________________
उद्देशक ः १, मूलं-४९, [भा. ३२३७]
२५३
[भा.३२३७] पडिवत्तिकुसल अज्जा, सज्झायज्झाणकारणुज्जुत्ता।
मोतूण अब्भरहितं, अजाण न कप्पती गंतुं॥ वृ-प्रतिपत्ति-उत्तरप्रदानं तत्र कुशला-निपुणा या काचिदार्या सा तस्याः सहाया समर्पणीया। तथायासा आगाढयोगं प्रतिपन्ना सा स्वाध्यायस्य यद्ध्यानम्-एकाग्रतया करणंतत्रेशे कारणे उद्युक्ता भवेत्। “मोत्तूणअब्मरहियं"ति येषुकुलेषु यथाभद्रकादिषुसंयतीनामागमनम् अभ्यर्हित' गौरवाहँ तानि मुक्त्वाऽन्यत्र कुले आर्यिकाणां न कल्पते गन्तुम् ।। एवंविधे कुले गत्वा स्वाध्यायं कुर्वतीनां यद्यसौ गृहपति प्रश्नयेत्-किमर्थं भवत्य इहागताः? ततः प्रतिपत्तिकुशलया वक्तव्यम्[भा.३२३८]सज्झाइयं नत्थि उवस्सएऽम्हं, आगाढजोगंच इमा पवण्णा।
तरेण सोहद्दमिदं च तुब्भं, संभावणिजातो न अन्नहा ते ।। वृ-हे श्रावक ! योऽयमस्माकमुपाश्रयः तत्र स्वाध्यायिकं नास्ति । इयं च संयती आगाढयोगं प्रतिपन्ना वर्तते । “तरेण"त्ति शय्यातरेण सह युष्माकम् ‘इदम्' ईशं सकलजनप्रतीतं सौहार्द तद् मत्वा वयमत्र समागताः । अतो नान्यथा त्वया वयं सम्भावनीयाः॥अपि च[भा.३२३९]खुद्दो जनो नत्थि न याविदूरे, पच्छण्णभूमी य इहं पकामा।
तुब्भेहि लोएणय चित्तमेतं, सज्झाय-सीलेसुजहोज्जमो ने॥ वृ- 'क्षुद्रो जनः' दुर्जनलोक इह नास्ति, न चेदं युष्मद्धहं 'दूरे' अस्मप्रतिश्रयाद् दूरवर्ति, प्रच्छन्नभूमिश्च ‘इह' युष्मद्गृहे 'प्रकामा विस्तृता, अतोऽत्रास्माकंस्वाध्यायो निव्यार्घातं निर्वहति। किश्च युष्माकंलोकस्यच 'चित्तं' प्रतीतमेतत, यथा-"ने"अस्माकं स्वाध्याय-शीलयोर्गाढतरः 'उद्यमः' प्रयत्नो भवति ॥
मू. (५०) कप्पइनिग्गंधाण वा निग्गंथीण वा पुरस्थिमेणंजावअंग-मगहाओएतए, दक्खिणेणं जाव कोसंबीओ, पञ्चत्थिमेणं जाव थूणाविसयाओ, उत्तरेणं जाव कुणालाविसयाओ एत्तए। एताव ताव कप्पइ । एताव ताव आरिए खेते । नो से कप्पइ एत्तो बाहिं । तेन परं जत्थ नाणदंसण-चरित्ताई उस्सप्पंति त्ति बेमि ॥
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.३२४०] इति काले पडिसेहो, परूवितो अह इदानि खेत्तम्मि।
चउदिसि समणुन्नायं, मोत्तूण परेण पडिसेहो। वृ-'इति' अमुना प्रकारेण रात्रिलक्षणो यः कालस्तद्विषयः प्रतिषेधः पूर्वसूत्रेप्ररूपितः, अथ' अन्तरमिदानी क्षेत्रविषयःप्ररूप्यते । कथम् ? इत्याह-चतसृषु दिक्षुयावत् क्षेत्रमत्रसूत्रे समनुज्ञातं तावद् मुक्त्वा ‘परेण' बहि-क्षेत्रेषु विहारस्य प्रतिषेधो मन्तव्यः । किञ्च[भा.३२४१] हेट्ठा वि य पडिसेहो, दव्वादी दव्वे आदिसुत्तं तु।
घडिमत्त चिलिमिणीए, वत्थादी चेव चत्तारि ॥ [भा.३२४२] वगडा रच्छा दगतीरगं च विह चरमगंच खित्तम्मि। .
सारिय पाहुड भावे, सेसा काले य भावे य॥ : वृ.अधस्तनसूत्रेष्वपि 'द्रव्यादि' द्रव्य-क्षेत्र-काल-भावविषयः प्रतिषेधो मन्तव्यः । तत्र द्रव्यप्रतिषेधपरम् ‘आदिसूत्र' प्रलम्बप्रकृतमित्यर्थः तथा घटीमात्रसूत्रं चिलिमिलिकासूत्रं च ।
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only