________________
१९८
बृहत्कल्प-छेदसूत्रम् -२-१/४:
चैत्यस्य वा विनाशे उपस्थिते सति सहयोधिप्रभृतिनास्ववीर्यमहापयता तथा पराक्रमणीयं यथा तेषामाचार्यादीनां विनाशोनोपजायते।सचतथा पराक्रमणामो यद्यपराधमापन्नस्तताप्यालोचितप्रतिक्रान्तः शुद्धः, गुरुसमक्षमालोच्य मिथ्यादुष्कृतप्रदानमात्रेणैवासौ शुद्ध इति भावः । कुतः? इत्याह-'यद्' यस्मात् कारणाद् ‘विपुला' महती 'निर्जरा' कर्मक्षयलक्षणा तस्य भवति, पुष्टालम्बनमवलम्ब्य भगवदाज्ञया प्रवर्तमानत्वादिति ।। [भा.२९६४] सोऊण य पन्नवणं, कयकरणस्सा गयाणो गहणं ।
सीहाई चेव तिगं, तवबलिए देवयट्ठाणं ।। वृ एवंविधां प्रज्ञापनां श्रुत्वा यः कृतकरणः-सहयोधिप्रभृतिकस्तस्य गदाया आदिशब्दाद् लगुडस्य वा ग्रहणं भवति । गहीत्वा च गदादिकमसौ गुरून् ब्रवीति-भगवन् ! शेरतां विश्वस्ताः सर्वेऽपि साधवः, अहं सिंहादीनां निवारणां करिष्यामि । ततः सुप्ताः साधवः । स पुनरेकाकी गदाहस्तः प्रतिजाग्रदवतिष्ठते । तस्य च प्रतिजाग्रतः सिंहत्रिकं समागच्छेत्, आदिशब्दाद् व्याघ्रादिपरिग्रहः । तत्र च वृद्धसम्प्रदायः-सो साहू गयाहत्थो पडियरमाणो चिट्ठइ । नवरं सीहो आगतो। तेन ईसि त्ति आहतो नाइदूर गंतुंमओ। अन्नो सीहो आगओ। सो चिंतेइ-सोचेव पुणो आगओ। तओ गाढतरं आहओ।सो नस्संतो पढमस्स आरओमओ। अन्नो वि सीहो आगओ। सो चिंतेइ-तइयं पि वारं सो चेव पूणो आगओ। ताहे बिइयाओ बलिययरं आहओ । नस्संतो बीयस्स आरओमओ। तओ वोलिया खेमेण रयणि त्ति ।। ईशस्य कृतकरणस्याभावे यः 'तपोबलिकः विकृष्टतपसाबलीयान्त्रपकःसदेवताया आकम्पननिमित्तं स्थानं' कायोत्सर्गं करोति। एतदग्रतो भावयिष्यते ॥ अथ तेन कृतकरणसाधुना प्राभातिकप्रतिक्रमणवेलायां यथा गुरुसमक्षमालोचितं तथा प्रतिपादयति[भा.२९६५] हंत म्मि पुरा सीहं, खुडयाइ इदानि मंदथामो मि ।
तिन्नाऽऽवाए सीहो, रत्तिं पहओ मया न मओ॥ वृ-क्षमाश्रमणाः! 'पुरा' पूर्वमहं प्रबलशरीरतयाखुडुक्कामात्रेणैव सिंहं हन्ताऽस्मि, इदानींतु मन्दस्थामाऽस्मिततः “तिनाऽऽवाए"तिविभक्तिव्यत्ययात् त्रिष्वापातेषु आगमनेषुगदाघातेन सिंहो रात्रौ मयाप्रहतः परं 'नमृतः' नापद्राणः। एवमालोच्य मिथ्यादुष्कृतं दत्तवान् । एतावतैव चासौ शुद्धः, अदुष्टपरिणामत्वात् ।। [भा.२९६६] नितेहि तिनि सीहा, आसन्ने नाइदूर दूरे य।
निग्गयजीहा दिट्ठा, स चावि पुट्ठो इमं भणइ ।। वृ-प्रभाते निर्गत्य पन्थानं गच्छद्भिते त्रयः सिंहा निर्गतजिह्वा दृष्टाः । तत्रैक आसन्ने, द्वितीयो नातिदूरे, तृतीयस्तु दूरे। सच आचार्ये पृष्टः-आर्य! किमेवं सिंहत्रयं विपननमवलोक्यते? । ततः स इदं भणति॥ [भा.२९६७] मा मरिहिइ त्ति गाढं, न आहओ तेन पढमओ दूरे।
___ गाढतर बिइय तइओ, न य मे नायं जहऽन्नन्नो ।। वृ-भगवन् ! यदाप्रथमः सिंह आयातस्तदामया ‘मा मरिष्यति' इति कृत्वा गाढं नाहतस्तेनासौ दूरे गत्वा विपन्नः । द्वितीयस्तु ‘स एवायं भूयोऽप्यायातः' इति बुध्या गाढतरमाहतः तेनासौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org