________________
२६३
उद्देशक ः १, मूलं-५०, [भा. ३२७५] अंधस्स रन्नोपुत्तो जातो ॥को कुणालो? कहिं वा अंधो? त्ति-पाडलिपुत्ते असोगसिरी राया। तस्सपुत्तो कुणालो । तस्स कुमारभुत्तीए उज्जेनी दिन्ना ।सोय अट्ठवरिसो।रन्नालेहो विसज्जितोशीघ्रमधीयतां कुमारः । असंवत्तिए लेहे रन्नो उद्वितस्स माइसवत्तीए कतं-अन्धीयतां कुमारः । सयमेव तत्तसलागाए अच्छीणि अंजियाणि । सुतंरन्ना । गामो से दिन्नो । गंधव्वकलासिक्खणं। पुत्तस्स रज्जत्थी आगतो पाडलिपुत्तं।असोगसिरिणोजवनियंतरिओ गंधव्वं करेइ।आउट्टो राया भणइ-मग्गसुजं ते अभिरुइयं ति। तेण भनियं[भा.३२७६] चंदगुत्तपपुत्तोय,बिंदुसारस्स नत्तुओ।
असोगसिरिणो पुत्तो, अंधो जायति काकणिं ।। वृ-चन्द्रगुप्तस्य राज्ञःप्रपौत्रोबिन्दुसारस्य नृपतेः ‘नप्ता' पौत्रोऽशोकश्रियोनृपस्यपुत्रःकुणालनामा अन्धः 'काकणीं' राज्यं याचते ॥ तओ राइणा भणितो-किं ते अंधस्स रज्जेणं? । तेन भणियंपुत्तस्स मे कज्जंति । राइणा भणियं-कहिं ते पुत्तो? त्ति।तेन आनित्ता दाइओ-इमो मे संपइजाओ पुत्तो त्ति । तं चेव नामं कयं । तओ संवडिओ। दिनं रज्जं । तेन संपराइणा उज्जेनिं आई कार्ड दक्खिणावहो सव्वो तत्थ ट्ठिएणं ओअविओ। सव्वे पच्चंतरायाणो वसीकया । तओ सो विउलं रज्जसिरिं भुंजइ । किञ्च[भा.३२७७] अज्जहत्थाऽऽगमणं, दटुं सरणं च पुच्छणा कहणा।
पावयणम्मि य भत्ती, तो जाता संपतीरन्नो ।। वृ-जीवन्तस्वामिप्रतिमावन्दनार्थमुजयिन्यामार्यसुहस्तिन आगमनम् । तत्र च रथयात्रायां राजाङ्गणप्रदेशे रथपुरतः स्थितानार्यसुहस्तिगुरून् दृष्ट्वा नृपतेातिस्मरणम् । ततस्तत्र गत्वा गुरुपदकमलमभिवद्य पृच्छा कृता-भगवन् ! अव्यक्तस्य सामायिकस्य किं फलम् ? । सूरिराहराज्यादिकम् । ततोऽसौ सम्भ्रान्तः प्रगृहीताञ्जलिरानन्दोदकपूरपूरितनयनयुगः प्राह-भगवन् ! एवमेवेदम्, परमहं भवद्भि कुत्रापि दृष्टपूर्वो न वा ? इति । ततः सूरय उपयुज्य कथयन्तिमहाराज! दृष्टपूर्व, त्वंपूर्वभवेमदीयः शिष्य आसीदित्यादि । ततोऽसौ परमंसंवेगमापनस्तदन्तिके सम्यग्दर्शनमूंपञ्चाणुव्रतमयं श्रावकधर्मंप्रपन्नवान्।ततश्चैवंप्रवचनेसम्प्रतिराजस्य भक्ति सजाता।।
किञ्च
[भा.३२७८] जवमज्झ मुरियवंसे, दाने वणि-विवणि दारसंलोए।
तसजीवपडिक्कमओ, पभावओ समणसंघस्स ।। वृ-यथा यवो मध्यभागे पृथुल आदावन्ते च हीनः एवं मौर्यवंशोऽपि। तथाहि-चन्द्रगुप्तस्तावद् बल-वाहनादिविमूत्या हीन आसीत्, ततो बिन्दुसारो बृहत्तरः, ततोऽप्यशोकश्रीबृहत्तमः, ततः सम्प्रतिसर्वोत्कृष्टः, ततोभूयोऽपितथैव हानिवसातव्या, एवं यवमध्यकल्पः सम्प्रतिनृपतिरासीत्। तेन च राज्ञा ‘द्वारसंलोके' चतुर्वपि नगरद्वारेषु दानं प्रवर्तितम् । “वणि-विवणि"त्ति इह ये बृहत्तराआपणास्तेपणय इत्युच्यन्ते, येतुदरिद्रापणास्ते विपणयः; यद्वाये आपणस्थिता व्यवहरन्ति ते वणिजः, ये पुनरापणेन विनाऽप्यस्थिता वाणिज्यं कुर्वन्ति ते विवणिजः । एतेषु तेन राज्ञा साधूनां वस्त्रादिकं दापितम् । स च राजा वक्ष्यमाणनीत्या त्रसजीवप्रतिक्रामकः प्रभवकश्च श्रमणसङ्खस्यासीत् ॥ अथ “दाने वणि-विवणिदारसंलोए" इति भावयतिJain Education International
For Private & Personal Use Only
www.jainelibrary.org