________________
२६२
बृहत्कल्प-छेदसूत्रम् -२-१/५०
कयं । सव्वे आरद्धा पिल्लिउं । खंदएण भणियं ममं पढमं मारेहि । ताहे सो भणति तुमं पिच्छाहि ताव सीसे वहिज्जुंते । एवं ते सव्वे वहिया सिद्धा य । पच्छा खंदयस्स बद्धस्स रुहिरचिरिक्काहि य सिच्यमाणस्स सीसेसु य खंडिज्जंतेसु असुहो परिणामो जातो। तेन नियाणं कयं । अग्गिकुमारेसु उववन्नो । भगिनीय से कंबलरयणं दिन्नयं, ततोहिंतो रयहरणं कयं । तं रुहिरावलित्तं सेणाय 'मंसं'ति काउं गहियं । देवीए अग्गतो पडियं । 'कतो एयं रयहरणं ? किं मम भाया मारिउ ?' त्ति ताए राया भणितो- अहो ! विनट्ठो सि । ताहे सो अग्गिकुमारेसु पजत्तो जातो । ताहे नगरस्स सव्वतो जोयणपरिमंडले जं किंचि तणं वा कट्टं वा तं साहरिडं दडुं सजणवयं नगरं । सोय पालओ अनेन सपुत्त-दारओ सह सुणएणं कुंभीए पक्को । पुरंदरजसा य मुनिसुव्वयतित्थयरपायमूले साहरिया सपरिसा ॥
अथ गाथात्रयस्याक्षरयोजना -श्रावस्त्यां पालको दौत्येनागतः । स च वादे स्कन्दकेन पराजितः । ततोऽसौ तस्योपरि कुपितः । इतश्च स्कन्दकस्य सुव्रतस्वामिपार्श्वे दीक्षा । अधीतसूत्रार्थस्य च तस्यान्यदा भगवतः समीपे पृच्छा-व्रजाम्यहं कुम्भकारकृतं नगरम् । भगवता तु 'सोपसर्गम्' इति भणित्वा निवारणा कृता, तथा 'त्वद्वर्जा सर्वेऽप्याराधकाः' इति च भणितम् । ततस्तं कुम्भकारकृतपुरमागच्छन्तं पालकेन श्रुत्वा यत्रोद्यानेऽसौ स्थितः तत्रायुधानां "नूमन "त्ति प्रच्छन्नं स्थापना । ततो नृपस्य कथना, यथा- एष परीषहपराजितस्त्वां मारयित्वा त्वदीयं राज्यमधिष्ठास्यतीत्यादि । ततो राज्ञः कोपोऽभवत्, भणितं च यत् ते रोचते तदमीषां कुरुष्वेति । ततस्तेन पुरुषयन्नत्रं कृत्वा पीडयितुमारब्धाः साधवः । स्कन्दकेनोक्तम् पूर्वं मां यन्त्रमध्ये प्रक्षिप । ततस्तेन पापात्मना स्कन्दकस्य स्तम्भे गाढतरं बन्धनम् । ततो निष्पीड्यमानसाधुसम्बन्धिनीभिः शोणितचिरक्काभिः सिक्तेन स्कन्दकेन निदानं कृतम् । भगिन्या च तस्य कम्बलरत्नदानं कृतमासीत्, तेन च रजोहरणं कृतम् । स्कन्दकस्य विपद्याग्निकुमारेषूपपातः । ततो रजोहरणं शोणितलिप्तं चिह्नमवलोक्य देव्याश्चिन्ता - नूनमपद्राविताः साधवः पापात्मनेति । ततः प्रभूतं राज्ञः पुरतः खेदनम् । ततः ‘सपरिषदः' सपरिवारायास्तस्या दीक्षादापनार्थं जिनसमीपे 'संहरणं' नयनम् । संवर्त्तकवातं विकुर्व्य सकलस्यापि पुरस्य 'दाहः' दहनम् । यत एवमादयो दोषास्ततो नानार्यक्षेत्रे विहर्त्तव्यम् । अथ “यत्र ज्ञान-दर्शन- चारित्राण्युत्सर्पन्ति तत्र विहर्त्तव्यम्” इति यदुक्तं तद्विषयमभिधित्सुः सम्प्रतिनृपतिध्ष्टान्तमाह
[भा. ३२७५ ] कोसंबाऽऽहारकते, अञ्जसुहत्थीण दमगपव्वज्जा । अव्वत्तेणं सामाइएण रन्नो घरे जातो ॥
वृ - कौशाम्ब्यामाहारकृते आर्यसुहस्तिनामन्तिके द्रमकेण प्रव्रज्या गृहीता । स तेनाऽव्यक्तेन सामायिकेन मृत्वा राज्ञो गृहे जात इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चेदम्-कोसंबीए नयरीए अज्जसुहत्थी समोसढा । तया य अंचितकालो। साधुजणो य हिंडमाणो फव्वति । तत्थ एगेन दमएण ते दिट्ठा। ताहे सो भत्तं जायति । तेहिं भणियं अम्हं आयरिया जाणंति । ताहे सो गतो आयरियसगासं । आयरिया उवउत्ता । तेहिं नायं-एस पवयणउवग्गहे वट्टिहिति । ताहे भणिओ-जति पव्वयसि तो दिजए भत्तं । सो भणइ-पव्वयामि त्ति । ताहे पव्वाइतो, सामाइयं कारिओ । तेन अतिसमुद्दिट्ठं, तओ कालगतो । तस्स अव्वत्तसामाइयस्स पभावेण कुणालकुमारस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org