावत् प्रभातं तावदहं श्वापदाधुपसर्ग रक्षामि, स्वपन्तु यतयः सुविश्वस्ता इति ॥
मू. (४४) नो कप्पइ निग्गंथाण वा निग्गंथीण वा रातो वा वियाले वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पडिगाहित्तए॥
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.२९६९] जह सेज्जाऽनाहारो, वत्थाददेमेव मा अइपसंगा।
दियदिट्ठवत्थगहणं, कुजा उ निसिं अतो सुत्तं ।। कृयथा शय्या-वसतिअनाहारइति कृत्वा रात्रौ ग्रहीतुंकल्पते, एवमेव वस्त्रादिकमपिकल्पिष्यते इत्यतिप्रसङ्गाद् दिवाष्टस्य वस्त्रस्य 'निशि' रात्रौ ग्रहणंमा कुर्यादित्यत इदं सूत्रमारभ्यत इति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा रात्रौ वा विकाले वा वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा प्रतिग्रहीतुमिति सूत्राक्षरगमनिका ।।
अथ भाष्यविस्तरः[भा.२९७०] रातो वत्थग्गहणे, चउरो मासा हवंति उग्घाया।
आणाइणो य दोसा, आवजण संकणा जाव । वृ-रात्रौ वस्त्रग्रहणे चत्वारो मासा उद्धाताः प्रायश्चित्त आज्ञादयश्च दोषाः । तथा यथा रात्री भक्तग्रहणे मिथ्यात्व-षट्कायविराधनादयो दोषा उक्ताः यावत् पञ्चस्वपिप्राणातिपातादिष्वापत्तिस्तद्विषया च शङ्का एतत् सर्वमपि दोषजालं रात्रौ वस्त्रग्रहणेऽपि तथैव वक्तव्यम् ।।
यतश्चैवमतो न ग्रहीतव्यं रात्रौ वस्त्रम्, कारणे तु गृह्णीयादपीति दर्शयति[भा.२९७१] बिइयं विहे विवित्ता, पडिसत्थाई समिच्च रयणीए ।
तेय पए च्चिय सत्था, चलिहिंतुभए व इक्को वा ॥ वृ-द्वितीयपदमत्रोच्यते-'विहे' अध्वनि 'विविक्ताः' मुषिताः सन्तःप्रतिसादिकं समेत्य' प्राप्य रजन्यामपि वस्त्र-प्रतिग्रहादिकं गृह्णन्ति । तत्रापि कथम् ? इत्याह-तावुभावपि सार्थी प्रगे' प्रातरेवानुद्गते सूर्ये चलिष्यतः, “एको वा' अन्यतरः सार्थप्रतिसार्थयोर्मध्ये चलिष्यतीति मत्वा रात्रावपि ग्रहणं कुर्वन्ति । अत एव चोत्सर्गपदेऽध्वा गन्तुमेव न कल्पते यत्रैते दोषा उत्पद्यन्ते ।
तथा चाह[भा.२९७२] उद्दद्दरे सुभिक्खे, अद्धाणपवजणं तु दप्पेण ।
लहुगा पुन सुद्धपदे, जं वा आवजई जत्थ ।। वृ-इयं रात्रिभक्तसूत्रे व्याख्यातार्था ।। द्वितीयपदमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org