________________
उद्देशक : : १, मूलं - ४६, [भा. ३०५६]
२१७
गृह्णन्ति तत उपकरणेन विना यत् प्राप्नुवन्ति तन्निष्पन्नं प्रायश्चित्तम् । बाल-वृद्ध-शैक्षाश्च प्रथमेन वा द्वितीयेन वा परीषण परिताप्यन्ते । साधवो वा श्वापदैर्भक्ष्यन्ते । स्तेनैरुपकरणमपहियते । म्लेच्छा वा क्षुल्लकादीनपहरेयुर्जीविताद्वा व्यपरोपयेयुः ।। अथोपकरणपदं विशेषतो व्याख्यानयति[भा. ३०५७] उवगरणगेण्हणे भारवेदणा तेन गुम्मि अहिगरणं । रीयादि अनुवओगो, गोम्मिय भारवाह उड्डाहो ।
वृ-उपकरणं-नन्दीप्रतिग्रहा -ऽध्वकल्प-गुलिकादि यदि गृह्णन्ति ततो भारेण महती वेदना जायते । बहूपकरणाश्च स्तेनानां गौल्मिकानां वा गम्या भवन्ति । हृतेषु चोपकरणेष्वसंयतेन परिभुज्यमानेष्वधिकरणम् । भाराक्रान्तानां चेर्यादावनुपयोगो भवति । बहूपकरणान् वाध्ष्ट्वा 'गौल्मिकाः’ स्थानपाला उपद्रवेयुः । लोको वा ब्रूयात् - अहो ! बहुलोभा भारवाहाश्चैते एवमुड्डाहो भवति । अथैतद्दोषभयादुपकरणमुज्झन्ति ततो यत् तेन विना प्राप्नुवन्ति तन्निष्पन्नम् ॥
[भा. ३०५८] चम्मकरग सत्थादी, दुलिंग कप्पे अ चिलिमिणिअगहणे । तस विपरिणमुड्डाहो, कंदाइवधो य कुच्छा य ॥
वृ-इह पूर्वार्द्ध-पश्चार्द्धपदानां यथासङ्घयेन योजना कार्या । तद्यथा चर्मकरकं यदि न गृह्णन्ति ततः 'त्रसानां' पूतरकादीनां विराधना भवति । शस्त्रकोशस्य आदिशब्दाद् गुलिकाखोलादीनामग्रहणे कण्टकादिशल्यविद्धानां शैक्षादीनां च विपरिणामो भवति । “दुलिंग "त्ति लिङ्गद्वयं-गृहिलिङ्ग अन्यपाषण्डिकलिङ्गं च तयोरुपकरणेऽगृह्यमाणे स्वलिङ्गेनैव रात्री भक्तग्रहणे पिशितादिग्रहणे वा उड्डाहः स्यात् । अध्वकल्पं विना कन्दमूलादीनां वधो भवति । चिलिमिलिकाया अग्रहणे मण्डल्या भुञ्जानान् विलोक्य जनः 'कुत्सां' जुगुप्सां कुर्यात् ॥
[भा. ३०५९ ] अप्परिणामगमरणं, अइपरिणामा य होंति नित्यक्का । निग्गय गहणे चोइय, भांति तइया कहं कप्पे ॥
वृ-तत्राध्वनि गच्छतामेषणीयालाभे पञ्चकादियतनयाऽनेषणीयमपि गृह्यते तच्चापरिणामको न गृह्णाति, अगृह्णानस्य च तस्य भरणं भवेत् । ये पुनरतिपिणामकास्तेऽकल्पनीयग्रहणं दृष्ट्वा ‘नित्थक्काः’ निर्लज्जा भवन्ति, ततश्चाध्वनो निर्गताः सन्तोऽ कल्प्यग्रहणं कुर्वाणा गीतार्थैः प्रतिनोदिताः-‘आर्या! मा गृह्णीध्वमकल्यम्' ततस्ते ब्रुवते तदाऽध्वनि वर्त्तमानानां 'कथमकल्प्यत ?' कथं कल्पनीयमासीत् ? ॥
[भा. ३०६०]
तेनभयोदककज्जे, रत्तिं सिग्घगति दूरगमने य ।
वहणावहणे दोसा, बालादी सल्लविद्धेय ॥
वृ- स्तेनभये दण्डकचिलिमिलिकां विना, उदककार्ये चर्मकरकं गुलिकां खोलकानि वा विना यत्प्राप्नुवन्ति तन्निष्पन्नंप्रायश्चित्तम् । रात्रौ सार्थवशेन शीघ्रगतौ दूरगमने वोपस्थिते तलिकाभिर्विना बल-वृद्धादयः प्रपतन्ति तान् यदि कापोतिकया वहन्ति तदा स्वयं परिताप्यन्ते अथ कापोतिकाया अभावान्न वहन्ति ततस्ते परिताप्यन्ते । शल्यविद्धाः शस्त्रकोशकेन विना शल्येऽनुद्रियमाणे यत् परितापनादिकं प्राप्नुवन्ति तन्निष्पन्नम् ॥
यत एवमतो निष्कारणेऽध्वा न प्रतिपत्तव्यः । कारणे तु प्रतिपद्यमानानामयं क्रमः
[भा. ३०६१] बिइयपय गम्ममाणे, मग्गे असतीय पंथे जतणाए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org