________________
२१६
बृहत्कल्प-छेदसूत्रम् -२-१/४६
वृ- द्विविधश्च भवति पन्थाः, तद्यथा - छिन्नाध्वान्तरमच्छिन्नाध्वान्तरं च । छिन्नं-ग्रामादिरहितमध्वलक्षणं यदन्तरम् - अपान्तरालं यत् छिन्नाध्वान्तरम्, तद्विपरीतमच्छिन्नाध्वान्तरम् । तत्र च्छिन्ने पथि ग्राम-नगर-पल्ली-व्रजिकानां किञ्चिदेकतरमपि नास्ति, सर्वथैव शून्यत्वात् । यः पुनरच्छिन्नः पन्थाः स पल्लीभिर्व्रजिकाभिर्वा युक्तो भवति ॥
[भा. ३०५२] छिन्त्रेण अछित्रेण व, रत्तिं गुरुगा य दिवसतो लहुगा । उद्दद्दरे पवज्जण, सुद्धपदे सेवती जंच ॥
वृ- अनन्तरोक्तेन च्छिन्नेनाच्छिन्नेन वा पथा व्रजतो रात्रौ चतुर्गुरुकाः, दिवा गच्छतश्चतुर्लघुकाः । अत एव यत्रोर्ध्वदराः पूर्यन्ते तत्र यद्यध्वानं प्रतिपद्यन्ते तदा शुद्धपदेऽप्येतत् प्रायश्चित्तम्, यच्चाकल्पनीयादिकं किमपि सेवते तन्निष्पन्नं पृथक् प्रायश्चित्तमापद्यते ।। इदमेव स्फुटतरमाहउद्दद्दरे सुभिक्खे, खेमे नरुवद्दवे सुहविहारे । जइ पडिवजति पंथं, दप्पेण परं न अन्नेणं ॥
[भा. ३०५३]
वृ- ‘ऊर्ध्वदरे’ अनन्तरोक्ते ‘सुभिक्षे' सुलभभैक्षे 'क्षेमे' स्तेन-परचक्रादिभयरहिते 'निरुपद्रवे' आशिवाद्युपद्रववर्जिते 'सुखविहारे' सुखेनैव मासकल्पविधिना विहर्तुं शक्ये, एवंविधे जनपदे सति यदि पन्थानं छिन्नमच्छिन्नं वा प्रतिपद्यते । कथम् ? इत्याह- 'परं' केवलं 'दर्पेण' देशदर्शनादिनिमित्तं न ‘अन्येन' ज्ञानादिना पुष्टालम्बनेन । ततः किं भवति ? इत्याह[भा. ३०५४] आणा न कप्पइ त्ति य, अणवत्थ पसंगताए गणणासो । वसणादिसभावम्णे, मिच्छत्ताराधना भणिया ।
वृ- 'आज्ञा' 'न कल्पतेऽध्वानं गन्तुम्' इति ल७णा भगवतां विराधिता भवति । 'अनवस्था' 'यद्येष बहुश्रोतऽप्येवमध्वानं प्रतिपद्यते ततः किमहं न प्रतिपद्ये ? ' एवमनवस्था । अतः ‘'प्रसङ्गेन' परम्परया सर्वस्यापि गणस्य 'नाशः ' चारित्रव्यवच्छेदः प्राप्नोति । तथाऽध्वानं प्रतिपन्नः सन् यदा 'व्यसनं' द्रव्याद्यापदम् आदिशब्दादपरं वा कमपि प्रत्यपायं समापन्नः - प्राप्त भवति तदा मिथ्यात्वस्याराधना- अनुसजना भणिता । तथाहि साधूनध्वनि व्यसनादिसमापन्नान् दृष्टवा लोको ब्रूयात्- अहो ! अमीषां तीर्थकरेणैतदपि न दृष्टम्, यदेवंविधो बहुप्रत्यपायः पन्था न प्रतिपत्तव्यः ॥ अथ विराधना भाव्यते, सा च द्विधा- आत्मनि संयमे च । तत्रात्मविराधनामाह
[भा. ३०५५ ] वाय खलु वाय कंडग, आवडणं विसम-खाणु-कंटेसु । वाले सावय तेणे, एमाइ हवंति आयाए ।
वृ-अध्वानं गच्छतः ‘खलुकाः' जानुकादिसन्धयो वातेन गृह्यन्ते, “वाय कंडय” त्ति जङ्घायां वातेन कण्डकान्युत्तिष्ठन्ते, विषमे वा स्थाणौ वा 'आपतनं' प्रस्खलनं बवति, कण्टका वा पादयोर्लगेयुः, व्याला वा श्वापदा वा स्तेना वा उपद्रवेयुः । एवमादिका आत्मविराधना मन्तव्या ॥ संयमविराधनामाह
[भा. ३०५६ ] छक्कायाण विराधन, उवगरणं बाल- वुड्ढ - सेहा य । पढमेण व बिइणव, सावय तेने य मिच्छा य ॥
वृ- अस्थण्डिले स्थान-निषदनादि कुर्वन् पृथिव्यादीनां षण्णां कायानां विराधनां करोति । 'उपकरणम्' अध्वप्रायोग्यं नन्दीप्रतिग्रहादि यदि गृह्णन्ति ततो मारेण वेदनादयो दोषाः । अथ न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org