________________
२२
बृहत्कल्प-छेदसूत्रम् -२-१/१० वृ-'अन्यतरस्य' भिक्षु-वृषभादेर्नियोगात् ‘सर्वेषां वा' साधूनाम् ‘अनुप्रियेण' अनुमत्या 'ते' आचार्यास्तत्र गत्वादेवकुल वासभायां वा शून्यगृहे वानियोगस्य-ग्रामस्य मुखे-प्रवेश एव स्थिताः ततो निर्ग्रन्थानां निर्ग्रन्थीनां चोभयेषामपि परस्परदर्शनेन बहवो दोषा भवन्ति ।
अत्र चाग्निदृष्टान्तं सूरयो वर्णयन्ति[भा.२१४५] दुविहो य होइ अग्गी, दव्वग्गी चेव तह य भावग्गी ।
दव्वग्गिम्मि अगारी, पुरिसो व घरं पलीवेंतो।। वृ-द्विविधश्च भवत्यग्नि, तद्यथा-द्रव्याग्निश्चैवतथाचभावाग्निद्रव्याग्नौ चिन्त्यमाने 'अगारी' अविरतिका पुरुषो वा गृहं प्रदीपयन् यथा सर्वस्वं दहति, एवं साध्वी वा साधुर्वा स्वजीवगृहं मदनभावाग्निना प्रदीपयन् चारित्रसर्वस्वं दहतीति नियुक्तिगाथासङ्केपार्थः ।।
अथविस्तरार्थमभिधित्सुर्द्रव्याग्निमाह[भा.२१४६] तत्थ पुन होइ दव्वे, डहणादीनेगलक्खणो अग्गी ।
नामोदयपञ्चइयं, दिप्पइ देहं समासज्ज ।। वृ. 'तत्र' तयोर्द्रव्याग्नि-भावाग्न्योर्मध्ये द्रव्याग्नि पुनरयं भवति-यः खलु ‘दहनाद्यनेकलक्षणोऽग्नि दहनं-भस्मीकरणं तल्लक्षणः, आदिशब्दाद् पचन-प्रकाशनपरिग्रहः, 'देहम्' इन्धनं काष्ठिदिकं समासाद्य प्राप्य 'नामोदयप्रत्ययम्' उष्णस्पर्शादिनामकर्मोदयाद्दीप्यतेसद्रव्याग्निरुच्यते॥ किमर्थं पुनरयं द्रव्याग्नि? इति चेद् अत आह[भा.२१४७] दव्वाइसन्निकरिसा, उप्पन्नो तानि चेव डहमाणो ।
दव्वग्गि त्ति पवुच्चइ, आदिमभावाइजुत्तो वि॥ वृ-द्रव्यम्-ऊर्ध्वाधोव्यवस्थिते अरणिकाष्ठे तस्यआदिशब्दात् पुरुषप्रयत्नादेश्चयः सन्निकर्षसमायोगस्तस्माद् उत्पन्नः ‘तान्येव' काष्ठादीनिद्रव्याणि दहन् यद्यपिआदिमेन-औदयिकलक्षणेन भावेन अग्निनामकर्मोदयेनेत्यर्थः, आदिशब्दात् पारिणामिकादिभावेन च युक्तो वर्तते तथापि •द्रव्याग्निप्रोच्यते, 'द्रव्यादुत्पन्नो द्रव्याणांवा दाहकोऽग्निद्रव्याग्नि' इति व्युत्पत्तिसमाश्रयणात्।। स पुनः कथं दीप्यते? इत्याह[भा.२१४८] सो पुन इंधनमासज्ज दिप्पती सीदती य तदभावा ।
नाणत्तं पि य लभए, इंधन-परिमाणतो चेव ।। तृ-'सपुनः' द्रव्याग्नि इन्धनं' तृण-काष्ठादिकमासाद्यदीप्यते सीदतिच' विनश्यति तदभावाद्' इन्धनाभावात् । 'नानात्वं' विशेषस्तदपि च लभते इन्धनतः परिमामतश्च । तत्रेन्धनतो यथातृणाग्नि तुषाग्नि काष्ठाग्निरित्यादि । परिमाणतो यथा-महति तृणादाविन्धने महान् भवति, अल्पे चेन्धने स्वल्प इति ॥ उक्तो द्रव्याग्नि। अथ भावाग्नि व्याचष्टे[भा.२१४९] भावम्मि होइ वेदो, दत्तो तिविहो नपुंसगादीओ।
जइ तासि तयं अत्थी, किं पुन तासिं तयं नत्थी॥ वृ-'भावे' भावाग्निर्वेदाख्य इत ऊर्ध्वं वक्तव्यो भवति । स च वेदस्त्रिविधो नपुंसकादिको ज्ञातव्यः । अत्र परः प्राह-यदि ‘तासां' संयतीनां 'तकत्' स्त्रीवेदादिरूपं मोहनीयं स्यात् तर्हि युष्मदुक्तोऽग्निदृष्टान्तोऽपि सफलः स्यात् 'किं पुनः' परंतासां ‘तकत्' मोहनीयं नास्ति, अतः For Private & Personal Use Only
www.jainelibrary.org
Jain Education International