________________
उद्देशक : १, मूलं- १०, [भा. २१४९]
कुतस्तासां भावाग्नेः सम्भवो भवेत् ? इति भावः । एतदुत्तरत्र भावयिष्यते ॥ अथानन्तरोक्तमेव भवाग्निस्वरूपं स्पष्टयति
[भा. २१५० ]
उदयं पत्तो वेदो, भावग्गी होइ तदुवओगेणं । भावो चरित्तमादी, तं डहई तेन भावग्गी ॥
२३
वृ- ‘वेदः' स्त्रीवेदादिरूदयं प्राप्तः सन् तस्य स्त्रीवेदादेः सम्बन्धी य उपयोगः-पुरुषाभिलाषादिलक्षणस्तेन हेतुभूतेन भावाग्निर्भवति । कुतः ? इत्याह-भावश्चारित्रादिकः परिणामः 'तं' भावं येन कारणेन दहति तेन भावाग्निरुच्यते, 'भावस्य दाहकोऽग्निर्भावाग्नि' इत व्युत्पत्तेः ।। कथं पुनर्दहति ? इति चेद् उच्यते
[भा. २१५१] जह वा सहीनरयणे, भवने कासइ पमाय-दप्पेणं । डज्झति समादित्ते, अनिच्छमाणस्स वि वसूनि ।। इय संदंसण-संभासणेहि संदीविओ मयमवण्ही । भादीगुणरयणे, डहइ अनिच्छस्स वि पमाया ।।
[भा. २१५२]
वृ-यथा वा 'स्वानरत्ने' पद्मरागादिबहुरत्नकलिते भवने प्रमादेन दर्पेण वा 'समादीप्ते ' प्रज्वालिते सति 'कस्यचिद्' इभ्यादेरनिच्छतोऽपि 'वसूनि' रत्नानि दह्यन्ते, “इय” एवं सन्दर्शनम् - अवलोकनं सम्भाषणं-मिथः कथा ताभ्यां 'सन्दीपितः' प्रज्वालितो मदनवह्निरनिच्छतोऽपि साधुसाद्वीजनस्य ‘ब्रह्मादिगुणरतनानि’ब्रह्मचर्य - तपः-संयमप्रभृतयो ये गुणास्त एव दौर्गत्यदुःखापहारितया रत्नानि तानि प्रमादाद् 'दहति' भस्मसात् करोति ।। अमुमेवार्थं द्रढयति
[भा. २१५३ ] सुक्खिधन-वाउबलाऽभिदीवितो दिप्पतेऽ हियं वण्ही । दिट्ठिधन-रागानिलसमीरितो ईय भावग्गी ॥
दृ-शुष्केन्धनेन वायुबलेन वाऽभिदीपितो यथा वह्निरधिकं दीप्यते "ईय” एवं दृष्टिरूपं यदिन्धनं यश्च रागरूपोऽनिलः-वायुस्ताभ्यां समीरितः उद्दीपितो भृशं भावाग्निरपि दीप्यते ॥ अथ “किं पुन तासिं तयं नत्थि" त्ति पदं भावयन् शिष्येण प्रश्नं कारयति - लुक्खमरसुण्हमनिकामभोइणं देहभूसविरयाणं । सज्झाय- पेहमादिसु, वावारेसुं कओ मोहो ।
[भा. २१५४ ]
वृ- रूक्षं-निस्नेहम् “अरसोहं" इति नञ् प्रत्येकभिसम्बध्यते अरसं-हिंग्वादिभिरसंस्कृतम् अनुष्ण-शीतलम् अनिकामं परिमितं भक्तं भोक्तुं शीलमेषां ते रूक्षा- Sरसा ऽनुष्णाS निकामभोजिनस्तेषाम्, मकारावलाक्षणिकी, तथा देहभूषायाः स्नानादिरूपाया विरतानांप्रतिनिवृत्तानाम्, स्वाध्यायः- वाचनादिरूपः प्रेक्षा-प्रत्युपेक्षणा तयोः आदिशब्दाद् वैयावृत्त्यादिषु च व्यापारेषु व्यापृतानां साधु-साध्वीजनानां कुतः 'मोहः' पुरुषवेदाद्युदयरूपः सम्भवति ? ॥ अत्र प्रतिवचनमाह
[भा. २१५५ ] नियणाइलुननमद्दण, वावारे बहुविहे दिया काउं । सुक्ख सुढियावि रत्तिं, किसीवला किं न मोहंति ॥
वृ- "नियणं' ति निदानं निद्दिणणमित्यर्थः, आदिशब्द उत्तरत्र योक्ष्यते, लवनं मर्दनं च प्रतीतम्, एवमादीन् बहुविधान् व्यापारान् दिवा कृत्वा 'शुष्काः ' स्नानाद्यभावेन शीतोष्णादिभइश्च परिम्लानाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org