________________
उद्देशक : १, मूलं-१०, [भा. २१३९]
२१ शिष्टे सति करिष्यथ वा न वा 'एनम्' अस्मदभिप्रेतमर्थमिति वयं न विद्मः । कुतः ? इत्याह'क्षौद्रमुखाः' मधुमुखा मधुरभाषिण इत्यर्थः सन्ति' विद्यन्ते 'इह' अस्मिन् गच्छे भवतां वल्लभेश्वराः ये जिनवाचमपि 'कोपयेयुः' अन्यथा कुर्यु, आस्तां तावदस्मदादिवचनमित्यपिशब्दार्थः ॥ [भा.२१४०] इइ सपरिहास निब्बंधपुच्छिओ बेइ तत्थ समणीओ।
बलियपरिग्गहियाओ, होह दढा तत्थ वच्चामो॥ वृ-'इति' एवं सपरिहां तेनोक्ते आचार्यै स महता निर्बन्धेन पृष्टः-कथम भद्र ! कीशस्तत्र दोषो विद्यते? ततः स ब्रवीति-तत्र श्रमण्यो बलिना-बलवता आचार्यादिना परिगृहीता विद्यन्ते, परंतथापि यूयं दृढा भवत' मा कामपि शङ्का कुरुध्वम्, अत्रार्थे सर्वमप्यहं भलिष्यामि, अतस्तत्र व्रजामो वयम् । एवं भणतः प्रायश्चित्तमाह[भा.२१४१] भिक्खू साहइ सोउं, भणइ जइ वच्चिमो तहिं मासो।
लहुगा गुरुगा वसभे, गणिस्स एमेवुवेहाए। वृ-यदि भिक्षुरनन्तरोक्तं वचनं कथयति श्रुत्वा वा यदि भिक्षुरेव भणति बाढम्, व्रजामनत्र वयम्' ततोमासलघु प्रायश्चित्तम्।अथ 'वृषभः' उपाध्याय एवं ब्रवीतिप्रतिशृणोति वा ततस्तस्य चत्वारोलघवः । गणिनः' आचार्यस्येत्थंभणतःप्रतिश्रण्वतोवाचत्वारोगुरवः । एवमेवोपेक्षायामपि द्रष्टव्यम् । किमुक्तं भवति ? -इत्थं तेनोक्ते 'व्रजामो वयम्' इतिवा प्रतिश्रुते यदि भिक्षुरुपेक्षा करोतितदातस्य लघुमासिकम्, वृषभस्योपेक्षमाणस्य चतुर्लघु,आचार्यस्योपेक्षांकुर्वाणस्य चतुर्गुरु।।
अथवा[भा.२१४२] सामथण परिवच्छ, गहणे पयभेद पंथ सीमाए।
. गामे वसहिपवेसे, मासादी भिक्खुणो मूलं ॥ वृ-भिक्षु 'तत्र गन्तव्यम् ? न वा ?' इति “सामथणं' देशीशब्दत्वात् पर्यालचनं करोति मासलघु। “परिवच्छित्ति देशीशब्दोऽयं निर्णयार्थे वर्तते, ततो गन्तव्यमेव तत्र' इति निर्णय करोतिमासगुरु । “गहणे"त्ति निर्णीय यधुपधिं गृह्णाति ततश्चतुर्लघु।पदभेदं कुर्वतश्चतुर्गुरुकम्। पथि व्रजतः षड्लघुकम् । ग्रामसीमायां प्राप्तस्य षड्गुरुकम् । ग्रामं प्राप्तस्य च्छेदः । वसतौ प्रवेशं कुर्वतो मूलम् । एवं भिक्षोलघुमासादारभ्य मूलं यावत् प्रायश्चित्तमुक्तम् ॥ [भा.२१४३] गणि आयरिए सपदं, अहवा वि विसेसिया भवे गुरुगा।
भिक्खूमाइचउण्हं, जइ पुच्छसि तो सुणसु दोसे ॥ वृ. गणिनः' उपाध्यायस्य मासगुरुकादारभ्य स्वपदमनवस्थाप्यं यावत्, आचार्यस्य तु चतुर्लघुकादारभ्य स्वपदं पाराञ्चिकं यावत् प्रायश्चित्त ज्ञेयम् । अथवा भिक्षु-वृषभो-पाध्यायाऽऽचार्याणां चतुर्णामपितपः-कालविशेषिताश्चतुर्गुरुकाः । तद्यथा-भिक्षोभ्यामपिलघवः तपसा कालेन च, वृषभस्य कालेन गुरवस्तपसा लघवः, उपाध्यायस्य तपसा गुरवः कालेन लघवः, आचार्यस्य तपसा कालेन च द्वाभ्यामपि गुरवः । अथ के पुनस्तत्र तिष्ठतां दोषाः ? इति यदि पृच्छसि ततः शृणु' निशमय दोषान् मयाऽभिधीयमानान् ॥ तानेवाभिधित्सुराह[भा.२१४४] अन्नतरस्स निओगा, सव्वेसि अनुप्पिएण वा तेतु।
देउल सभ सुन्ने वा, निओयपमुहे ठिया गंतुं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org