________________
२०२
बृहत्कल्प-छेदसूत्रम् -२-१/४४
इत्याह-स्वपक्षः परपक्षश्चेति तदुभयं भवति, स्वपक्षः-संयताः परपक्षः-गृहस्थाः अथवा तदुभयं नाम श्रमणाः श्रमण्यश्च । यद्व तदुभयं समनोज्ञाः 'इतरे' अमनोज्ञाश्च । अपिशब्दाद् व्यवहितसम्बन्धादत्रयोजिता यदि वा संविग्ना असंधिग्नाश्चेति तदुभयम् ।। तत्र मुषिते सतिविधिमाह[भा.२९८३] अमणुन्नेतर गिहि-संजईसु असइ पडिसत्थ-पल्लीसु।
तिण्हऽट्ठाए गहणं, परिहारिय एतरे चेव॥ वृ- अमनोज्ञाः-असाम्भोगिकाः इतरे-पार्श्वस्थादयः, गृहिणः संयत्यश्च प्रतीताः, एतेषु विविक्ततया वस्त्राभावे प्रतिसार्थे वा पल्लयां वा पञ्चकपरिहाण्या वस्त्रं मार्गयितव्यम् । संयतीनां तु नास्ति पञ्चकपरिहाणि, यदैव लभ्यते तदैव गृहीत्वा गात्राच्छादनं ताभि कर्तव्यम् । तच्च वस्त्रं 'त्रयाणां' लिङ्ग-भिक्षा-शीतत्राणानामर्थाय प्रातिहारिकं वा 'इतरद् वा' निसृष्टं ग्राह्यम् ।। [भा.२९८४] एवं तु दिया गहणं, अहवा रत्तिं मिलेज पडिसत्थो।
गीएसुरत्ति गहणं, मीसेसुइमा तहिं जयणा ॥ वृएवं दिवा ग्रहणमभिहितम्।अथ रात्रौप्रतिसार्थो मिलेत् तत्र च यदि सर्वेऽपिगीतास्ततो रात्रावेव गृह्णन्ति । अथागीतार्थमिश्रास्ततस्तेषु मिश्रेष्वियं यतना॥ तामेवाह[भा.२९८५] वत्थेण व पाएण व, निमंतएऽनुग्गए व अत्थमिए।
आइचो उदिउ त्तिय, गहणं गीयत्थसंविग्गे॥ वृ-प्रतिसार्थेकश्चिद्दानश्राद्धादिरनुद्गतेवाऽस्तमितेवासूर्येवस्त्रेणवा पात्रेणवानिमन्त्रयेत्, तत्र च यदि सार्थो रात्रावेव चलितुकामस्तदा गीतार्था गुरुन् भणन्ति-यूयं व्रजत, वयमुदिते आदित्ये गृहीत्वा समागमिष्यामः । ततो रजन्यामेव गृहीत्वा सार्थस्य पृष्ठतो नातिदूरासन्ने समागच्छन्ति। स्थितेच सार्थे गुरूणामालोचयन्ति-उदिते सूर्ये वस्त्रग्रहणं कृत्वा समायाताः । एवं गीतार्था संविग्ना गृह्णन्ति॥
अथ प्रतिसार्थे पल्लयां वा न लभ्येतन वा प्रतिसादिकं दृश्येत ततः किम् ? इत्याह[भा.२९८६] खंडे पत्ते तह दब्मचीवरे तह य हत्थपिहणंतु।
अद्धाणविवित्ताणं, आगाढं सेसऽनागाढं। वृ-चर्मखण्डानि संयतीनां विविक्तानां परिधानाय दातव्यानि । तदभावे शाकादिपत्राणि । तदप्राप्तौ दर्भेश्चीवरं घनं ग्रथित्वसमर्पयन्ति । सर्वथा परिधानाभावे हस्तेनापि गुह्यदेशस्य पिधानं ताभिः कर्त्तव्यम् । एवमध्वनि विविक्तानामागाढं कारणं मन्तव्यम् । शेषं तु सर्वमप्युपकरणाभावेऽनागाढम्॥ [भा.२९८७] असईय निग्गया खुड्डगाइ पेसंति चउसु वग्गेसु ।
अप्पाहिति वऽगारं, साहुं व वियारमाइगयं ॥ वृ-प्रतिसार्थपल्लयादौ वस्त्राणाम् 'असति' अप्राप्तौ अध्वनो निर्गता उद्यानं प्राप्ताः सन्तः 'क्षुल्लकादि' क्षुल्लकं क्षुल्लिकांवा विवक्षितंग्रामनगरंवाचत्वारः-संयत-संयती-श्रावक-श्राविकालक्षणा ये वर्गास्तेषु-तेषां समीपे प्रेषयन्ति; यद्वा साम्भोगिकाः संयता एको वर्ग, अन्यसाम्भोगिका इति द्वितीयः, साम्भोगिकाः संयत्य इति तृतीयः, अन्यसाम्भोगिकाइति चतुर्थ, एतेषां वा समीपे प्रेषयन्ति । अथ नास्ति क्षुल्लकः क्षुल्लिका वा ततो यस्ततो ग्रामाद् नगराद्वा ‘अगारः' गृहस्थः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only