________________
उद्देशक : १, मूलं- ४६, [भा. ३०४६]
२१५
जेसिं वते सरीरा, अविदिन्ना तेहि जीवेहिं ।।
वृ- यद्यपि कन्दादिकं स्वामिना दत्तं गृह्णाति तथापि सचित्तमिति कृत्वा 'जिनैः ' तीर्थकरैर्नानुज्ञातमिति दिवाऽपि स्तैन्यं भवति किं पुनः शर्वरी-रात्रिस्तद्विषये तद्गोचरे गृह्णतः ? येषां वा जीवानां तानि कन्दादीनि शरीराणि तैरवितीर्णानि गृह्णतस्तृतीयव्रतभङ्गो भवति ॥ [भा. ३०४७] पंचमे अनेसणादी, छट्ठे कप्पो व पढम बिइया वा । भग्गवउ त्ति य जातो, अपरिणतो मेहुणं पि वए ।
वृ- पञ्चमे महाव्रते अनेषणीयम्, आदिशब्दादाकीर्णविकीर्णं हिरण्यादिकं च गृह्णतः परिग्रहो भवति । ‘षष्ठे' रात्रिभक्तव्रते "कप्पो व” त्ति विभक्तिव्यत्ययाद् अध्वकल्पं भुञ्जीत, “पढम बीया व "त्ति प्रथम-द्वितीयपरीषहातुरो वा रजन्यां भुञ्जीत वा पिबेद्वा, एवं षष्ठव्रतविराधना । ततश्च 'भग्नव्रतोऽहम्' इति बुध्या मैथुनमपि 'व्रजेत्' सेवेत, यद्वा योऽद्याप्यपरिणतः स सार्थे व्रजति सति कायिक्यदिनिमित्तमपसृतः सन् काञ्चिदविरतिकामप्यपसृतां विलक्याल्पसागारिके प्रतिसेवेत ।। भाविता मूलगुणविराधना । अथोत्तरगुणविराधनां भावयतियादS सोहि रत्तिं, भासाए उच्चसद्दवाहरणं । नय आदाणुस्सग्गे, सोहए कायाइ ठाणाई ॥
[भा. ३०४८]
वृ-रात्रावीर्यादीनां समितीनाम् 'अशोधि' शोधिर्न भवति । तत्राचक्षुर्विषयत्वेनेर्यासमितिम्, पथो विप्रणष्टानां साधूनामुच्चशब्देन व्याहरणं कुर्वन् भाषासमितिम् उपलक्षणत्वादुदकार्द्रादिकमपश्यन्त्रेषणासमितिम् तथाऽप्रत्युपेक्षिते भूभगे "ठाणाइ "त्ति स्थान-निषदनादीनि कुर्वन्नादाननिक्षेपसमितिम्, अस्थण्डिले “कायाइ "त्ति कायिक्यादि व्युत्सृजन् उत्सर्गसमितिं च न शोधयति । एषा सर्वा संयमविराधना । अथात्मविराधनामुपदर्शयति
[भा. ३०४९] वाले तेने तह सावए य विसमे य खाणु कंटे य । अकमहाभयं आयसमुत्थं, रत्तिं मग्गे भवे दोसा ॥
- रात्रौ मार्गे गच्छत एते दोषाः 'व्यालेन' सर्पादिना दश्येत, स्तेनैरुपकरणं संयतो वा हियेत, सिंहादिभिर्वा श्वापदैरुपद्रूयेत, 'विषमे वा' निम्नोन्नते प्रपतेत्, स्थाणुना वा कण्टकैर्वा विध्येत, अथवा 'आत्मसमुत्थं' स्तेनादिबाह्यहेतुविरहेण खचित्तकल्पनोठप्रेक्षितमकस्माद्भयं रात्री मार्गे गच्छतो भवेत् ॥ अथात्रैव द्वितीयपदमाह
[भा. ३०५०]
कप्पइ गिलाणगट्ठा, रत्तिं मग्गो तहेव संझाए । पंथीय पुव्वदिट्ठो, आरक्खिओ पुव्वभणिओ य ॥
वृ- अथ ग्लाः- रोगार्त्तः स एकस्माद् ग्रामाद् ग्रामान्तरं नेतव्यः, यद्वा ग्लानः कश्चिदपरत्र ग्रामादौ सञ्जातः तदर्थं तत्र गन्तव्यम्, एवं ग्लानार्थं रात्रौ वा सन्ध्यायां वा मार्गे गन्तुं कल्पते । येन च पथा गन्तव्यं स पूर्वमेव-अर्वाग्दिने दृष्टः-प्रत्युपेक्षितो यथा भवति तथा कर्त्तव्यम् । आरक्षिकश्च पूर्वमेव भणितो विधेयः, यथा-वयं ग्लानकारणेन रात्रौ गमिष्यामः भवद्भिर्न किमपि च्छलं ग्रहीतव्यम् । एवमुक्ते तेनानुज्ञाते सति गच्छन्ति ।। गतं मार्गद्वारम् । अथ पथिद्वारमाह
[भा. ३०५१]
दुविहो य होइ पंथो, छिन्नद्धानंतरं अछिन्नं च ।
छिन्नम्मि नत्थि किंची, अछिन्न पल्लीहि वइगाहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org