________________
३२
बृहत्कल्प-छेदसूत्रम् -२-१/१० नागाढपरितापनादिकं भवति ततश्रचतुर्लघुकादिकमनन्तरगाथोक्तं ‘चरमं' पाराञ्जिकं यावत् प्रायश्रिचत्तम्॥ [भा.२१९७] गड्डा कुडंग गहणे, गिरिदरि उजाण अपरिभोगे वा ।
पविसंते य पविटे, निते य इमा भवे सोही ।। वृ- अथ तान् साधून दृष्ट्वा यदि ‘गळ्यां' प्रतीतायां 'कुडङ्गे' वंशजालिकायां 'गहने' बहुवृक्षनिकुञ्जे 'गिरिदाँ' पर्वतकन्दरायां 'उद्यानेवा' अपरिभोग्येसंयत्यः प्रविशेषुःततःप्रविशन्तीषु प्रविष्टासु निर्गच्छन्तीषु चेयंशोधि साधूनां भवति । [भा.२१९८] दूरम्मि दिढे लहुओ, अमुई अमुओ त्ति चउगुरु होति ।
तेचेव सत्तभंगा, वीयारगए कुडंगम्मि। वृ-यदि दूरे संयत्या संयतः संयतेन वा संयती दृष्टा ततो लघुको मासः । अथामुका संयती अमुको वा अयं ज्येष्ठार्य इति ब्रूते तदा चतुर्मुखः । तत्र च कुडङ्गे यदि कोऽपि संयतः विचारार्थ गतः-पूर्वप्रविष्टो वर्तते तदा त ए सप्त भङ्गाः, तद्यथा-संयतः प्रविशन् दृष्टो न संयती १ संयती प्रविशन्ती दृष्टा न संयतः २ द्वावपि दृष्टौ ३ द्वावपिन दृष्टौ ४, एवं निर्गमनेऽपि चतुर्भङ्गी, नवरं चतुर्थो भङ्गःप्रवेश-निर्गमयोरुभयोरपितुल्य इति कृत्वा द्वाभ्यामप्येक एव गण्यतिइति सप्त भङ्गा भवन्ति । एतेषु च प्रायश्रिचत्तं प्रागिव द्रष्टव्यम् ।। अथ तत्र ग्रामे द्वारे स्थितेषु तेषु यस्तासां संयतीनां निरोधी भवति तदुत्थदोषदर्शनाय दृष्टान्तमाह[भा.२१९९] आमीराणं गामो, गामदारे य देउलं रम्मं ।
आगमन भोइयस्स य, ठाइ, पुनो भोइओ तहियं ।। वृ-आभीराणां कश्चिद् ग्रामः, तस्य च ग्रामस्य द्वारे देवकुलं रम्यम्, अन्यदाच 'भोगिकस्य' ग्रामस्वामिनस्तत्रागमनम्,ततः 'तत्र' देवकुले भोगिकस्तिष्ठति ।।। [भा.२२००] महिलाजनो य दुहितो, निक्खमण पवेसणंच सिंदुक्खं ।
सामत्थणा य तेसिं, गो-माहिससन्निरोधो य॥ वृ-ततः तेषाम्' आमीराणां महिलाजनो दुःखितोऽभूत्, निष्कमणं प्रवेशनंच “सिं" तासां विचारादौ गच्छन्तीनां 'दुःख' दुष्करमभवत्, ततस्तेषां “सामत्थण" त्तिपालोचनमभूत्, यथामहिलाजनस्यातीवाबाधा वर्तते, अत एनं भोगिकमुपायेनान्यत्र स्थापयाम इति । ततस्तैर्गोमाहिषस्य-गो-महिषीसमूहस्य स्वस्ववत्सविजोयनस्य ग्रामाद् बहिर्नीत्वा ग्रामद्वारबन्धनेन रात्री सन्निरोधः कृत इति ॥इदभेव स्फुटतरमाह[भा.२२०१] विगुरुब्वियबोंदीणं, खरकम्मीणं तु लज्जमाणाओ।
भंजंति अनिंतीओ, गोवाड-पुरोहडे महिला ।। वृ-विकुर्विता-वस्त्रादिभिरलङ्कृता वोन्दि-शरीरं येषां ते विकुर्वितबोन्दयस्तेषामेवंविधानां भोगिकसम्बन्धिनां खरकर्मिकाणां लज्जमानाःसत्यो महेला बहिरनिर्गच्छन्त्यो गोवाटक-पुरोहडानि 'भञ्जन्ति' पुरीषव्युत्सर्गादिना विनाशयन्तीत्यर्थः॥ [भा.२२०२] इति ते गोणीहिं समं, धिइमलभंता उबंधिउंदारं ।
गामस्य विवच्छाओ, बाहिं ठाविंसु गावीओ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org