________________
३१२
बृहत्कल्प-छेदसूत्रम् -२-२/६३
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह[भा.३५१८] जहुत्तदोसेहिं विवज्जिया जे, उवस्सगा तेसु जती वसंता । एगं अनेगे व अनुन्नवित्ता, वसंति सामिं अह सुत्तजोगो ॥ वृ-यथोक्तैः - बीज- विकटादिभिरभ्रावकाशतापर्यन्तैर्दोषैर्विवर्जिताः ये उपाश्रयास्तेषु यतयो वसन्त एकं वा अनेकान् वा गृहस्वामिनोऽनुज्ञाप्य वसन्तीत्यनेन सूत्रेण प्रतिपाद्यते । 'अथ' अयं पूर्वसूत्रैः सहास्य सूत्रस्य योग-सम्बन्धः ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- एकः 'सागारिकः' वसतिस्वामी परिहारं-परित्यागमर्हतीति व्युत्पत्त्या 'पारिहारिकः' भिक्षाग्रहणे परिहर्त्तव्य इत्यर्थः । यथा चैकः सागारिकः पारिहारिकः तथा द्वौ त्रयश्चत्वारः पञ् सागारिकाः पारिहारिकाः, न तेषां बहूनामपि गृहेषु प्रवेष्टव्यमिति भावः । अथ सूत्रेणैव सूत्रमपवदति -"एगं तत्थ कप्पागं" इत्यादि । बहुजनसाधारणे देवकुलादौ स्थिताः 'तत्र' तेषु बहुषु सागारिकेषु मध्ये येन सागारिकतया स्थापितेन शेषगृहेषु प्रवेष्टुं कल्पते तमेकं कल्पकं स्थापयित्वा शेषेषु सागारिककुलेषु 'निर्विशेयुः' प्रविशेयुरिति सूत्रसङ्क्षेपार्थः । विस्तरार्थं भाष्यकृद् बिभणिषुराह
[ भा. ३५१९] सागारिउ को पुन, काहे वा कतिविहो व से पिंडो । असिज्जायरो व काहे, परिहरियव्वो व सो कस्सा ॥
[ भा. ३५२०] दोसा वा के तस्सा, कारणजाए व कप्पती कम्मि । जया वा काए, एगमनेगेसु घेत्तव्वो ।
वृ- सागारिक इति पदमेकार्थिकनामभि प्ररूपणीयम् । कः पुनः सागारिको भवति ? इति चिन्तनीयम् । कदा वा स शय्यातरो भवति ? । कतिविधो वा “से” तस्य पिण्डः ? । अशय्यातरो वा कदा भवति ? । कस्य वा संयतस्य सम्बन्धी 'सः' सागारिकः परिहर्त्तव्यः ? । के वा 'तस्य' सागारिकपिण्डस्य ग्रहणे दोषाः ? । कस्मिन् वा कारणजातेऽसौ कल्पते ? । कया वा यतनया सपिण्ड एकस्मिन् वा सागारिके 'अनेकेषु वा' द्विष्यादिषु सागारिकेषु ग्रहीतव्यः ? इति द्वारगाथाद्वयसमासार्थः ॥ अथ व्यासार्थं प्रतिद्वारमभिधित्सुराह
[भा. ३५२१]
सागारियस नामा, एगट्ठा नाणवंजणा पंच |
सागारिय सेजायर, दाता य तरे घरे चेव ॥
वृ-सागारिकस्य नामानि शक्रेन्द्र- पुरन्दरादिवदेकार्थानि 'नानाव्यञ्जनानि' पृथगक्षराणि पञ्च भवन्ति । तद्यथा-सागारिकः १ शय्याकरः २ शय्यादाता ३ शय्यातरः ४ शय्याधरः ५ चेति । अथैतेषामेव व्याख्यानमाह[भा. ३५२२]
अगमकरणादगारं, तस्सहजोगेन होइ सागारी ।
सेज्जाकरणे सेज्जाकरो उ दाता तु तद्दाना ॥ [भा. ३५२३] गोवाइऊण वसहिं, तत्थ वि ते यावि रक्खिउं तरह । तद्दानेन भवोघं, च तरति सेज्जातरो तम्हा ॥ जहा धारइ सिजं, पडमाणिं छज्ज-लेपमाईहिं । जं वा तीए धरेती, नरगा आयं धरो तम्हा ॥
[भा. ३५२४]
वृ- न गच्छन्तीत्यगमाः-वृक्षास्तैः कृतमगारम्, पृषोदरादित्वादिष्टरुपनिष्पत्ति, तेन - अगारेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org