________________
उद्देशक ः २, मूलं-६२, [भा. ३५१३]
३११ -'गुल्मैः' नवमालिका-कोरिण्टकादिभिगुप्ते, वृत्या वा 'तुङ्गया' उच्चैस्तरया परिक्षिप्ते, एकद्वारे आरामगृहे अधोऽगुप्तेऽप्युपरि 'छादिते' स्थगिते तिष्ठन्ति, परं यत्र ‘बहुः' भूयान् लोको न 'सन्निलीयते' न समायाति॥ [भा.३५१४] जं वंसिमूलऽन्नमुहं च तेनं, पिहढुवारं न तओ उ छिंडी।
सुणेति सदं न परोप्परस्स, न काइयं नेव य दिहिवातो॥ वृ-यद् ‘वंशीमूलम्' अलिन्दकादि तेन' मूलगृहेन सहान्यतोमुखं पृथग्द्वारंच, अत एव ततः' तदभिमुखा छिण्डिका न भवति, यत्र च परस्परं संयता अविरतिकाश्च शब्दं न शृण्वन्ति, न
चैकत्र कायिकी कुर्वते, नैव च परस्परं दृष्टिपातः, केवलं मूलगृहेण सह द्रव्यतः प्रतिबद्धम्, न चाकाययोजनादयो दोषाः, एवंविधे कल्पते वस्तुम् ॥ [भा.३५१५] असई य रुक्खमूले, जो दोसा तेहि वज्जिए ठंति ।
अद्धाणमब्भवासे, गेलनागाढ वइगादी॥ एतेषामागमनगृहादीनामभावे ग्रे पूर्वमस्थि-दारुकादयो दोषा उक्तास्तैर्वर्जिते वृक्षमूले तिष्ठन्ति। तथा अध्वानं प्रतिपन्ना अपरप्रतिश्रयाभावे आगाढे वा ग्लानत्वे व्रजिकादौ सम्प्राप्ता अभ्रावकाशे वसन्ति ।। अथ वृक्षमूले तिष्ठतां विशेषमुपदर्शयति[भा.३५१६]कडं कुणंतेऽसति मंडवस्सा, कडाऽसती पोत्तिमतेनगम्मि। ..
सद्दोवओगो धनुतासणा य, सोट्टादि पाडिंति य पुव्वलग्गे॥ ख-यत्र वृक्षमूलेऽधस्ताद् मण्डपो भवति तत्र प्रथमतः स्थातव्यम् । तदभावे कटं कुर्वन्ति, कटचिलिमिलिकां ददतीति भावः । अथ कटोन प्राप्यते ततः पोतं-वस्त्रं तैश्चिलिमिलिकाः कुर्वन्ति यदि 'अस्तेनकं' स्तेनभयं न स्यात् । अथ स्तेनभयं तत्र वर्तते सागारिका वा ब्रुवते 'श्रमणकाः पटमण्डपं कुर्वन्ति' ततः शब्दः कर्तव्यः, पक्षिणां 'छिछिका इत्यादिनाशब्देन निवारणं कार्यमिति भावः । उपयोगोवा दातव्यः । धनुषा वा पाषाणैर्वा पक्षिणां त्रासनां कुर्वन्ति, भयमुपजनयन्तीत्यर्थः। सोट्टा नाम-शुष्ककाष्ठानि तानि आदिशब्दाद् लेष्टुकादानि च पूर्वलग्नानिपातयन्ति । एषा वृक्षमूले तिष्ठतां यतना भणिता । अथाभावकाशे तिष्ठतां प्रतिपाद्यते-आगाढे ग्लानत्वे दुग्धादिना प्रयोजनं भवेत् तत्राभ्रावकाशे वसनं सम्भवेत् ।। कथम् ? इत्याह[भा.३५१७] विसोहिकोडिं हवइत्तु गामे, चिरं व कजं ति वयंति घोसं।
अब्भासगामाऽसति तत्थ गंतुं, पडालि-रुक्खाऽसतिए अछन्ने । वृ- यदा स्वग्रामे शुद्धं दुग्धादि न प्राप्यते तदा स्वग्राम एव ये विशोधिकोटिदोषास्तान् पञ्चकादिप्रायश्चित्तक्रमेण हापयित्वा दुग्धादिकं गृह्णन्ति । अथ तथापि न लभ्यते 'चिरं वा' प्रभूतदिवसान् तेन ग्लानस्य कार्यमिति कृत्वा ‘घोषं' गोकुलं व्रजन्ति । कथम् ? इत्याह-'अभ्यासे' गोकुलप्रत्यासन्ने ग्रामे स्थित्वा गोकुलाद् दुग्धादिकमानेतव्यम् । अथ नास्ति प्रत्यासन्नग्रामस्ततः 'तत्र' जिकायां गत्वा पटालिकायां तिष्ठन्ति । तस्या अभावे वृक्षमूले । तस्याप्यभावेऽच्छन्नेऽभ्रावकाशेऽपि तिष्ठन्ति ।।
मू. (६३) एगे सागारिए पारिहारिए, दो तिन्नि चत्तारि पंच सागारिया पारिहारिया, एगं तत्थ कप्पागं ठवयित्ता अवसेसे निव्विसेज्जा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org