________________
२५४
बृहत्कल्प-छेदसूत्रम् -२-१/५० वस्त्रादिप्रतिषेधकानि च चत्वारि सूत्राणि-एकंतावत् "निग्गंथं चणंगाहावइकुलं० अनुप्पविलु केइवत्थेण वा पाएण वा०" इत्यादिलक्षणम्, द्वितीयमिदमेव “बहिया वियारभूमिं वा विहारभूमि वा०" इति विशेषितम्, तृतीय-चतुर्थे त्वेवमेव निर्ग्रन्थीविषये, एतान्यपि द्रव्यप्रतिषेधपराणि । तथा वगडासूत्रं रथ्यामुखाऽऽपणगृहादिसूत्रं दकतीरसूत्रं 'विहं' अध्वा तद्विषयं सूत्रं एतदेव च प्रस्तुतं चरमसूत्रं एतानि क्षेत्रप्रतिषेधपराणि । तथा यान्योघतो विभागतश्च सागारिकसूत्राणि यच्च ‘प्राभृतम्' अधिकरणं तद्विषयं सूत्रं एतानि भावप्रतिषेधपराणि । 'शेषाणि तु' मासकल्पप्रकृतप्रभृतीनि सर्वाण्यपि सूत्राणि 'काले च भावे च उभयोरपि प्रतिषेधकानि भवन्ति । [भा.३२४३] अहवण सुत्ते सुत्ते, दव्वादीणं चउण्हमोआरो।
सोय अधीनो वत्तरि, सोतरिय अतो अनियमोऽयं ॥ वृ- अथवा न पृथग् द्रव्यादिविषयाणि सूत्राणि, किन्तु सूत्रे सूत्रे 'चतुर्णा' द्रव्य-क्षेत्रकालभावानामवतारः प्रदर्शयितव्यः । 'सच' अवतारो वक्तरि श्रोतरि च 'अधीनः' आयत्तः, यदि वक्ता तथाविधप्रतिपादनशक्तिसमन्वितः श्रोताच ग्रहण-धारणालब्धिसम्पन्नः तदा भवति सूत्रे सूत्रे चतुर्णा द्रव्यादीनामवतारः, अन्यदातुनेति भावः । अतो नायं नियमो यदवश्यं प्रतिसूत्रं द्रव्यादिचतुष्टयमवतारणीयमिति॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनांवा पूर्वस्यां दिशियावदङ्ग-मगधान् ‘एतुं' विहर्तुम्।अङ्गा नाम-चम्पाप्रतिबद्धोजनपदः। मगधा-राजगृहप्रतिबद्धोदेशः । दक्षिणस्यांदिशियावत् कौशाम्बीमेतुम्।प्रतीच्यां दिशिस्थूणाविषयं यावदेतुम् । उत्तरस्यां दिशि कुणालाविषयं यावदेतुम् । सूत्रे पूर्व-दक्षिणादिपदेभ्यस्तृतीयानिर्देशो लिङ्गव्यत्ययश्च प्राकृतत्वात् । एतावत् तावत् क्षेत्रमवधीकृत्य विहर्तुं कल्पते । कुतः ? इत्याहएतावत्तावद्यस्मादाय क्षेत्रम्। नो "से" तस्य निर्ग्रन्थस्य निर्ग्रन्थ्यावाकल्पते ‘अतः' एवंविधात् आर्यक्षेत्राबहिर्विहर्तुम् । ततः परं' बहिर्देशेषु अपि सम्प्रतिनृपतिकालादारभ्य यत्र ज्ञान-दर्शनचारित्राणि ‘उत्सर्पन्ति' स्फातिमासादयन्ति तत्र विहर्त्तव्यम् । ‘इति' परिसमाप्तौ । ब्रवीमि इति तीर्थकर-गणधरोपदेशेन, न तु स्वमनीषिकयेति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः[भा.३२४४] जो एतं न विजाणइ, पढमुद्देसस्स अंतिमं सुत्तं ।
अहवण सव्वऽज्झयणं, तत्थ उ नायं इमं होइ॥ वृ- 'यः' आचार्य 'एतत्' प्रस्तुतं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानाति, अथवा सर्वमपीदं कल्पाध्ययनं यो न जानाति, 'तत्र' आचार्येतद्विषयमित्यर्थः 'इदं वक्ष्यमाणं 'ज्ञातम्' उदाहरणं भवति ॥आह किमर्थं प्रथमोद्देशकस्यान्त्यं सूत्रं न जानातीत्युक्तम् ? उच्यते[भा.३२४५] उज्जालितो पदीवो, चाउस्सालस्समज्झयारम्मि।
पमुहे वातं सव्वं, चाउस्सालं पगासेति॥ वृ-'चतुःशालस्य गृहस्य मध्यारे' मध्यभागे 'प्रमुखेवा' प्रवेश-निर्गममुखे प्रदीप उज्ज्वालितः सन् ‘तत्' चतुःशालं सर्वमपि प्रकाशयति; एवमत्रापि सकलाध्ययनमध्यवर्तिनि प्रस्तुतसूत्रे यदिदं प्रथमोद्देशकस्यान्त्यसूत्रं न जानातीत्युक्तं तद् मध्यदीपकमवगन्तव्यम् । यद्वा यस्मादत्र प्रथमोद्देशके समासतः सर्वाऽपि सामाचारी समर्थिता ततश्चतुःशालप्रमुखोज्वालितप्रदीप इवेदमन्त्यदीपकमवसात्यम् । ततश्चेदमुक्तं भवति ?-य एतत् कल्पाध्ययनं प्रथमोद्देशकं वा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org