SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं - ८४, [भा. ३८३५ ] ३७७ न कल्पते तर्हि मा कल्पताम्, यत्तु सलोमकं तत् तावत् सूत्रेणानुज्ञातम्, भवद्भिस्तु तदपि प्रतिषिद्धम् तदेतत् कथम् ? इति अत्रोच्यते [भा. ३८३६ ] सुत्तनिवाओ वुड्डे, गिलाण तद्दिवस भुत्त जतणाए । आगाढ गिलाणे मक्खणट्ठ, घट्टे भिन्ने व अरिसाउ || वृ-सूत्रनिपातो वृद्धे ग्लाने वा भवति, वृद्धस्य ग्लानस्य वा परुषस्पर्शमसहिष्णोरास्तरणार्थं सलोम चर्म ग्राह्यमिति भावः । तच्च 'तद्दिवसभुक्तं' कुम्भकारादिभिस्तस्मिन्नेव दिवसे परिभुक्तम्, तत्र हि त्रसादयः प्राणिनो न भवन्ति, तच्च गृहीत्वा 'यतनया' रोमाण्युपरि कृत्वा परिभोक्तव्यम् । आगाढे च ग्लानत्वे यत् तैलेन प्रक्षणं तदर्थम्, यस्य वा गुदादिपाश्र्वाणि घृष्टानि, यो वा साधुर्भिन्नकुष्ठी, यस्य वा अर्शासि समुद्भूतानि तदर्थं वा निर्लोम चर्म ग्रहीतव्यमिति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवृणोति [भा. ३८३७] संथारट्ट गिलाणे, अमिलादीचम्म घेप्पति सलोमं । वुड्डा-ऽसहु-बालाण व, अच्छुरणट्ठा वि एमेव ॥ वृ- ग्लानस्य संस्तारकार्थममिलादिसम्बन्धि सलोम चर्म गृह्यते । वृद्धा-सहिष्णु-बालानामप्यास्तरणार्थम् ‘एवमेव' सलोम चर्म ग्राह्यम् ॥ तच्च की शम् ? इत्याह [भा. ३८३८] कुम्भार- लोहकारेहि दिवसमलियं तु तं तसविहूणं । उवरिं लोमे काउं, सोत्तुं गोसे समप्येति ॥ वृ- कुम्भकार-लोहकारादिभि स्वस्वकर्म कुर्वाणैर्यद् दिवसतो 'मलितं' परिभुक्तं तत् त्रसविहीनं भवति । अतः सन्ध्यासमये तेषु उत्थितेषु तत् प्रातिहारिकं गृहीत्वा लोमान्युपरि कृत्वा रात्रौ तत्र सुप्तवा 'गोसे' प्रभाते प्रत्यर्पयन्ति ॥ [भा. ३८३९] अवताणगादि निल्लोम तेल्ल वम्मट्ठ घेप्पती चम्मं । घट्ठा व जस्स पासा, गलंतकोढेऽरिसासुं वा ॥ वृ- अवयाणादितैलेन वा ग्लानस्याभ्यङ्गे विधातव्ये निर्लोम चर्म ग्रहीतव्यम् । अध्वानादौ वा वर्मार्थम्, यस्य वा पार्श्वाणि घृष्टानि तस्यास्तरणार्थम्, यो वा गलत्कुष्ठः साधुस्तस्य परिधानार्थमास्तरणार्थं वा, अर्शांसि वा यस्य समुत्पन्नानि तस्योपवेशनार्थं निर्लोम चर्म गृह्यते ॥ [ भा. ३८४०] सोणिय-पूयालित्ते, दुक्खं धुवणा दिने दिने चीरे । कच्छुल्ले किडिभिल्ले, छप्पतिगिल्ले व निल्लोमं ॥ वृ- शोणितेन पूयेन वा आलिप्तस्य चीवरस्य दिने दिने धावना दुष्करा, अतः कच्छूवतः किटिभवतश्च निर्लोम चर्म कल्पते । कच्छूः-पामा, किटिभं शरीरैकदेशभावी कुष्ठभेदः । तथा यस्य षट्पदिकाः प्राचुर्येण सम्मूर्च्छन्ति स षट्पदिकावान् निर्लोमचर्मपरिधानं गृह्णाति ॥ [ भा. ३८४१] जह कारणे निल्लोमं, तु कप्पती तह भवेज इयरं पि । आगाढि सलोम आदिकाउ जा पोत्थए गहणं || वृ-यथा कारणे निर्लोम चर्म कल्पते तथा 'इतरदपि' शुषिरमपि ग्रहीतुं कल्पते । किं बहुना ? आगाढे कारणे सलोम चर्म आदौ कत्वा पश्चानुपूर्व्या तावद् नेतव्यं यावत् पुस्तकस्यापि ग्रहणं कर्त्तव्यम् ॥ एतदेव स्पष्टयति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003323
Book TitleAgam Suttani Satikam Part 19 Bruhat kalpa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages516
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy