________________
४३८
बृहत्कल्प-छेदसूत्रम् - २-३/९५
मू. (९१) निग्गंथीए अ गाहावइकुलं पिंडवायपडियाए अनुष्पविट्ठाए चेलट्ठे समुप्पजेजा, नो से कप्पइ अप्पणी नीसाए चेलं पडिग्गाहित्तए, कप्पइ से पवत्तिनिनीसाए चेलं पडिग्गाहित्तए । नो य से तत्थ पवत्तिनी सामाणा सिया जे से तत्थ सामाणे आयरिए वा उवज्झाए वा पवित्ती वा थेरे वागणी वा गणधरे वा गणावच्छेइए वा जं चऽन्नं कट्टु पुरतो विहरइ कप्पइ से तन्नीसाए चेलं पडिग्गाहित्तए ।
वृ- अथास्य सूत्रस्यकः सम्बन्धः ? इत्याह
[ भा. ४१४८] नियमा चसेचल इत्थी, चालिज्जति संजमा विना तेनं । उग्गहमादीचेलाण गेहणे तेन जोगोऽयं ॥
वृ- 'नियमाद्' अवस्यन्तया 'स्त्री' निर्ग्रन्थी सचेला भवति । यतः 'तेन' चेलेन विना सा संयमात् चाल्यते इत्यनन्तरसूत्रे उक्तम् । तेन कारणेनावग्रहानन्तकादीनां चेलानां ग्रहणे विधिरभिधीयते । अयं 'योगः' प्रकृतसूत्रस्य सम्बन्धः । अथवा
[भा. ४१४९]
चेलेहि विना दोसं, नाउं मातानि अप्पणा गेहो तत्थ वि तेच्चिय दोसा तव्वारणकारणा सुत्तं ॥
वृ- चेलैर्विना भिक्षामटन्त्या संयत्या महान् दोषो भवतीति ज्ञात्वा मा 'तानि' चेलान्यात्मना गृह्णीयात् । कुतः ? इत्याह- 'तत्रापि' आत्मना चेलग्रहणेऽपि त एव दोषा भवन्ति ये पूर्वं चेलस्याग्रहणे प्रोक्ताः । अतः 'तद्वारणकारणात्' स्वयग्रहणप्रतिषेधार्थमिदं सूत्रमारभ्यते ॥
इदमेव सोपपत्तिकमाह
[ भा. ४१५० ] सयगहणं पडिसेहति, चेलग्गहणं न सव्वसो तासिं । संडासतिरो वण्ही, न डहति कुरुए य किच्चाई ॥
वृ-स्वयग्रहणमत्र सूत्रे सूत्रकृत् प्रतिषेधयति, न पुनः सर्वथा 'तासां' संयतीनां चेलग्रहणम् । यतः सन्दंशकेन तिरोहितो वह्निर्गृह्यमाणो न दहति 'कृत्यानि च' धान्यपाकादीनि कार्याणि कुरुते; एवं संयतीनामपि साधुभिस्तिरोहितं चेलग्रहणं न दुष्यति, कार्यं च संयमपालनात्मकं करोति अत इदमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्ध्या गृहपतिकुलं पिण्डपातप्रतिज्ञया अनुप्रविष्टायाश्चैलेनार्थः-प्रयोजनं चेलार्थः स समुत्पद्येत । नो "से" तस्याः कल्पते आत्मनो निश्रया चेलं प्रतिग्रहीतुम्, किन्तु कल्पते “से” तस्याः प्रवर्तिनीनिश्रया चेलं प्रतिग्रहीतुम् । अथ न तत्र प्रवर्तिनी "सामाणा" सन्निहिता ततो यस्तत्राचार्यो वा उपाध्यायो वा प्रवर्त्ती वा स्थविरो वागणी वा गणधरओ वा गणावच्छेदको वा सन्निहितो भवेत् । 'गणी' गणाधिपतिराचार्यः, 'गणधरः ' संयतीपरिवर्तकः, शेषाः सर्वेऽपि प्रतीताः । एतेषां निश्रया यं वा 'अन्यं' गीतार्थं साधुं पुरतः कृत्वा विहरति तन्निश्रया कल्पते "से" तस्याश्चेलं प्रतिग्रहीतुमिति सूत्रसङ्क्षेपार्थः ।। अथ विस्तरार्थं भाष्यकारो बिभणिषुराह
[ भा. ४१५१] चेलट्ठे पुव्व भणिते, पडिसेहो कारणे जहा गहणं ।
नवरं पुन नाणत्तं, नीसागहणं न उ अनीसा ॥
वृ-चेलार्थः 'पूर्वः' प्रथमोद्देशके "निग्गंथिं च नं केइ वत्येण वा पाएण वा निमंतिज्जा" इत्यादिसूत्रे यथा भणितः, यथा च तत्र संयतीनां स्वयं वस्त्रग्रहणप्रतिषेधः, यथा च कारणे ग्रहणमुक्तं तथैवात्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org